________________
शमनायैषोऽद्याऽचिरमागत इति महात्मा बुद्धवान् । उभावपि निर्गतौ । मार्गे महात्मा मौनमेव चलति । किन्तु जिज्ञासातुरो राजा पुनः पुनर्महात्मनो मुखमवलोकयति । किमप्यकथयन्तं महात्मानमवलोक्य पृष्टवान् - 'महात्मन् ! मम प्रश्न....' ! 'हम्... जानाम्येवाऽहम् । किञ्चिदग्रे गत्वा समाधास्यामि' - महात्मोक्तवान् । पुनरग्रे चलितौ । इदानीं बहुदूरं तौ समागतावास्ताम् । सहसा महात्मा दृष्टिमुन्नीयोक्तवान् - 'राजन् ! चलतु, आवामितो निर्गच्छावः । न पुनर्गन्तव्यं गृहे' इति । 'अरे भगवन् ! कथमेवं भवेत् ? दायित्वभारं निर्वहाम्यहं समेषाम् । मां विना च मम परिवारजनानां परिचारकाणां प्रजानां सम्पदादीनां च का गतिः स्यात् ? मम कृते नैतच्छक्यम्' - स्तब्धो नृपतिः प्रत्युत्तरितवान् । ___'हम्... एतदेव भवज्जिज्ञासायाः समाधानम् । सर्वं समानं सदप्यहं सर्पः कञ्चुकमिवैतत् त्यक्त्वाऽग्रे गमिष्यामि किन्तु भवता प्रतिगन्तव्यमस्ति । एतदेवाऽन्तरं खल्वावयोर्मध्ये ? ज्ञातं किल ?' - इति महात्मा सस्मितं प्रोच्याऽग्रे गतवान् । विचारचक्रमारूढ इव राजा दिङ्मूढ इव तत्र स्थितः । स सत्यं ज्ञातवानासीत् ।
एतदेव वैराग्यस्य सत्यम् । न नीरसा मनोवृत्तिरपि तु निर्लेपा मनोवृत्तिरेव वैराग्यम् ।
आयुर्वायुतरत्तरङ्गतरलं लग्नापदः सम्पदः । सर्वेऽपीन्द्रियगोचराश्च चटुलाः सन्ध्याभ्ररागादिवत् । मित्र-स्त्री-स्वजनादिसङ्गमसखं स्वप्नेन्द्रजालोपमं
तत्कि वस्तु भवे भवेदिह मुदामालम्बनं यत् सताम् ?।। द्विविधो बोधः-स्वरूपस्य बोधः स्वभावस्य च बोधः । पदार्थादीनां स्वरूपबोधो रागद्वेषादिकं जनयति किन्तु स्वभावबोधो वैराग्यं जनयति । श्लोकेऽस्मिन् स्वभावो बोधितोऽस्ति । स्वभावबोधे जाते भ्रमनिरसनं भवति । दण्डे पादस्य बुद्धिर्मोहः । न जनो दण्डेन चलति किन्तु पादाभ्याम् । दण्डस्तु गत्यवष्टम्भ एव केवलम् । एष बोध एव वैराग्यम् ।
सरसेयमुक्तिः - "तत्कि वस्तु मुदामालम्बनम् ?' - एषैव विरक्तस्य चित्तवृत्तिः । न हि स पदार्थान् सुखस्याऽऽनन्दस्य वाऽऽलम्बनं गणयित्वा वर्तते । अतो विपरीता चित्तवृत्तिः सङ्क्लेशस्य जनयित्री अस्ति । आयुष्यल्पेऽवशिष्टे जनस्य क्रन्दनं वर्धते । यतस्तदर्थं ह्यायुः सुखमिति सत्यमासीद् न तु जीवनं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org