________________
सुखमिति । सम्पत्तिमेव सुखसाधनं गणयित्वा जीवन् तदभावे तदल्पत्वे वा विह्वलो जायते । इन्द्रियाणां शैथिल्ये रूपरसगन्धादिविषयाणामनुभवन्यूनतायां'किमथ कुर्याम् ? सर्वं नीरसं जात'मित्यादि विकल्पयन्, अनुभवतश्च परान् दृष्ट्वाऽन्तस्तापेन परितपति । यतस्तस्य सुखमिन्द्रियाधीनमासीत् । मित्र-स्त्रीस्वजनादीनां च दूरत्वेऽभावे विमुखत्वे वाऽपि स स्वमेकाकिनमनुभूय व्यामूढो जायते । एवमायुःसम्पत्स्वजनादिष्वेव स्वकीयं सुखमवबुध्यमानस्तेषां वैपरीत्ये यन्निराधारत्वमनुभवति स एव क्लेशः । तत एव च रागद्वेषादिभावाः समुत्पद्यन्ते । किन्तु, आयुरादीनां स्वभावबोधेन वैराग्ये समुद्भूते न ह्येतान् स सुखालम्बनत्वेन पश्यति । आनन्दनिर्झरस्तु तदन्तरेव प्रादुर्भवति । तदनु च तच्चित्तं सदैवाऽऽनन्देन प्लावितं तिष्ठति ।
अन्यच्च वैराग्यतेजो न परान् सम्मोहितान् करोति किन्तु प्रकाशितान् करोति । सम्मोहित आश्रितो जायते प्रकाशितश्च स्वतन्त्रः । विचार-वाणी-वर्तनादीनां स्वातन्त्र्यं यद्यपि तत्र विद्यते किन्तु सहजविवेकनियमितं तत् स्वातन्त्र्यं भवति । विवेक एव प्रकाशः खलु ?।
यत्र चैतादृशं वैराग्यं सिध्यति तत्र साधुत्वं प्रकटीभवति । तादृशस्य च साधोः समागम: पापादीन् हरति ।
त्रीण्यपि कार्याण्येकेनैव साधुसमागमेन सिद्धयति । साधुसमागमो न केवलं पापमपि तु पापमूलां पापबुद्धिमपि नाशयति । पापबुद्ध्यपगमे हि पापं न तिष्ठति न च पुनर्जायतेऽपि । तदनु, सन्तापनाशं करोति साधुसमागमः । विविधाः सन्तापा विद्यन्ते संसारे - सम्पत्त्यभावः सन्तापः, सन्तत्यभावः सन्तापः, पुत्रपुत्र्यादीनामुन्मार्गगमनं सन्तापः, परिवारे परस्परं स्नेहाभावः सन्तापः, व्यापारनियोगादिष्वभीष्टलाभाभावः सन्तापः, सम्बन्धानामस्थैर्य सन्तापः-इत्यादयः । किन्त्वेते एतादृशश्चाऽन्ये सर्वेऽपि सन्तापा एकेनैव शब्देन परिचेतुं शक्यन्ते - मोहसन्तापः । मोह एव सन्तापः । अत्र सर्वत्र मोहबुद्धिरेव सन्तापं जनयति । साधुसमागमो मोहं नाशयति सम्यग्दृष्टिं चोद्घाटयति । सत्ये लब्धे मोहो विनश्यत्येव । मोहे नष्टे कुतः सन्तापः?
अनिष्टस्योद्वेगो यथा सन्तापः परिगण्यते तथैवेष्टस्योन्मादोऽपि सन्ताप एव । साधुसमागमः समदृष्टिं विवेकदृष्टिं च प्रकटयति । विवेकः सत्यमेव पश्यति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org