________________
गृह एव तिष्ठति स्म । विवाहे निश्चिते सत्यपि तस्या अक्ष्णोरानन्दो नाऽऽसीत् । अगम्यया कयाचिद् मनोवेदनया पीडितेव साऽऽसीत् । विवाहकालेऽपि सा शून्यमनस्कैवाऽऽसीत् । पाणिग्रहणसमयेऽपि नाऽनुभूतो मयोष्मलेशोऽपि तस्या हस्ते। शवस्य कस्यचिद् हस्त इव तस्या हस्तस्तदाऽऽसीत् । यदा च गृहमागतवती तदा 'शयनापवरकं प्रविशन्त्यास्तस्या मनोवृत्तिः पलायितुमिवैवाऽनुभूयते स्म । प्रथमं हि यदा श्यामस्तां बाहुभ्यां - आजीवनं त्वामेवमेव हृदयेन संयुज्यैव पालयिष्यामीति भावेन - आश्लिष्टवान्, तदाऽपि विद्धाया कस्याश्चिद् हरिण्या इव तस्या हृदयमपि भयेन वेपमानमासीत् । अन्धकारेऽपि तदा सा किमप्यालम्बनं मृगयन्ती परिलक्षिताऽऽसीत् । सन्त्रासोऽयं तदुदरे स्थितस्य पापस्यैवाऽऽसीत् खलु ?
-
विवाहानन्तरं च सप्त मासाः .. ! दाम्पत्यसुखस्य स समयोऽखण्डं प्रवहन्ती सरिदिव प्रवहन्नासीत् । यदा यदा हि श्यामः प्रवासाद् गृहमागच्छति स्म तदा तदा यत्किमपि नवीनं दृश्यते स्मैव गृहे भोजनेऽपि विभिन्नं खाद्यादिकं दृष्ट्वा कदाचित् स पृच्छति स्माऽपि “किमेतत् सविते ! दरिद्रस्य गृहमिदं किमुच्छेत्तुमिच्छसि !? किल ?" इति ।
I
Jain Education International 2010_04
-
“अरे नैवम् ! एतत्तु प्रातिवेशिकात् प्राप्तम्, एतदेवं सज्जीकृत 'मित्यादि यथा-कथमपि समादधाति स्म सा तदा। किन्तु तदनु विलम्बेन सा स्पष्टीकरोति स्म यद् - " भोजनानन्तरमवशिष्टेभ्योऽपूपेभ्य एतत् सज्जीकृतमस्ति नाऽन्यत् किमपि " इति ।
ग्रीष्मतौ च वारं वारं भोजने शिखरिणीं ( शीखण्ड इति भाषायां ) परिवेषयति स्म । सहासं च कथयति स्म 'आपणात् क्रीत्वाऽऽनीतमेतत्" । पुनर्मुखभावं च दृष्ट्वा विलम्बेन स्पष्टयति स्म "रात्रौ दुग्धमहं न पिबामि । तस्य च दधि कृत्वा ततो निष्पादितमेतत् । नाऽत्र कोऽपि दुव्र्व्ययः कृतोऽस्तीति सुखं खादतु नाम !"
-
कदाचित् खट्वा - फलकादश्च श्वेतरागेण वर्णितान् दृष्ट्वा यदा स आश्चर्यमभिव्यनक्ति स्म तदाऽपि सा तं सान्त्वयति स्म "स्वल्पेनैव व्ययेन ) रागस्तैलं चाऽऽनीय मबैव वर्णितमेतत् सर्वम्" इति। "एवं किल ? त्वया स्वयमेव वर्णितम् ?" इत्याश्चर्यमुग्धो भवति स्म श्यामः । अपरं च श्यामस्य जीर्णवस्त्रेभ्योऽपि सा स्वकौशलेनैव हस्तप्रोञ्जनकानि द्वारवातायनादियोग्याश्च जवनिका अपि निर्मितवत्यासीत् । एवं च शनैः शनैः श्यामस्य शून्यं गृहं साऽलङ्कृतवती ।
८४
For Private & Personal Use Only
-
www.jainelibrary.org