________________
Jain Education International 2010_04
(२)
शिष्य:- प्रभो ! पूर्वं कदाचिद् भवता नाशप्रकारा बोधिता आसन् । अथोत्पादस्य विभजनं किं तथैव सम्भवति ?
गुरु: अथ किम् ? य एव पूर्वावस्थानाशः स एव उत्तरावस्थोत्पादः । उत्पादविनाशयोर्नान्तरीयकत्वमेव । एकैव क्रिया द्विधा व्यवह्रियते । 'तेजो नष्ट' मित्युच्यमाने 'तम उद्भूत' मिति कथ्यमाने वा लोके तत्तात्पर्यमेकमेवाऽवधार्यते । अतो नाशविभागतुल्य एवोत्पादविभागः । पश्यत्वेतत्पत्रम् । उत्पाद:
प्रायोगिक : (पुरुषप्रयत्नजन्य:)
समुदयजनितः (मूर्तावयवनियत:)
अवयवसंयोगजन्यः (घट-मेघादिः)
वैस्रसिक: (पुरुषव्यापाराजन्य:)
एकत्विक: (धर्मादौ)
३६
अवयवविभागजन्यः
(भस्म-परमाण्वादिः)
शिष्य :- प्रभो ! धर्माधर्माकाशेष्वनैकत्विकनामोत्पाद: सम्भवतीति मया श्रुतमस्ति । भवता त्वैकत्विक इत्युच्यते ।
I
गुरुः- नाऽस्ति तत्र विरोध: । धर्माधर्माकाशास्तिकायेषु गन्तृ-स्थात्र-वगाहकद्रव्यसन्निधानतो गति-स्थित्य - वगाहनोपकारिताधिकरणतोत्पादो भवति । अयमुत्पादो गन्तृ-स्थात्र- वगाहकद्रव्याणां विरहे न भवतीतिकृत्वा तानि द्रव्याण्येव कारणमिति चिन्त्यते तर्ह्यत्पादोऽयम् 'एकमेव कारणमस्ये'तिकृत्वा ‘ऐकत्विक' इत्युच्यते । परं स्वनिष्ठगत्याद्युपकरणक्रियां प्रति यदि धर्मादयो न व्यापारवन्तो भवेयुस्तर्ह्यपकारो नैव भवेदितिकृत्वा तेष्वपि कारणत्वविवक्षा क्रियते चेदयमेव 'अनैकत्विक' इत्यपि कथ्यते ।
For Private Personal Use Only
www.jainelibrary.org