SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_04 मोक्षसंसारा न सम्भवन्तीति ते प्रकृतेरेवेति मन्यन्ते कापिलाः । पुरुषे तु विवेकाग्रहादुपचरिता एव - भृत्यगतजयपराजययोः स्वामिन्युपचारवत् । पञ्चविंशतितत्त्वज्ञानमेकमेव मुक्तौ कारणमिति साङ्ख्यानां मतिः । २ बौद्धाः अत्र मतचतुष्टयम् १. नैरात्म्यभावनातो ज्ञानसन्तानोच्छेदो मुक्तिः - सौत्रान्तिकाः । २. शून्यतादृष्टितः क्लेशादिदोषदूषितचित्तसन्ततिविच्छेदो मुक्ति- माध्यमिकाः । ३. भावनाप्रकर्षपरिलब्धपरिशुद्धचित्तसन्तानं मुक्ति: - यौगाचाराः । ४. रागादिज्ञानसन्तानवासनोच्छेदो मुक्ति:- वैभाषिकाः । बौद्धमते मुक्तावात्मस्थितिर्निर्वातप्रदीपसदृशी भवति । इतरेषां केषाञ्चिन्मतानि आनन्दमयपरमात्मनि जीवात्मलयो मोक्षः त्रिदण्डिनः । आत्महानं मुक्तिः - चार्वाकाः । स्वातन्त्र्यं मुक्ति: - केचित् । नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः - तौतातिताः । अक्षयशरीरादिलाभो मुक्ति:- वैष्णवाः कापालिकाश्च । (पृष्ठ ५७स्थानि नाना-मुक्तिसम्बन्धि - मतान्यपि द्रष्टव्यानि ।) अथ जैनदर्शनसत्कमुक्तिस्वरूपं सप्रपञ्चं निरूप्यते । - ९. तस्मान्न बध्यते नैव मुच्यते नाऽपि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ - साङ्ख्यकारिका २. हस पिब लल मोद नित्यं विषयानुपभुञ्ज कुरु च मा शङ्काम् । यदि विदितं ते कपिलमतं तत्प्राप्स्यसे मोक्षसौख्यं च ॥ साङ्ख्यकारिका माठरवृत्तिः ३. दीपो यथा निर्वृतिमभ्युपेतो, नैवाऽवनिं गच्छति नाऽन्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥ जीवस्तथा निर्वृतिमभ्युपेतो, नैवाऽवनिं गच्छति नाऽन्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥ ४२ (क्रमश:) For Private Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy