SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आस्वाद: 'प्राणानप्यविगणय्य परोपकारं कुर्वाणा जीविन: मुनिकल्याणकीर्तिविजयः उत्क्रान्तिवादस्य प्रणेत्रा चार्ल्स डार्विन् इत्यनेन ऐसवीये १८३५ तमे वर्षे 'ध ऑरिजिन ऑफ स्पिसिस्' (The Origin of species) नाम पुस्तकं स्वीयसिद्धान्तं प्रतिपादयितुं लिखितमासीत् । किन्तु तद्धि प्रायशस्त्रयोविंशतिर्वर्षाणि तेन न प्रकाशितम्, अथवैवं वक्तुमपि शक्येत यत् तस्य - स्वसिद्धान्तः कदाचिन्मिथ्या स्याद् - इति भीतिरासीत् । अतस्तेन तत्पुस्तकप्रकाशनं तावन्ति वर्षाणि नैव कृतम् । कुतस्तस्य 'भयमासीत् ? - किञ्चिद् विचारयामः । तस्य वादस्य मुख्यसिद्धान्त आसीत् - 'स- क्षमस्यैवाऽवस्थानम्' (Survival of the Fittest) । अर्थात् - प्रकृत्युत्सङ्गे सर्वेषामपि जीविनां मध्ये 'स्वीयमस्तित्वं रक्षितुं महासङ्घर्षः सदा वरीवर्ति । अतः प्रतिकूलपरिस्थितावपि यो' जीवी स्वं रक्षितुमवस्थातुं च शक्नोति तस्याऽस्तित्वमेव चिरस्थायि भवति तस्यैव च सन्तान-परम्परा वरीवृध्यते । ये जीविनो दुर्बलाः सन्तः प्रतिकूलपरिस्थितौ स्वरक्षणं कर्तुं न शक्नुवन्ति तेषामस्तित्वं विनश्यति परम्पराऽपि च नैव वर्धते । . फलतो जगति श्रेष्ठकोषीया (Genes) जीवा एवाऽवतिष्ठेयुरुत्क्रान्तौ च प्रतिसन्तानं तेऽधिकसामर्थ्यवन्तः स्फूर्तिमन्तो बोधवन्तश्च भवन्ति । एष सिद्धान्तस्तेन गालापागोसद्वीपप्रवासानन्तरं प्रणीत आसीत् । किन्त्वेनं. सिद्धान्तं रोधयदासीत् सूक्ष्ममेकं वस्तु । डार्विन् दृष्टवानासीद् यज्जीवजगति प्रायः सर्वेषामपि प्राणिनामेक एव नियमोऽस्ति मार्यतां वा म्रियतां वा । किन्तु • कदाचित् तेनैवमपि दृष्टमासीद् यत् केचिज्जीविन: परमारणापेक्षया परोपकार एव रसिकाः सन्ति । एते जीवा स्वार्थमुपेक्ष्याऽपि परार्थं कुर्वन्त आसन् । एवं सति तस्य 'स-क्षमस्यैवाऽवस्थानम्' (Survival of the fittest) सिद्धान्तः कथं वा . सिध्येत् ? Jain Education International 2010_04 - दृष्टान्तमेकं पश्याम: । चिक्रोडानां समूहः कण-फल-बीजादिकमाहारमन्वेष्टुं ' मग्नः स्यात् कुत्रचिद् वनखण्डे, तदाऽकस्मादेव यदि कस्यचिच्चिक्रोडस्य गरुड २७ For Private Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy