________________
7 धर्म-मनोविज्ञानादिविषये चाऽपि तर्कबलेनाऽनात्मत्वं साधितमस्ति ।
यदि कश्चिदेवं पृच्छति स्म - 'जाति-जरा-मरण-भवादयः किम् ? ते च । कस्य भवन्ति ?' तदा बुद्ध एवं वदति स्म यत् - 'ईदृशः प्रश्नोऽयोग्यः । यतोऽत्र प्रष्टा एवं मन्यते यज्जात्यादिभ्यो जात्यादिमान् भिन्नोऽस्तीति । अर्थाच्छरीरमन्यत् आत्मा चाऽन्यः । किन्त्वेवं मनने धर्माचरणं सङ्गतं न भवति । अतोऽत्राऽर्थे एवं प्रष्टव्यं यत् - जातिः कथं भवति? जरा-मरणे कथं भवतः? भवः कथं भवति? .. इति । तदैतेषां प्रश्नानामुत्तरं दातुं शक्यम् । एते सर्वेऽपि हि प्रतीत्यसमुत्पन्नाः
सन्ति । पश्यतु, शरीरमेवाऽऽत्मा - इत्येकोऽन्तः, शरीराद्भिन्न आत्मा - इत्यन्योऽन्तः । 15 अहं तु द्वावपीमावन्तौ परित्यज्य मध्यममार्गमुपदिशामि, यथा - र अविद्यया संस्काराः, संस्कारैर्विज्ञानं, विज्ञानेन नाम-रूपे, नाम-रूपाभ्यां
षडायतनानि, तैः स्पर्शः, स्पर्शेन वेदना, वेदनया तृष्णा, तया चोपादानं, तेन भवः,
भवेन च जाति-जरा-मरणानि भवन्ति । अयमेव हि प्रतीत्यसमुत्पादः' । - अथ च भगवतो बुद्धस्य मुख्यशिष्येणाऽऽनन्देन पृष्टं - 'भगवन् ! भवान् । वारं वारं लोकं शून्यत्वेन ख्यापयति । किमेतस्य तात्पर्यम् ?' तदा बुद्धेन यदुत्तरं । दत्तं, तेन बौद्धदर्शनस्याऽनात्मविषयकं मौलिकं मतं व्यक्तीभवति – “१°यस्मा च खो आनन्द ! सुझं अत्तेन वा अत्तनियेन वा तस्मा सुझो लोको ति वुच्चति । किं च आनन्द ! सुझं अत्तेन वा अत्तनियेन वा ? चक्खं खो आनन्द ! सुझं अत्तेन वा अत्तनियेन वा । ( एवं ) रूपं ....... रूपविञाणं ....... (इत्यादि) - (संयुक्तनिकायः ३५-८५) Ram अनात्मवादस्य तात्पर्यं किम् ? इति यदा विचारयामस्तदैतत् स्पष्टीकरण-.
मावश्यकं यद् भगवतो बुद्धस्य यथा शरीरात्मवादोऽमान्यस्तथैव सर्वान्तर्यामिनित्य-ध्रुव-शाश्वतात्मवादोऽप्यमान्य एव । तन्मतेन ह्यात्मा शरीरादत्यन्तं भिन्नोऽपि नाऽस्ति, तथैवाऽत्यन्तमभिन्नोऽपि नाऽस्ति । तस्य चार्वाकसम्मतो भौतिकवादोऽप्येकान्ततया भासते तथैवोपनिषदां कूटस्थात्मवादोऽप्येकान्ततया भासते । तन्मार्गस्तु मध्यममार्गः । प्रतीत्यसमुत्पादवाद एव तस्य मान्यः । ११. (सं. छाया) यस्माच्च खलु आनन्द ! शून्यम् आत्मना वा आत्मनियतेन वा तस्मात् शून्यो ।
लोक इत्युच्यते । किञ्च आनन्द ! शून्यम् आत्मना वा आत्मनियतेन वा ? चक्षुः खलु . आनन्द ! शून्यम् आत्मना वा आत्मनियतेन वा । एवं रूपम् .... रूपविज्ञानम् ... इत्यादि ।
६५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org