________________
कथा
Jain Education International 2010_04
त्यागधर्म:
मुनिधर्मकीर्तिविजयः
अस्त्येषा घटनैतिहासिकी । सम्राडकब्बरस्य पुत्रः सलीमो मेवाडराज्यमाक्राम्यत् । अथैकदा सलीमेन सेनापतिरादिष्टः 'गच्छ, अश्वानामाहारार्थः हरितचणकानानय' ।
‘यथाऽऽज्ञा' इत्युक्त्वा दलेनैकेन सह स गतवान् । मार्गे दुर्गम आसीत् । सर्वेऽपि बहुकालमटितवन्तः । मध्याह्नवेला सञ्जाता । तथाऽपि कुत्रचिदपि हरितानि क्षेत्राणि न दृष्टानि । आसतां मानवाः, चटकमात्रमपि न दृष्टिपथमायाति स्म तत्र हरितचणकानां तु का वार्ता ?
सेनापतिर्निराशो बभूव । तदैव कुटीरमेकं दृष्ट्वा तस्य मुखे प्रसन्नता प्रसृता । तत्र गत्वा स द्वारं प्रहृतवान् । कृच्छ्रितदेहः कश्चिद् वृद्धो बहिरागतवान् ।
सेनानायक उवाच - 'रे वृद्ध ! अश्वानामाहारार्थं हरितचणकानिच्छाम्यहम् । ततोऽस्माभिः सहाऽऽगत्य कुतश्चणकाः प्राप्तव्या इति दर्शयतु भवान्' । एतच्छ्रुत्वैव वृद्धश्चिन्तातुरो जात: । हृदये प्रकटीभूतया वेदनया तस्य मुखमपि ताम्रवर्णं जातम् । तदनु मनस्येव निर्णीय 'चलन्तु' इत्युक्तवान् वृद्धः । अग्रे गच्छता हरितचणकैः पूर्णं क्षेत्रमेकं दृष्टमधिकारिणा । ततस्तेनाऽधिकारिणाऽऽदिष्टम् – 'सर्वे विश्राम्यन्तु । एतत् क्षेत्रमेव योग्यमस्ति ततोऽस्मादेव हरितचणकान् गृह्णन्तु'- इति ।
-
वृद्ध उक्तवान् 'इतो न ग्रहीतव्याः कृपया । अग्रे चलन्तु इतोऽपि क्षेत्राण्युत्तमानि विद्यन्ते' ।
=P
सेनापतिराह - 'भो वृद्ध ! अस्मान् वञ्चयितुं मा प्रयताम् । यदीप्सितं तत् प्राप्तं तर्हि किमर्थमग्रे गन्तव्यम् ? वयं त्वत्रैव तिष्ठामः, त्वं गच्छ' ।
आत्मन: श्मश्व्रा उपरि हस्ततलं प्रसार्य वृद्धः कथितवान् ‘अद्यावधि न कोऽपि वञ्चितो मया । मम वचने श्रद्धां विधायाऽग्रे चलन्तु इतोऽप्युत्तमं क्षेत्रं दर्शयामि' - इति ।
८८
For Private Personal Use Only
www.jainelibrary.org