SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ GAVGAR PARGARVARTARVARVARTARVARVARTARA ON गृहं प्रविशति स्म । किं कुर्यादसौ वराकी महिषी ? गृहस्वामिन्या लालनं पालनमसौ ? न सम्यग्वेत्तीति न । कोमलमसृणस्तनस्पर्शानुभूतिं गृहस्वामिनीकर्तृकामपि साधु स्मरति सा । परन्तु स्वमनोवेदनां कथं प्रकटयेत् ? कथं विज्ञापयेद् यदुन्मत्तकुक्कुरैरुपद्राविताऽसौ रघु शृङ्खलानिगडितमविज्ञायैव आत्मरक्षार्थं पलायनं कृतवती ? वचो व्याहर्तुमक्षमा कथं वाऽसौ क्षमा याचेत ? एवमेव पुरस्सरत्सु दिवसेषु समागताः वर्षाः । वैशाखज्येष्ठमासावपगतौ PAS बलदेवपत्न्या महिषीसन्दर्भमात्रं चिन्तयन्त्याः । पुत्रं यमद्वारं नीतवत्यास्तस्या विक्रयणं कार्यमुताहोऽपराधस्तस्याः क्षन्तव्यः । प्रथमकल्पेन केवलमात्मपरितोष आसीत् । किन्तु कल्पान्तरेण दम्पत्योः । यावद् बलदेवपत्नी निर्णयं कमप्याश्रयेत् तत्पूर्वमे वज्रपातस्समजनि । वर्षर्तावकस्मादेवाऽऽलङ विषं महिषीमुन्मत्तां चकार । समुत्खात कुक्कुरीव करुणं बुक्कन्ती गृहाद् गृहं, कुटीरात्कुटीरं क्षेत्रात्क्षेत्रम् धावितुम लं दृष्ट्वैव सोन्मत्ता जाता । यं कमपि मध्येमार्गं निपातयन्ती, उन्मत्तवदाचरन्त जिह्वां लोलयन्ती, सन्ध्याशोणिताक्षी महिषी समग्रमेव ग्रामं भीतभीतं कृतवती गृहकपाटाः सर्वेऽपि सम्पुटिताः । लघुवयस्का बालका गृहाभ्यन्तरे निरुद्धाः SRO केवलं याष्टीकाः प्रवयस एव बहिरलिन्देऽलक्ष्यन्त । - होरामात्रस्य खेलाऽवशिष्टा सम्प्रति । कश्चिदुक्तवान् । । - किमुच्यते भवता? अपरोऽपृच्छत् । - सत्यं भणामि । आर्के विषे प्रसृते सति मरणं निश्चितम् । होरानन्तरमेव भूमौ निपत्य मरिष्यति महिषीयम् ! हे परमेश्वर ! बलदेवस्य तु सर्वनाशोऽयम् । षट्सहा क्रीतेयं महिषी। वर्षं यावदपि तत्सुखं नाऽवाप्तम् । अत्राऽप्यपराद्धो बलदेव एव । उन्मत्तकुक्कुरदष्टामपि महिषीं नाऽसौ औषधालयं नीतवान् । विषोपशमनं सर्वथा सम्भवति स्म । भोः हरीच्छेयम् ! परन्तु विलक्षणैवाऽऽसीन्महिषी बलदेवस्य । श्रुतं मया यद् बलदेवपत्नी केवलं घृतं विक्रीय दशसहस्राणि ON रूप्यकाण्यर्जितवती । महिषीमूल्यं तु प्राप्तमेव तया। १०१ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy