________________
Jain Education International 2010_04
गुरु: - सत्यमुक्तं भवता । परं कथितस्य तात्पर्यं किं भवेत् तदपि चिन्त्यताम् । शिष्य :- तन्नाऽहं जानामि । भवानेव कृपया दर्शयतु ।
गुरुः- शृणु । मृत्तिकायां घटोत्पादस्वभावः, न पुनस्तन्त्वादिष्वित्येतदेवं सूचयति यद् मृत्तिकायां घटस्य किञ्चिद्रूपेण सत्त्वं, तन्तुषु पुनर्न तथा सत्त्वम् । अथ च मृत्तिकायां घटस्य सत्त्वमित्थमेव - मृत्तिकैव कुलालप्रयत्नादिनिमित्तेन घटरूपेण परिणमते इति मृत्तिका घटस्योपादानम् । स्वोपादानद्रव्यत्वेन च घटस्य मृत्तिकाकाले सत्त्वमिति । घटव्यक्तित्वेन च घटस्योपत्तिः कुलालप्रयत्नादिनैव ।
शिष्य :- ननु स्वोपादानद्रव्यत्वेन सत्त्वमित्यस्य किं तात्पर्यम् ?
गुरु: - चिन्त्यतामेतत् । वयं हस्तौ ऊर्ध्वकृतवन्तं मनुष्यम् 'ऊर्ध्वहस्त' इति, हस्तावधः कृतवन्तं मनुष्यम् 'अधोहस्त' इति निर्दिशाम: । अथ यदा देवदत्तो हस्तावूर्वीकरोति तदा 'ऊर्ध्वहस्त' नामा नूत्न: पुरुष: समुद्भूतः, देवदत्तो विनष्ट इति मननं समीचीनं भवेत् ? पुनः स हस्तावध: करोति चेद् नूतनतयोद्भूतम् ‘अधोहस्त' पुरुषं देवदत्तस्य माता स्वपुत्रत्वेन न परिचिनुयात् ?
शिष्य :- ऊर्ध्वहस्तता, अधोहस्ततेत्यादयो देवदत्तस्याऽवस्थाविशेषा एव । तास्ववस्थास्वन्वीयमानो देवदत्तः कथञ्चिदेक एव । अतः पूर्वं समहस्तो देवदत्तो यदा हस्तावूर्वीकरोति तदा यद्यपि ऊर्ध्वहस्त उद्भूतः, समहस्तो विनष्टः, तथापि देवदत्तस्तु स्थित एव । एवमधोहस्ततावस्थामापन्नो देवदत्त एवाऽधोहस्त इति निर्दिश्यते । अधोहस्तः सर्वथा भिन्नः पुरुषस्तु नाऽस्ति, येन तन्माता तं न परिचिनुयात् ।
गुरुः- सम्यक् चिन्तितं भवता । परमेषैव वार्ता घटविषये कथं न योज्यते ?
घटत्वं (= पृथुबुध्नोदराद्याकारता-जलधारणक्षमतेत्यादि) अपि मृदोऽवस्थाविशेष एव । तामवस्थामापन्ना मृदेव 'घट' पदवाच्या भवति । अर्थाद् घटः = मृत्तिका अवस्थाविशेषः (= घटत्वम्) । तत्रैकांशेन घट: स्वोत्पत्तेः पूर्वमपि आसीत्, नाऽऽसीच्चाऽपरांशेन । येनांऽशेन पूर्वमासीत् तत्तस्योपादानमेव । अतः स्याद्वादिभिः कार्यात् पूर्वमपि तदुपादानत्वेन वस्तुनोऽस्तित्वं गीयते । कुलालकृत्यादिनाऽपरांशेनाऽपि सम्पन्नत्वे 'घट उत्पन्न' इति व्यवहारोपपत्तिरपि निराबाधा | शिष्यः- एवं स्थिते घटो न मृत्तिकातो भिन्नं द्रव्यं भवेत् ।
३४
+
For Private Personal Use Only
www.jainelibrary.org