SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ yyyyyy ayyyyyyywwve, वृद्धस्य वचनमङ्गीकृत्य तमनुसरन्तः सर्वेऽपि पुनरग्रे प्रस्थिताः । अन्यद् . र हरितचणकान्वितं क्षेत्रं दर्शयित्वा ‘यावन्तश्चणका अपेक्षितास्तावतो गृह्णीयुः' र इत्युक्तवान् वृद्धः । सर्वेऽपि सैनिका यथेच्छं चणकान् गृहीतवन्तः । क्षणेन विशालमपि Sie क्षेत्रं रिक्तं जातम् । गच्छन् सेनापतिस्तं वृद्धं पृष्टवान् – 'भो ! किञ्चित् प्रष्टुमुत्सुकोऽस्मि । S प्रथमं समीपस्थितं क्षेत्रमप्येतादृशमेवाऽऽसीत् तथाऽपि वयं त्वया निवारिताः । किन्त्वेतावद् दूरमानीयैतस्मात् क्षेत्रात् चणकान् ग्रहीतुमुक्तवान् भवान् । किमत्र रहस्यम् ? किं कश्चित् स्वार्थ आसीत् ?' बाष्पार्द्रनयने निमील्य वृद्धो जगाद – 'सत्यम् । स्वार्थोऽस्त्येव । परं सन त्विहलोकस्याऽपि तु परलोकस्य, न च देहस्य किन्त्वात्मनः । सेनापते ! किं कोऽपि स्वार्थं विना कार्यं करोति खलु ? प्रथमं यत् क्षेत्रं दृष्टं तत् प्रातिवेशिकस्याऽऽसीत् । तर तत्र नाऽस्ति मे कोऽप्यधिकारः । एतत्पुनर्मम क्षेत्रमस्ति । अतो मयैतदेव दर्शितम् ।' सेनानायकः साश्चर्यं गदितवान् – 'सत्यं खलु किमेतत् ?' वृद्धो जगाद - 2 'आम्, भवन्तः सर्वमपि निःशुल्कं गृह्णन्ति-इत्यहं जानाम्येव । ततः कथमहं प्रातिवेशिकस्य क्षेत्रं भवते दर्शयेयम् ? विपद्यपि प्रातिवेश्मिकधर्मो रक्षितो मया, तथा सर्वस्वे विनष्टे सत्यपि नीती रक्षिता मया-इति सन्तोषोऽस्ति' । प्रतिगच्छन् सेनापतिश्चिन्तितवान् – “यस्यां भूमौ निर्धनः कृषीवलोऽप्येतादृशं । त्यागधर्मं जानाति तां भूमि जेतुं किं वयं प्रभविष्यामः?" - इति । NNNNNNNNN M ^^水水來 मा ) MAMMAMAAVAT 米米米米米米米米米米米米米茶米米米苏长长长长长长长长长长长长长长长 यदा जीवनं भवते रोदितुं निमित्तशतानि ददाति तदा दर्शयतु जीवनाय यद् भवान् हसितुं निमित्तसहस्राणि धारयति ॥ 光光我张张张张张张关法表张长长长长长长长张张张张张张张张张张张张 Ayyyyyy 來來來來水水水水 G Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy