________________
| भिक्षुकोऽपि परिग्रह्येव, अनासक्तश्च भूमिपतिरप्यपरिग्रह्येव ।
वैराग्याभावे यश्चित्तभावो भवति स हि शरीरे त्वगिव वस्त्वादिषु संसक्तो 4 भवति । त्वगुच्छेदे पीडा जायत एव । किन्तु वैराग्ये समुत्पन्ने चित्तभावः शरीरे
वस्त्रमिवाऽसंसक्तो जायते । वस्त्रापनयनं न पीडादायकं भवति । अतो वस्त्रापनयनं न वैराग्यं किन्तु शरीरे वस्त्रमिव पदार्थादिष्वसंश्लिष्टा चित्तवृत्तिरेव वैराग्यम् ।
वैराग्ये जागृते न परिस्थितेराश्रितो भवति जनः । यत्र कुत्राऽपि स सानन्दं वस्तुं प्रभवति । स महालयेऽप्युटज इव निराडम्बरं स्थातुमर्हति, एवमुटजेऽपि महालय इवैश्वर्यमनुभवितुं प्रभवति । उटजो वा स्यान्महालयो वा तस्याऽऽनन्दमयी चित्तवृत्तिः स्थान-पदार्थादीन् नाऽवलम्बते । एतदेव ह्यनलङ्कारविभूषणत्वं निर्द्रव्यपरमेश्वरत्वं च।
कस्मिंश्चिद् ग्रामे महात्मा कश्चित् समागतः । नित्यं च जनान् सन्मार्गमुपदिशति स्म सः । तस्याऽऽनन्दमयेन स्वभावेन प्रसन्नया च मुखमुद्रया, निःस्पृहत्वेन, त्यागवृत्त्या च ग्रामजनाः प्रभाविता जाताः । सर्वत्र प्रसृता तस्य कीर्तिः । राजाऽपि तत्रत्यस्तत्कीर्ति श्रुतवान् । अहोभावेन प्रेरितः सोऽपि तद्दर्शनाय गतवान् । प्रथमदर्शनेनैव राजाऽपि तस्य भक्त इव सञ्जातः । 'मम राजमहालये पादाववधारयतु भवान्, तत्र स्थित्वा च मामप्युपदेशेनाऽनुगृह्णातु'- इति विज्ञप्तवांश्च । महात्माऽपि सोऽङ्गीकृतवांस्तद्वचनम् । अपरस्मिन् दिने च समागतवान् महात्मा । प्रसन्नो जातो नरपतिः । महालयस्य परिसर एवैकस्मिन्नावासे तद्वासाय व्यवस्थां कल्पितवान् । राजमहालय इवैव सर्वाऽपि तत्र व्यवस्थाऽऽसीत् । उपदेशश्रवणादिना दिनानि सुखेन व्यतियन्ति । राजाऽपि प्रसन्नोऽस्ति महात्माऽपि ।
कदाचिद् राज्ञश्चेतसि कश्चित् प्रश्नः समुत्थितः । एकदा नित्यमिवोपदेशश्रवणादिना निवृत्य स एकान्तं ज्ञात्वा स्वजिज्ञासां व्यक्तवान् - 'महात्मन् ! यथाऽहं महालये वसामि तथा भवानपि महालय एव वसति । यदपि भोज्यादिकमहमुपयुनज्मि तदेव भवानप्यपयुनक्ति । यच्च वैभवमहमुपभुजे तदेव हि भवानप्यूपभुङ्क्ते । तहि किमन्तरमावयोर्मध्ये ?' महात्मा हि स्मितमद्रया सर्वं तत्कथनं श्रुतवान् । उक्तवांश्च - 'प्रश्नस्याऽस्य प्रत्युत्तरं श्वः प्रातभ्रमणसमयेऽहं दास्यामि ।' तथेति स्वीकृतवान् राजा ।
अपरस्मिन् दिने समयात् पूर्वमेव सज्जीभूय राजा समागतः । जिज्ञासा
२०
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org