________________
Jain Education International 2010_04
गुरुः- तत्त्विष्टमेव । घटो मृत्तिकातो कथंचिद्भिन्नाभिन्न एव स्याद्वादिभिरभ्युपगत: । मृदेव घटरूपेण परिणमते इति नाऽस्ति सर्वथा भिन्नत्वम् । मृत्तिकाया: कुशूलपरिणामकाले नाऽस्ति घट इति सर्वथाऽभिन्नत्वमपि
न ।
शिष्यः- तर्हि स्याद्वादे उत्पादो नाम तत्तत्परिणामकृतस्य तत्तदवस्थाविशेषस्य द्रव्येण सम्प्राप्तिरिति स्यात् ।
गुरु: - युक्तमुक्तं भवता । स्थितिविनाशावप्येवमेव निर्वाच्यौ । तथाहि तत्तदवस्थाविशेषेण द्रव्यस्याऽवस्थानं स्थितिः । तत्तत्परिणामकाले उत्तरावस्थासम्प्राप्तौ पूर्वावस्थाया द्रव्येण कृतस्त्याग एव विनाशः । अत्रेदमधिकम्-घटोऽपि रक्तता - खण्डघटतेत्याद्यवस्थाविशेषानवाप्नोति, श्यामतापूर्णघटतेत्याद्यवस्थाविशेषान् जहाति च; तथापि यावन्न शुद्ध‘घट’व्यक्तिभेदः, तावन्न 'घट' पदवाच्यतापरित्यागः । प्रकारान्तरेणोच्यते चेद् रक्तघटता-खण्डघटतेत्यादयो घटत्वावस्थाया एवाऽवस्थाविशेषाः । तत्र यावन्न मूलावस्थात्यागस्तावन्न 'घट' पदवाच्यताविरहः । अत एव घटं लक्ष्यीकृत्याऽपि 'इयं मृत्तिके' ति कादाचित्को लोकव्यवहारः शुद्ध'मृद्’व्यक्तिभेदाभावाद् द्रव्येण घटत्वावस्थाप्राप्तावपि मूलमृत्तिकावस्थाऽपरित्यागाद् वेति ।
तत्र
शिष्य :- तर्हि किं मृत्तिका मूलद्रव्यं न ?
गुरुः- नैव । मूलद्रव्यं तु पुद्गलाः । तेषां परम्परया मृत्तिकारूपेण परिणामः । तेषां घटरूपेण । तेषां घटखण्डरूपेण । तत: पुनर्मृत्तिकारूपेण । एवं चक्रं प्रचलति । मृद्रूपेण परिणताः पुद्गला जलत्वेनाऽपि परिणमितुमर्हन्ति । शिष्यः- ननु घटविनाशे मृत्पिण्ड एव कथं न प्रादुर्भवति ? मृत्तिका यदवस्थया परिणता तदवस्थानाशे तया पुनः स्वस्वरूपेणैव भवितव्यं खलु ? गुरुः- इत्थं च तदा स्याद् यदा यैव घटपूर्वावस्था सैव घटोत्तरावस्थेति स्वीक्रियेत । न चैवम् । यतो यत्र विवक्षितावस्थाविशेषादेकमेवाऽवस्थान्तरं सम्भवति तत्रैव पूर्वोत्तरावस्थयोः सङ्कीर्णता भवति - चक्षुरुन्मीलननिमीलनवत् । प्रकृते मृदस्तु बहवोऽवस्थाविशेषा इति घटनाशे मृदैव भवितव्यमित्यापादनमशक्यमिति ।
शिष्यः - भवता तत्त्वं बोधयित्वाऽनुगृहीतोऽस्मि ।
३५
For Private Personal Use Only
www.jainelibrary.org