________________
तावदपि पापं नाशयितुं प्रभवत्येव । पापस्याऽस्तित्वमेवाऽथ नाऽस्ति । अन्यच्च, बालोऽयं हि नाऽन्यस्य कस्यचिदपि किन्त्वीश्वरस्यैव सोऽस्ति । क एनं पापमिति वक्ष्यति ? एतादृशः प्रेमपावकस्तु पापं समूलं दहति । त्वं गच्छ । गृहं च गत्वा घटितं सर्वमपि तत्समक्षमङ्गीकरोतु । तस्य स्नेहो यदि यथार्थः स्यात् तमुलं लोकेन लोकवार्तया वा । एवं सत्यपि यदि स समाहितो न स्यात् तहि सबालं त्वयाऽत्र निःसङ्कोचमागन्तव्यम् ।"
श्यामस्ततो निर्गतः । अन्धकार एव तटाकसमीपवर्तिना मार्गेण स गतः । पितामहस्याऽन्तिमं वचनं तस्य कर्णयोर्गञ्जति स्मेव - 'यथार्थस्य स्नेहस्य पावके
पापानि समूलं विनश्यन्ति । नाऽस्ति बालः कस्यचिदन्यस्य किन्तु भगवत एव स O भवति । यथार्थो यदि स्नेहोऽलं लोकेन' इति ।
रात्रिभोजनवेलायां स गृहं प्राप्तवान् । नित्यमिव स सविताया मस्तकं । हस्तयोर्गृहीतवान् । मम स्पर्शेनैष कलङ्कितो भविष्यतीति मत्या सा शनैर्दूरमपसृतवती । स्ववृत्तं चाऽऽरब्धवती
"अहमद्य पितामहसमक्षं गतवत्यासम् ।" "अहं जानामि ।" "कुतः?" "अहं तत्राऽऽसम्"। "भवता सर्वं श्रुतं किल?" सविता भयविह्वला जाता ।
"नैव, न सर्वं श्रोतव्यमासीत् । केवलं - यथार्थस्य स्नेहस्य पावके पापं 8 समूलं विनश्यति । बालक ईश्वरस्यैव भवति, अलं च लोकेन । - इत्येतावदेव हृदये उदृङ्कितं मया ।"
दोलने सुप्तं पुत्रं प्रति स स्वकीयं स्नेहं वर्षितवान् । तदनु च यदा स सवितामाश्लिष्टवान् तदा प्रथममेव स्वं निष्पापामिव पुष्पवल्लघुतरामिव चाऽनुभवन्ती सविता तमालिङ्गितवती।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org