________________
गङ्गाष्टकम्
विद्वान् महाबलेश्वरशास्त्री
गङ्गे पाहि गङ्गे पाहि गङ्गे पाहि पाहि मां काशिकापुराधिवासे पापराशिनाशिनि । विष्णुपादसम्भवे गिरीशकेशवासिनि नाकलोकवासिशक्रमुख्यदेववन्दिते ॥१॥
नामकीर्तनानुरक्तभक्तरक्षणोद्यते मर्त्यलोकपावने भगीरथेप्सितप्रदे। सागरान्तु कापिलाग्निभस्मभावमागतान नाकलोकवासयोग्यताप्रदानतत्परे ॥२॥
यज्ञवाटिकाविनाशकोपिजहनुपायिते जहनुकोपशान्तये भगीरथोक्तिभाजने । स्तोत्रतुष्टजनुकर्णमध्यतो धरां गते जाह्नवीत्यभिख्यया धरातले जनैः स्तुते ॥३॥
त्वज्जलेऽस्थिभस्म यस्य तस्य मोक्षदायिके त्वं भगीरथस्य नन्दनेति ख्यातिमागते । त्वत्प्रवाहमज्जनप्रपूतपापिमानवे साधुवृन्दवर्णितप्रभावभाजनान्विते ॥४॥
पार्वतीशकेशराशिमध्यभागभूषणे त्वत्प्रवाहशीकरप्रपूतमन्दमारुते । साधुमज्जनप्रभावनष्टपापभावने मीननक्रमुख्यवारिजीविजीवनाश्रये ॥५॥
ANDE
७
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org