________________
आस्वादः
Jain Education International 2010_04
चिन्तनधारा
गङ्गा पापं शशी तापं, दैन्यं कल्पतरुस्तथा ।
पापं तापं च दैन्यं च, हरेत् साधुसमागमः ॥
व्यक्तार्थ एवाऽयं श्लोकः । साधुसमागमस्य महिमा वर्णितोऽस्त्यत्र श्लोके । सङ्गतिर्जीवनशिल्पनिर्माणस्य बीजमस्ति । उन्नतिमपि दातुं क्षमा सङ्गतिरवनतिमपि ।
साधुत्वमत्र चिन्तनीयम् ।
साधुत्वस्य मूलमस्ति वैराग्यं समाधिस्तु शिखरः । बोधस्य कश्चिदवस्थाविशेष एव वैराग्यम् । विरागत्वमेवोपास्यं न विरसत्वम् । नहि वैराग्यं कदाऽपि नीरसं भवति । यतो 'ज्ञानस्य फलं विरतिः' - वैराग्यं तु ज्ञानस्य फलमस्ति । ज्ञाने परिपक्वे सति जायमाना चित्तस्थितिरेव वैराग्यं नाम । बोधे तु जायमाने वस्तु व्यक्ति वातावरणं च विषयीकृत्य दृष्टिकोण एव परिवर्तते । बोधो न नीरसं करोति, अपि तु जागृतं करोति । अनासक्तिररुचिश्चो भयोरपि महदन्तरमस्ति । वैराग्यमनासक्तभावं जागरयति नाऽरुचिम् । अपरिपक्ववैराग्येण जायतेऽरुचिः । सर्वत्राऽसारस्य क्षतेर्वैवाऽन्वेषणं नामाऽपरिपक्वं वैराग्यं, किन्तु सर्वस्मात् सारमुद्धृत्य तत्सदुपयोगस्य वृत्तिर्हि परिपक्वं वैराग्यम् । 'असारात् सारमुद्धरेद्' इत्यस्त्युक्तिः खलु ! वैराग्यस्य भाषा नाऽनादरं द्योतयति किन्त्वनासक्तिमेव व्यनक्ति ।
मुनिरत्नकीर्तिविजयः
परिपक्वं वैराग्यं नामेक्षुयष्टे रसमास्वाद्याऽवशिष्टस्याऽसारभागस्य त्यजनं किन्तु, असारभागं मनसिकृत्येक्षोस्त्यजनं हि वैराग्यस्याऽपरिपक्वतां प्रकटयति । यतो वैराग्यं यदि परिपक्वं स्यान्न नीरसं स्यात् ।
अपरिपक्वं वैराग्यं वस्त्वादीनां त्याग एव स्वकीयं सार्थक्यं परिकल्प्य तिष्ठति । किन्तु परिपक्वं वैराग्यं हि ततोऽप्यग्रे ममत्वत्यागपर्यन्तं गच्छति । एतादृशं वैराग्यं हि स्वभावत्वेन परिणमति ।
नहि चित्ते वैराग्ये समुत्पन्ने सर्वं वस्त्वादिकं विसृज्यते किन्तु तत्प्रत्यवस्थितो रागभावो ममत्वं वा क्षीयते । अपगते रागभावे वस्त्वादीनामस्तित्वं नास्तित्वं वा न तावन्महत्त्वपूर्णं भवति । भगवदुमास्वातिमहाराजेन विरचिते श्रीतत्त्वार्थसूत्रे सूत्रमेकं विद्यते- 'मूर्च्छा परिग्रहः' इति । किं नाम परिग्रहः ? मूच्छैव ! आसक्तो
१९
For Private Personal Use Only
www.jainelibrary.org