SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ A stant । Kinadi ऐहिकं दैहिकं भोग-सुखं प्राप्तुं क्रियेत यत् । धर्माचरणमेतत्तु नितान्तमात्मवञ्चना ॥११॥ 'अहं' पदाभिधेयं स-दात्मतत्त्वं विहाय तत् । देहेऽहं प्रत्ययो यस्माद् वर्धते धर्मतः खलु ॥१२॥ यद्यप्यत्राऽऽत्मरटना कामं धर्मश्च दृश्यते । तथाऽपि देहाध्यासोऽयं धर्मगन्धोऽपि नाव भोः ! ॥१३॥ (युग्मम) ब्रवीत्यसत्यं निःशङ्ख मनुजान् विप्रलम्भयन् । अन्यायं कुरुते लोके पामरान शोषयत्यलम् ॥१४॥ धूलिक्षेपं लोकनेत्रे कृत्वा चौर्यं करोति यः । पापाचरणनिःशूको भ्रष्टाचारश्च यो जनः ॥१५॥ एवंविधस्य मर्त्यस्य यद् धर्माचरणं शुभम् । नैवातिरिच्यते धर्माभासाद ज्ञानिदृशा तकत् ॥१६॥ (त्रिभिर्विशेषकम) आसेव्येह महापापं धनं सम्पाद्य भूरि च । तस्याडल्पांशं धर्मकार्ये व्यापूयेद् यो दुराशयः ॥१७॥ न केवलं मन्यतेऽसौ स्वं धर्मात्मानमुच्चकैः । गुरवोऽप्यस्य मन्यन्ते तं श्रेष्ठं धर्मिणं जने ॥१८॥ एकोऽत्र पापप्रच्छादी अन्ये भक्ताभिलाषिणः । यतोऽतस्तत्कूतो धर्मो धर्माभासत्वमर्हति ॥१९॥ (विशेषकम) नवनवतियात्रासु श्रीशत्रुञ्जयपर्वते । यतनापालनं नो चेद् यात्राभासो भवेदयम् ॥२०॥ साधर्मिकाणां वात्सल्ये रात्रौ रसवती भवेत् । यतनाशून्यमेतत्तु वात्सल्याभास उच्यते ॥२१॥ उत्कट यस्तपः कृत्वा धनोपार्जनमादरेत् । उत्सवादिमिषेणैतत् तप-आभास उच्यते ॥२२॥ A thade Karis Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy