________________
4
.
गेयं मेघगभीरघोषमपरं भव्याम्बुजाहर्मणिं श्रीपाचं प्रणमामि भीभरहरं वाचंयमेशं परम् ॥६॥ मां मायापरिमोहरोहभयकं कम्प्रं रुजारौरवैः कष्टव्यूहविशारणैकपटुकश्रेयोभरभ्राजक ! ॥ वामामव्रजपशोषकरणप्रौढार्कबिम्बोपम ! प्रज्ञापाटवमीश ! यच्छ परमब्रहौकरूप ! प्रभो ! ॥७॥ ज्ञेयाज्ञेयविवेचकं प्रभुमहं पाद्यप्रपूज्यं परं । बिभ्राणं गुणराजिगौरववरं क्षीणाष्टकर्मव्रजम् ॥ श्रीपाच परिबृंहणं शमयमश्रेण्याश्च वाण्याश्चयैः ईडे विश्वविभुं विवेकिशरणं कर्मव्रजाच्छोटकम् ॥८॥ श्रीनेमीश्वरसूरिराज्यसमये प्रौढप्रभावाकरे तेषां पूर्णपरप्रसादमहिमाभ्राजिष्णुनाजिष्णुना तच्छिष्येण नुतो यशोविजय इत्याख्याभृता साधुना निर्दन्त्यार्णपदैः स्तुतः प्रभुरिति श्रेयो विधत्तात् सताम् ॥७॥
॥अथ कविनामगर्भश्चक्रबन्धः ॥ यस्मान्मोहमहीरुहोरुपरशोः सञ्जायतेऽघात्ययः शोरीर्येण सुशोभितश्च परितः पापौघशैलाशनिः ॥ विद्यावैभववर्द्धकः प्रपवनः पार्श्वः श्रियां दायकः जन्माद्यार्तिमिमां प्रभिद्य परमं स्थानं विधत्तान्मम ॥१०॥ निर्दन्त्यार्णपदप्रबन्धपरमानन्दप्रदानोद्यतां पाशेिषगुणैकरत्नरचनाचित्रीकूतान्तर्मतिम् ॥ श्रीपार्श्वस्य पठन्तु संस्तुतिमिमां भव्याम्बुजाहःप्रभा निःशेषव्यसनौघनाशनकृते मात्सर्यमुक्ता बुधाः ॥११॥
इति श्रीशकलितसकलकलहकोलाहलकपटकुलकलशैलकूटप्रविघट्टनप्रकटकौशलकुलिशायमाननिःशेषशेमुषीसमुन्मेषपराजितापरापराजितनिर्जराचार्यवर्याचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरपादपद्मेन्दिन्दिरायमाणविनेययशोविजयविरचितं
निर्दन्त्यपदकदम्बमयपाष्टिकं स्तोत्रं समाप्तम् ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org