SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ कथा प्रतिपन्ननिर्वहणम् सा. दीप्रयशाश्रीः राजगृहीनगर्यां चत्वारि मित्राणि बभूवः । ते चत्वारोऽपि परस्परं गाढप्रीतियुता आसन् । एकदा नगर्यामाचार्यश्रीभद्रबाहुस्वामिन आगताः । सर्वे नगरजना देशनां श्रोतुमागताः । देशनां श्रुत्वा चत्वारि मित्राणि चारित्रं ग्रहीतुं सङ्कल्पमकुर्वन् । तानि गुरुभगवत आहुः - भवतां गिरं श्रुत्वा संसारो दावानल इव दृश्यते । ततश्चाऽस्मभ्यं दीक्षां दत्त्वाऽस्माकं कल्याणं कुरुत । गुरुभिस्तेषां विज्ञप्तिः स्वीकृता ते च प्रव्राजिताः । चारित्रं गृहीत्वा चत्वारोऽपि गुरुसेवां कुर्वन्ति स्म । तथैव श्रुताभ्यासं कृत्वा श्रुतपारगामिणश्चाऽभवन् । ततः सर्वे मुनयो गुर्वाज्ञया एकाकिविहारनाम्नी प्रतिमा स्वीचक्रुः यस्यामाहार-विहारादि तृतीयप्रहर एव करणीयं भवति । चतुर्थप्रहरे च यो यत्र स्यात् तत्रैव स्थित्वा सप्तप्रहरपर्यन्तं कायोत्सर्गध्यानं करणीयं भवति । ते साधव आचारमिमं निरतिचारतया पालयन्तो राजगृहीनगर्यां गताः । तदा शीतर्तुः प्रवर्तमान आसीत् । तद्दिने आहारं कृत्वा प्रथममुनिर्वैभारगिरिगुहायाः समीपं, द्वितीयमुनिगराद् बहि: पर्वतसमीपं, तृतीयमुनिनगरोद्यानस्य समीपं, चतुर्थमुनिश्च नगराद् बहिर्यावदागतास्तावत् चतुर्थप्रहरः प्रारब्धः । अतस्ते स्वस्थाने एव कायोत्सर्गध्यानेन तस्थुः । रात्र्यां शैत्यमवर्धत । तेन च शरीरावयवान्यकम्पन्त । तथाऽपि चतुर्थ्य एकोऽपि मुनिरन्यत् स्थानं गन्तुं विचारमपि न कृतवान् । ते समभावेन शैत्यं सोढवन्तः । अथ च शैत्यं सहमानास्ते चत्वारोऽपि मुनयो मनागपि दुश्चिन्तनमकृत्वैकैकशः प्राणान् तत्यजुः स्वर्गलोकं च प्राप्तवन्तः । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy