SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सरला: स्याद्वादसिद्धान्ता: २ मुनित्रैलोक्यमण्डनविजयः । पूर्वस्मिन्नङ्केऽस्माभिरधिगतमेतत्कार्यं स्वोपादानद्रव्यरूपेणोत्पत्तेः पूर्वमपि सद भवति पर्यायरूपेण चोत्पत्तेः पश्चाद् । अयमेवोच्यते कथञ्चित्-सदसत्कार्यवादः । (अयमंशोऽङ्केऽस्मिन् विस्तृततया विवेचितः ।) द्रव्यार्थिकनये - उत्पादात्पूर्वं द्रव्यस्य पर्यायविशेषेणाऽवस्थानम्, उत्पादानन्तरं च तदन्यपर्यायेण । अस्मिन् नये द्रव्यस्याऽप्युत्पत्तौ सहभागिता । पर्यायार्थिकनये - उत्पादात्पूर्वं द्रव्ये पर्यायविशेषस्य सत्त्वम्, उत्पादानन्तरं च VI तदन्यपर्यायस्य । अस्मिन् नये द्रव्यस्योत्पत्तौ न घटकता । ३. नाशविभागः नाशः प्रायोगिक: वैस्रसिकः समुदयनितः ऐकत्विकः समुदयविभागजन्यः समुदयसंयोगजन्यः (अर्थान्तरगमनलक्षणः) स्वप्रतियोगिप्रतीतिबाधकः स्वप्रतियोगिप्रतीत्यबाधकः अस्मिन्नङ्केऽप्युत्पादविनाशावेवाऽधिकृतौ । विषयोऽयं श्रीहरिभद्रसूरिरचितशास्त्रवार्तासमुच्चयग्रन्थोपरि महामहोपाध्यायश्रीयशोविजयविनिर्मित-स्याद्वादकल्पIY लताटीकातो (स्त. ७ का. १) गृहीतः । ३२ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy