________________
बहिः शरीराद् यद्रूपमात्मनः सम्प्रतीयते ।
उक्तं तदेव मुक्तस्य मुनिना कणभोजिना ।। निराश्रयचित्तोत्पत्तिलक्षणो मोक्षः इति मोक्षावसराः ताथागताः । तदुक्तम्-
दिशं न काञ्चिद् विदिशं न काञ्चिन- नैवावनिं गच्छति नान्तरिक्षम् । दीपो यथा निर्वृतिमभ्युपेतः, स्नेहक्षयात् केवलमेति शान्तिम् ॥ ज दिशं न काञ्चिद् विदिशं न काञ्चिन्- नैवावनिं गच्छति नान्तरिक्षम् ।
जीवस्तथा निर्वृतिमभ्युपेतः, क्लेशक्षयात् केवलमेति शान्तिम् ॥ इति। - बुद्धिमनोऽहङ्कारविरहाद् अखिलेन्द्रियोपशमावहात्तदा द्रष्टः स्वरूपेऽवस्थानं मुक्तिरिति कापिलाः । यथा घटविघटने घटाकाशमाकाशीभवति तथा देहोच्छेदात् सर्वः प्राणी परे ब्रह्मणि लीयते इति ब्रह्माद्वैतवादिनः ।"
अत्र सोमदेवेन कृतं मोक्षविवरणं तत्तन्मतानुसारेण कृतमिति वक्तुं न शक्य तथाऽपि तस्याऽनेकमतविचारज्ञानमासीदिति अविवादम् । सर्वेषां स्वमते श्रद्धा, त
अन्यत्राऽनादर इति तु लोके दृश्यत एव । 5 इत्थं यशस्तिलकचम्पू: अनितरसाधारणान् गुणान् बिभ्रती विपश्चिदपश्चिमानां मनांस्याकर्षति ।
श्रद्धया पठिता ह्येषा ज्ञानं जनयति ध्रुवम् ।
प्रयत्नस्तत्र कर्तव्यो विद्वद्भिः सादरं सदा । दीर्घः कालोऽपेक्ष्यते च ग्रन्थस्याऽस्य विमर्शने । महत्त्वं च बृहत्त्वं ग्रन्थेऽस्मिन् विद्यते यत उक्तं हि ग्रन्थान्ते
एतामष्टसहस्रीमजस्रमनुपूर्वशः कृती विमृशन् ।
कवितारहस्यमुद्रामवाप्नुयादासमुद्रं च यशः ॥ इति । सोमदेवादन्येन मातृकायां लिखितं च पद्यमिदम्
वर्णः पदं वाक्यविधिः समासो लिङ्गं क्रिया कारकमन्यतन्त्रम् । छन्दो रसो रीतिरलङ्क्रियार्थो
लोकस्थितिश्चात्र चतुर्दशस्युः ॥ एतेषु सर्वेषु व्युत्पत्तिं लब्धुकामैः सोमदेवस्य चम्पूकृतिरवश्याऽध्येयेति शम्। रे
|
इइइइइइइइइइइइइइ)
90, 9th Cross, Navilu raste, Kuvempunagar
MYSURE - 570023. Ph. : 0821-2542599
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org