________________
60060/66666Todloddaddog
- अलद्धयं नो परिदेवएज्जा, लद्धं न विकत्थयइ स पुज्जो ।। (९.३.४)
(अलब्ध्वा नो परिदेवयेत्, लब्ध्वा न विकत्थयति स पूज्यः ।) इष्टं न लभ्यते चेन्न शोकविह्वलेन भवितव्यम्, उपलभ्यते चेन्न च हर्षातिरेकेण गर्वो विधातव्यः पूज्यताकाक्षिणा । महत्ताप्राप्त्यर्थमावश्यकी किल सर्वत्र स्वस्थचित्ततेतीह संसूचनम् । - संतोसपाहन्नरए स पुज्जो ॥ (९.३.५)
(सन्तोषप्राधान्यरतः स पूज्यः ।) कामनायाः पूर्ती 'ईशानुग्रह' इति, अपूर्ती च 'ईशेन दृष्टं हित'मिति विचिन्त्य, यावल्लब्धं तावतैव तृप्तीभूय यः सन्तोषेण जीवनं निर्गमयति स एव महत्तामासादयितुं प्रभवति । यतो वस्तुसम्पादनव्यग्रता निःस्पृहताबाधिका । विना नि:स्पृहत्वं सर्वत्र स्वार्थपरा दृष्टिः । तथा च सति किं वाऽन्तरं प्रकृष्ट-निकृष्टयोः? न किमपि । - अणासए जो उ सहिज्ज कंटए, वईमए कण्णसरे स पुज्जो ॥ (९.३.६)
(अनाशया यस्तु सहेत कण्टकान्, वचोमयान् कर्णशरान् स पूज्यः ।) स्खलनायां जातायां ज्येष्ठहितबुद्ध्या यानि वचांस्युच्चार्यन्ते, तानि कदाचित्तावत्तीक्ष्णानि भवन्ति यद् भासेत कर्णलग्ना निशिताः कण्टका इव ! तथापि न किञ्चिल्लालसया, अपि तु स्वदोषनिरासबुद्ध्यैव यस्तानि गृह्णाति; न च तत्राऽसहनां प्रकटयति, प्रत्युत सम्यक् सहते स एव विगतदोषो लोके पूज्यते । पावनतापेन गतमालिन्यं काञ्चनं बहुमूल्यमेव भवति खलु !
- धम्मो त्ति किच्चा परमग्गसरे, जिइंदिए जो सहइ स पुज्जो ॥ (९.३.८) __ (धर्म इति कृत्वा परमाग्रशूरः, जितेन्द्रियो यः सहते स पूज्यः ।)
शुभकार्यस्य प्रारम्भतः पूर्णाहुतिपर्यन्तं विघ्नविनायकैः स्वक्रियाकलापः प्रवर्त्यते एव । किञ्च, तत्कार्यादन्यत्र चित्ताकर्षणे निपुणानि प्रलोभनानि सम्मुखीभवन्त्येव । तथाऽपि 'कार्ये निश्चलत्वं मम धर्म' इति विचिन्त्य परमशूरो यो विघ्नपरम्परां तरति, 'कार्ये सावधानत्वं मम धर्म' इति निश्चित्य जितेन्द्रियीभूय यो नैव प्रलोभनानां वशीभवति स एव पूज्यः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org