________________
Jain Education International 2010_04
आत्मा जडकल्पो भवतीति ते मन्यन्ते । तन्मते आत्मनो विभुत्वेऽपि शरीरावच्छेदेनैव ज्ञानादीनामुत्पत्तिरिति ज्ञानादिकं प्रति शरीरं कारणमिति स्वीक्रियते । मुक्तौ शरीराभावाज्ज्ञानाभावः । सुखेच्छायाः सत्त्वे वैराग्यव्याहतिः स्यादिति 'दुःखं मा भू' दितीच्छयैव मुक्त्यर्थं प्रयत्न इति तेषां कथनम् । मुक्तौ दुःखाभाव एव सुखत्वेनोपचर्यते इति ते वदन्ति । अत एव तेषामित्थमुपहासोऽपि श्रूयते - वरं वृन्दावने रम्ये, क्रोष्टुत्वमभिवाञ्छितम् ।
न तु वैशेषिकीं मुक्ति, गोतमो गन्तुमिच्छति ॥ इति ।
मीमांसकाः - एतेषां प्रस्थानद्वयम् । एकं प्राभाकराणाम्, द्वितीयं भाट्टानाम् । तत्र प्राभाकराणां मते
काम्यनिषिद्धकर्मवर्जनपूर्वकं नित्यनैमित्तिककर्मानुष्ठानेन धर्माधर्मयोर्विनाशे सति देहेन्द्रियादिसम्बन्धस्याऽऽत्यन्तिकविच्छेद एव मोक्षः । आत्मज्ञानमपि तत्र सहकारिकारणम् । एतन्मते मोक्षदशायामानन्दस्याऽप्यत्यन्तोच्छेदो भवति । लक्षणं तुआत्यन्तिकदुःखप्रागभावो मुक्ति: ।
समानाधिकरणदुःखासहवृत्तित्वमेवाऽऽत्यन्तिकत्वम् । प्रागभावो यद्यप्यनादिः, न कृतिसाध्य:, तथाऽपि तत्प्रतियोगिजनकाधर्मनाशद्वारेण कथञ्चित्कृतिसाध्योऽपि । अत्र ‘अनादिः सान्तः प्रागभाव' इति लक्षणेन दुःखप्रागभावस्याऽन्ते मुक्तेः प्रच्यवनापत्तिः । तस्याऽनन्तत्वे पुनः सोऽत्यन्ताभाव एव भवेदिति अत्यन्ताभावस्याऽनाद्यनन्तत्वेनाऽसाध्यत्वाद् मोक्षस्याऽप्यसाध्यत्वप्रसङ्गः ।
भाट्टानां म
त्रेधा हि प्रपञ्चः पुरुषं बध्नाति - भोगायतनं शरीरम्, भोगसाधनानीन्द्रियाणि, भोग्याः शब्दादयो विषयाश्च । भोगः = सुखदुःखविषयोऽपरोक्षानुभवः । तदस्य समस्तात्मविशेषगुणोच्छेदोपलक्षिता स्वरूपस्थितिरेव (मुक्ति:) प्रशस्तपादभाष्यकन्दली
१.
२.
३.
टीका ।
यावदात्मगुणाः सर्वे, नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्तिर्नाऽवकल्पते ॥ ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते ?
स्वरूपैकप्रतिष्ठानः, परित्यक्तोऽखिलैर्गुणैः ॥ - न्यायमञ्जरी ॥
नित्यानन्दप्रतिपादिका श्रुतिरात्यन्तिके दुःखवियोगे भाक्ता न्यायवार्तिकतात्पर्यटीकायां वाचस्पतिमिश्रः ।
आत्यन्तिकस्तु देहोच्छेदो निःशेषधर्माधर्मपरिक्षयनिबन्धनो मोक्षः । - प्रकरणपञ्जिका ।
४०
For Private Personal Use Only
www.jainelibrary.org