SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ( सोमदेवस्य कृतिरत्नं यशस्तिलकम् । एच्. वि. नागराजरा * 5555 *,, , , गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते इति लाक्षणिकाः । प्राचः संस्कृतभाषायाः प्रथमं चम्पूकाव्यं जातकमालेति प्रथितमार्यशूरविरचितम् । ततः त्रिविक्रमभट्टस्य नलचम्पूः, विदर्भराजस्य चम्पूरामायणम्, अनन्तभट्टस्य चम्पूभारतं, राजनाथस्य 05 भागवतचम्पूः, नीलकण्ठदीक्षितस्य नीलकण्ठविजयचम्पू:, वेङ्कटाध्वरिणः विश्वगुणादर्शचम्पू इत्यादय: चम्पूकृतयो लोके प्रथिताः । किन्तु सर्वासु चम्पूषु श्रेष्ठा सौन्दर्यमाधुर्यगाम्भीर्यभूषिता नानालङ्कारपोषिता सोमदेवविरचिता यशस्तिलक चम्पूरिति निर्मत्सराणां गुणग्राहिणां विदुषां मतम् । न सोमदेवकविः ब अयं कविर्जन्मना कर्णाटदेशमलञ्चकार । ऊस्तवे दशमशतके कविरयं काव्यनिर्माणमग्नो बभूव । अस्य जन्मस्थलं गङ्गधारेति प्रसिद्धो ग्रामः । उच्यते खलु ग्रन्थान्ते चालुक्यकुलजन्मनः सामन्तचूडामणेः श्रीमदरिकेसरिणः प्रथमपुत्रस्य श्रीमद्वागराज(स्य) प्रवर्धमानवसुधारायां गङ्गधारायां विनिर्मापितमिदं काव्यम्य इति । सोमदेवस्य गुरुर्नेमिदेव इति च कविना स्वयं ग्रन्थान्ते निगद्यते यथा श्रीमानस्ति सदैव संघतिलको देवो यशःपूर्वकः शिष्यस्तस्य बभूव सद्गुणमणिः श्रीनेमिदेवाह्वयः । तस्याऽऽश्चर्यतपःस्थितेस्त्रिनवतेर्जेतुर्महावादिनां शिष्योऽभूदिह सोमदेव इति यस्तस्यैष काव्यक्रमः ॥ सोमदेवसूरेः स्याद्वादाचलसिंह इति, तार्किकचक्रवर्तीति, वाक्कल्लोल- पयोनिधिरिति, कविकुलराजकुञ्जर इति च बिरुदान्यासन् । तर्ककाव्यशक्त्यौ अस्मिन् मिलिते आस्ताम् । यद्वदति स एव आजन्मसमभ्यस्ताच्छुष्कात्तर्कात् तृणादिव ममाऽस्याः । मतिसुरभेरभवदिदं सूक्तिपयः सुकृतिनां पुण्यैः ।। , , , , - , , Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy