SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ साधनमस्ति । एतदर्थमेवाऽत्रोपनिषदामाधारेण भारतीयदर्शनपरिस्थितिमवलोकयितुं किञ्चन प्रयतितम् । एतदवलोकनमाश्रित्यैव यदि वयं जैनदर्शनस्य बौद्धदर्शनस्य च ।। मूलतत्त्वानि विश्लेषयामस्तदा ज्ञायेत यज्जैनशास्त्राणां बौद्धशास्त्राणां च दार्शनिकक्षेत्रे व किं योगदानमस्तीति । __अत्र हि मुख्यतो जैनतत्त्वज्ञानविषयो वर्णयितुमुपक्रान्तोऽस्ति, अतस्तद्वर्णने बौद्धदर्शनतत्त्वान्यपि यथाप्रसङ्गं तुलनात्मकदृष्ट्या वर्णयिष्यन्ते । तत्र प्रथमं तावत् , भगवतो बुद्धस्याऽनात्मवादं विचारयामः । यतस्तस्मिन् स्पष्टे जैनदर्शनस्य मौलिकतत्त्वानि स्याद्वादोऽनेकान्तवादो वा च सुगमानि भविष्यन्ति ।। भगवतो महावीरस्य बुद्धस्य च निर्वाणविषयिक्योऽनुश्रुतयो यदि प्रमाणतया : र मन्येरन् तदा भगवतो बुद्धस्य निर्वाणवर्षं ई.पूर्वं ५४४ निर्णीतमस्ति । तस्य जीवनकाल उपदेशकालश्च भगवतो महावीरात् पूर्वतनौ । अत एव स पार्श्वनाथपरम्पराप्रचलितस्य चातुर्यामस्योल्लेखं बहुशः स्वोपदेशेषु करोति स्म । उपनिषत्कालीनात्मवादस्य प्रचण्डपूरस्तेनाऽनात्मवादमुपदिश्य मन्दीकृतः । येन वेगेनाऽऽत्मवादः प्रसिद्धो जातः सर्वेषां च तत्त्वानां मूलत्वेनैकः परमः शाश्वत आत्मैष सम्मतो जातस्तेनैव वेगेन भगवता बुद्धेन तं वादमुन्मूलयितुं प्रयतितम् । स विभज्यवादी आसीत् । तेन रूप-वेदना-सज्ञा-संस्कार-विज्ञानादयः स्वीयतकरनात्मतया साधिताः । तर्काणां क्रमस्त्वयमस्ति - "किं रूपं नित्यमस्ति अनित्यं वा ? + अनित्यम् । - यदनित्यं तत् सुखं वा दुःखं वा ? + दुःखम् । - यद् वस्तु ह्यनित्यं, दुःखं विपरिणामि च तद्विषये एवं विकल्पनं किं योग्यं - यदिदं मम, इदमहम, इदं वा मे आत्मेति ? + नैव । एवं वेद॑नादिविषये चक्षुरादीन्द्रिय-तद्विषय-तज्जन्यविज्ञान-मनोमानसिक८. संयुक्तनिकाय १२.७०.३२-३७ ॥ ९. दीघनिकाय महानिदानसुत्त १५ ॥ १०. मज्झिमनिकाय छक्कसुत्त १४८ ॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy