________________
शिष्यः-नन्वाकाशादयः स्वनिष्ठ-विवक्षितद्रव्य-गत्याद्युपकारक्रियां प्रति कात्स्न्र्येन
व्याप्नुयुर्देशेन वा ? न कात्स्येन-उपकारक्रियायाः सर्वतोऽभावात् । नाऽपि देशेन-तेषां निरवयवत्वादिति गगनादयः कारणं भवितुं नाऽर्हन्तीति
चेत् ? गुरु:- निरवयवा गगनादय इति केन कथितम् ? सावयवत्वप्रतिपादकः प्रदेशाS दिव्यवहारो गगनेऽपि भवति किल ! IY शिष्यः- आरोपजन्यः स प्रत्ययः । वस्तुतस्तु मिथ्यैव । M गुरु:- एतादृशस्याऽऽरोपस्य निमित्तमपि दर्शयतु ।
शिष्यः- गगनादौ याऽव्याप्यवृत्तिसंयोगस्याऽऽधारता सैवाऽत्राऽऽरोपनिमित्तीभूता। । - गुरु:- अहो भवतो वैदग्धी ! अव्याप्यवृत्तिसंयोगो नाम किम् ? अवयविन्यवयवे
वर्तमानोऽवयवान्तरे चाऽवृत्तिमान् संयोग एवाऽव्याप्यवृत्तिसंयोग उच्यते ।
निरवयवेऽव्याप्यवृत्तिसंयोगाधिकरणतैव न सम्भवेत् । V शिष्यः- नन्वेकस्य निरंशस्य परमाणोः षड्भिर्दिग्भिः सह संयोगः शास्त्रे कथितः ।
स च संयोगोऽव्याप्यवृत्तिरेव । उक्तरीत्या चेदानीं परमाणोरपि सांशता
ऽभ्युपगम्या भवेदिति चेत् ? गुरुः- अभ्युपगतैवेतादृग्विचारणया। ‘परमाणुनिरंश' इति वचनं द्रव्यतः परमाणो
विभागा न सम्भवन्तीत्यधिकृत्यैवेति ध्येयम् । किञ्च, गगनं हिमवत्पर्वत-विन्ध्याचलाभ्यां भिन्नदेशेनाऽवरुद्धम् । यच्च देशभेदेनाऽवरुद्धं तत् सावयवमिति नियमः । निरवयवत्वे देशभेद एव न
स्यात् । शिष्यः- तर्हि लोके किमर्थमाकाशादि निरवयवं स्वीक्रियते ? गुरु:- सन्नप्यवयवः पृथग् न भवतीति स्थूलदर्शिनां तथाव्यवहारः । शिष्यः-अवगतं खलु तत्त्वं भवत्कृपया ।
१. यः संयोगो यत्र वर्त्तते तत्र तस्याऽभावोऽपि वर्तते चेत्स संयोगोऽव्याप्यवृत्तिरुच्यते । यथा
वृक्षे कपिसंयोगः ।
३७
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org