SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_04 पदार्थानां सत्यमस्ति क्षणनश्वरत्वं सम्बन्धानां च सत्यमस्ति स्वार्थः । सत्यं नाम स्वभावः । स्वभावबोधो रागद्वेषादिद्वन्द्वेभ्यः परं करोति । यथा चाकलेहस्य गलनस्वभावं जानन् जनस्तस्य माधुर्यमास्वाद्याऽऽनन्दमेवाऽनुभवति न किन्तु तस्य गलनेन सन्तापमनुभवति । यतो गलनं चाकलेहस्य स्वभाव एवेति स जानाति । एवं यदि सर्वत्र पदार्थसम्बन्धादिषु स्वभावमवबुध्य विवेकेन वर्तेत तर्हि तत आनन्दं प्राप्तुं प्रभवेज्जनः । तेषां च नाशेन वैपरीत्येन वा न सन्तापो जायेताऽपि । साधुसमागमो मोहं विनाश्यैतादृशं स्वभावबोधं विवेकं जनयति । तदनु चाऽस्ति दैन्यम् । किमिदं दैन्यं नाम ? इच्छा दैन्यम् । साधुसमागम इच्छां चूरयति न तु पूरयति । इच्छापूरणं दैन्यं शमयति नाऽपगमयति । इच्छाचूरणमेव दैन्यमपगमयति । इच्छाया अभावे दैन्यं न विद्यत एव । साधुसमागमः पाप-ताप - दैन्यानां मूलं प्रहरति । वस्तुतस्तु 'पापं तापं च दैन्यं च, हरेत् साधुसमागम:' - इत्युक्त्या सुभाषितकारः कथयति यत् साधुसमागमः साधुत्वं प्रकटयति । पापबुद्धिर्मोहसन्ताप इच्छारूपं च दैन्यं यत्र न विद्यते तत्र साधुत्वमेव भवति नाऽन्यत् किमपि । स्पर्शमणिर्लोहं सुवर्णत्वेन परिणमयति न स्पर्शमणित्वेन तथा गङ्गा शशी कल्पवृक्षश्चैते त्रयोऽपि यद्यपि पापादीन् नाशयन्ति किन्तु न स्वकीयं रूपं प्रददतेऽर्थिभ्यः । परं साधुजनस्तु परान् स्वतुल्यानेव करोति येन ते स्वाधीनाः स्युः इत्यस्ति श्लोकस्याऽस्य तात्पर्यार्थः । - औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥ २३ For Private Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy