SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ धर्माभासकुलकम् विजयशीलचन्द्रसूरिः AAD Kanepal अतिरेको हि धर्मस्य धर्माभासोऽभिधीयते । अध्यासो वर्धते येना-ऽभ्यासश्च क्षीयते यतः ॥१॥ अभिलाषो यशःकीर्ती, शिलालेखादिके तथा । हठो नामालेखनस्य नामाध्यासोऽभिधीयते ॥२॥ शिष्य-शिष्यापरीवार-वृद्धितृष्णापुरस्सरम् । क्रियते यदनुष्ठानं शिष्यमोहस्तदुच्यते ॥३॥ यदैहिक सुखावाप्ति-लालसागर्भमानसे । जायते धर्मकर्मेच्छा वासना सा निगद्यते ॥४॥ परेषां दोषगानाय निजोत्कर्षाय या क्रिया । क्रियते धर्ममार्गस्य क्षुद्रता सा खलूच्यते ॥५॥ सर्वोत्कटोऽहं सर्वेऽपि मत्तो निम्ना इतीह या । बुद्धिर्धर्मात्मनः सेयं परमा ह्यविवेकिता ॥६॥ दया न यत्र दीनेषु दीनानां शोषणं तथा । धर्मच्छलेन क्रियते सोऽधर्मः परमो ननु ॥७॥ उपदेशे धर्मवार्ता पालने धर्महीनता । स्वैराचारो धर्मनाम्ना मिथ्यात्वं तद्धि कथ्यते ॥८॥ मोक्ष-मोक्षेति रटना क्रियते स्वार्थसिद्धये । लोकव्यामोहनार्थं च सा वाचो व्यभिचारिता ॥९॥ धर्मो धनस्य लाभार्थं धनाध्यासो निगद्यते । स चेतु पदस्य प्राप्त्यर्थं पदाध्यासोऽभिधीयते ॥१०॥ AKA JA Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy