SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ मुर: जैनदर्शनसत्कतत्त्वविभावना: - १ मुक्तिः मुनित्रैलोक्यमण्डनविजयः भारतवर्षे यानि यानि दर्शनानि सन्ति, तेषु सर्वेषु परमलक्ष्यतया मुक्तेरेव स्वीकारः । यत्र शब्दशास्त्र-सङ्गीतकलादीनामपि फलश्रुतेर्मुक्तावेव पर्यवसानत्वं भवेत्तत्र दर्शनानां प्रस्थापनं तु मुक्त्यर्थमेव स्यादिति स्वाभाविकम् । 'विविधतायामेकते'ति सूत्रं सार्थकीकुर्वतः, परस्परं सङ्घट्टमानेष्वपि दर्शनेषु समानतया परमपुरुषार्थत्वेन मुक्तिस्वीकारस्य कारणं नाऽन्यत् किञ्चित्, परं सकलदर्शनेषु प्रामुख्यमावहमानाऽऽध्यात्मिकतैव । आध्यात्मिकतायाः साक्षात् सम्बन्ध आत्मोन्नत्या सह, आत्मोन्नतिपराकाष्ठा तु मुक्तिरेवेति यत्राऽऽत्मवादस्तत्राऽवश्यं मुक्तिचर्चा । आत्मा तु सर्वैरङ्गीकृतः, नाऽङ्गीकृतश्चेद् ज्ञानसन्तत्यादि तत्स्थानेऽभिषिक्तमिति मुक्त्यर्थमेव प्रयतन्ते सर्वधर्मसम्प्रदायानुसारिणः । अथ सकलदर्शनेषु तदवस्थाविशेषार्थं प्रयुज्यमानो 'मुक्ति'शब्द एव सूचयति तत्रस्थात्मनो बन्धनग्रस्तताऽभावः । तस्मात् स्थानात् प्रच्यवनं नाऽस्तीत्यपि कांश्चन मुक्त्वा सर्वैरङ्गीकृतम् । मुक्तौ नित्यं निरतिशयं सुखमनुभूयते इति यद्यपि सर्वेषां न सम्मतं, तथाऽपि तत्र दुःखलेशस्याऽप्यभाव इत्यत्र न कस्याऽपि विप्रतिप्रत्तिः । मुक्तिः संसारावस्थातो भिन्नोत्कृष्टा चाऽवस्थेत्यत्र तु सर्वेषामैकमत्यम् । इत्थं यद्यपि समाना सर्वदर्शनस्थमुक्तिविभावना, तथाऽपि तत्तद्दर्शनानां मूलतत्त्वेषु मान्यताभेदतस्तत्राऽपि समागताऽस्ति विभिन्नता । जैनदर्शने त्वात्मस्वरूपे एव दर्शनान्तरतो महदन्तरमिति मुक्तिवादेऽपि महत्येव भिन्नता । का सा ? तद् दर्शयितुमेवाऽत्र प्रवृत्तम् । तत्र प्रथमं कतिचिददर्शनान्तराणां मतानि सङक्षेपतो विचारयामः, येन जैनदर्शन १. चार्वाकादयोऽत्राऽपवादीभूताः, तथाऽपि ते तत्त्वचर्चायां प्रायो नाऽधिक्रियन्ते इति अत्र 'सर्वेषु' इति लिखितम् । २. ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ आजीवकाः । ३८ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy