________________
le 00690066/6Qacleddoddada
महावीरवाणी (दशवैकालिक सूत्रतः)
सन्मानं धननिविशेषं परिगण्यते लोके । तत्प्राप्त्यर्थं को वा न प्रयतते, तदर्थं च का वा रीतिर्नाऽऽश्रीयते इत्येव प्रश्नः । कामं प्रयत्यतां सन्मानप्राप्त्यर्थम्, आश्रीयतां नाम तदर्थं या काऽपि रीतिः, प्राप्यतां च स्वाभीष्टं सन्मानम्; परमनुचितप्रकारेण सन्मानं लब्धवान् जनो ज्ञानिनां दृष्टौ निकृष्ट एव तिष्ठतीत्यनिच्छताऽपि स्वीकरणीयं सत्यम् । तर्हि को वा वस्तुतः सन्मानाधिकारी? को वा पारमार्थिकदृष्टौ पूज्यः ?
तज्ज्ञातुमस्माभिर्दशवैकालिकसूत्रस्य नवमाध्यायस्य तृतीय उद्देशक: परिशीलनीयो भवति । अत्र भगवता महावीरेण सार्धद्विसहस्रवर्षेभ्य पूर्वं सन्मानप्राप्तये या नियमावली प्रदर्शिता, पूज्यत्वस्य यानि लक्षणानि वर्णितानि-तत्सर्वमिदानीमपि तावदेव प्रस्तुतं भासते । पश्येम वयं ततः किञ्चित्
स पुज्जो (स पूज्यः) - आलोइयं इंगियमेव नच्चा, जो छंदमाराहयइ स पुज्जो ॥ (९.३.१) ___ (आलोचितमिङ्गितमेव ज्ञात्वा, यश्छन्दमाराधयति स पूज्य: ।)
महत्तासम्पादनार्थमिङ्गिताकारैरेव गुरुजनानामभीष्टं ज्ञात्वा तत् सम्पाद्यं भवति । (उचितानुचितविवेकोऽप्यत्राऽऽवश्यकः ।) परमनोभावावगमसामर्थ्य महापुरुषे आवश्यकं खलु ? स्वार्थं परित्यज्य परार्थो निष्पादनीयो महत्तेच्छुकैरित्यप्यत्र ध्वनिः।
- गुरुं तु नासाययइ स पुज्जो ॥ (९.३.२) __ (गुरुं तु नाऽऽशातयति स पूज्यः ।) यो गुरुजनानां मानरक्षां करोति, तस्यैव सन्मानं ग्रहीतुमधिकार इति निश्चप्रचम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org