SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ (१) शिष्यः- मत्थएण वंदामि भंते ! किञ्चित् प्रष्टव्यमस्ति । गुरु:- अवश्यं पृच्छतु । किमर्थं सङ्कोच: ? शिष्यः-प्रभो ! स्याद्वादे उत्पाद एव कथं घटेत ? गुरुः- कथमर्थात् ? कस्तत्राऽवरोधः ? शिष्यः- उत्पादो नाम विवक्षितक्षणे विद्यमानस्य तत्पूर्वं चाऽविद्यमानस्य तत्क्षणेन सह सम्बन्धः । अत्रोत्पादनिर्वचने 'पूर्वमविद्यमानत्वं' प्रविष्टमस्ति । वयं च न नैयायिकवत् कार्यस्योत्पत्तेः प्रागसत्त्वं स्वीकुर्मः, प्रत्युत सत्त्वमङ्गी कुर्मः । ततः स्याद्वादे उत्पादोत्पादनं दुःशकमिति मे मतिः । - गुरु:- वत्स ! किञ्चिद् भ्रान्तोऽस्ति भवान् । सावधानं श्रूयताम् । वयं वस्तुनस्तदुत्पत्तेः पूर्वमपि सत्त्वं यद्यप्युररीकुर्मः, तथाऽपि येन रूपेण प्राक् सत्त्वं तेनैव रूपेण पश्चादुत्पत्तिरिति न ब्रूमः । किं तर्हि ? तदुपादानद्रव्यरूपेण । वस्तुनः पूर्वास्तित्वस्य स्वीकारोऽस्माकं, न पुनस्तद्व्यक्तित्वेन, तेन रूपेण तृत्पत्तेः पश्चादेव तत्सत्त्वमभ्युपगतमस्माभिः । कथञ्चित्सदसत्कार्यवाद स्याऽत्रैव तात्पर्यम् । शिष्यः-निदर्शनेन साकं प्रदर्श्यते चेत्... । गुरु:- प्रदर्शयामि । प्रथमं भवान् वदतु यद् घटो नाम किम् ? शिष्यः- जलधारणादि कर्तुं क्षमं विशिष्टं द्रव्यम् । गुरु:- तद् द्रव्यं मृत्तिकातो भिन्नमभिन्नं वा ? NV शिष्यः- 'पार्थिवो घट' इत्युच्यते लोकेऽतोऽभिन्नं स्यात् । गुरुः- एवं सति घटे इव मृत्तिकायामपि जलधारणं कथं न भवति ? NY शिष्यः- तर्हि भिन्नमेव मन्तव्यम् । गुरुः- अरे ! तदा यथा घटो मृत्तिकातो भिन्न एव, तथा तन्तुभ्योऽपि भिन्न एवेति यथा मृत्तिकातो घटोत्पादस्तथा तन्तुभ्योऽपि घटः कथं नोत्पद्यते ? शिष्यः-नोत्पद्यते इति नोत्पद्यते । सर्वजनप्रसिद्धमेतत् ।। गुरु:- मम प्रश्नो न तस्य प्रसिद्धताविषये, किन्तु तद्धेतुताविषये । शिष्यः- तयेवमस्तु-मृत्तिकायां घटोत्पादस्वभाव इति ततो घटोत्पत्तिः, तन्तुषु पुनर्न स स्वभाव इति ततो न तदुत्पत्तिः । ३३ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy