________________
सारं तु भगवता महावीरेण किञ्चिन्नूतनं तत्त्वदर्शनं नैवोपदिष्टं किन्तु ततोऽपि सार्धद्विशतवर्षेभ्यः पूर्वं सञ्जातस्य पार्श्वनाथभगवतस्तत्त्वविचार एवोपदिष्टोऽस्ति । ,
यद्यपि पार्श्वनाथसम्मत आचारो भगवता महावीरेण किञ्चिदिव परावर्तित इति तु मर जैनागमैर्ज्ञायते, तथाऽपि पार्श्वनाथोपदिष्ट तत्त्वज्ञानात् तस्य कोऽपि मतभेदः कुत्राऽपि
न दृश्यते । अत इदमवश्यं वक्तुं शक्यं यद् जैनतत्त्वविचारस्य मूलानि भगवतः * पार्श्वनाथस्य समयं यावत् त्वश्यं पुराणानि ।
यद्यपि जैनानुश्रुत्यनुसारं तु भगवता पार्श्वनाथेन स्वस्मात् पूर्वं सञ्जातस्य । श्रीकृष्णसमकालीनस्याऽरिष्टनेमिभगवतः परम्परैव स्वीकृताऽऽसीत्, अरिष्टनेमिना च ततोऽपि पूर्वं सञ्जातस्य नमिनाथस्य । एवं पूर्वं पूर्वतनं च विचारयता प्रथमं 3 तीर्थकरं श्रीऋषभदेवं यावदस्या मूलानि प्राप्यन्ते । तदनुसारं च वेदोपनिषदां
समस्तानामपि मूलस्रोत ऋषभदेवप्रणीतजैनतत्त्वविचार एवाऽस्ति । तथाऽप्येतज्जै- नानुश्रुतेः प्रामाण्यमैतिहासिकदृष्ट्या साधयितुं न शक्यम् । एवं सत्यपि जैनतत्त्वविचारस्य प्राचीनत्वं त निस्सन्दिग्धमेव ।
किञ्च, उपनिषत्सु यथाऽन्यदर्शनशास्त्राणां बीजानि प्राप्यन्ते तथा जैनतत्त्व- विचारस्य बीजानि नैव प्राप्यन्ते । अतः स विचारो यथा प्राचीनस्तथा स्वतन्त्रोऽपि। -
आगमेषु कर्मविचारस्य व्यवस्था, मार्गणा गुणस्थानानि चाऽऽश्रित्य विचारणं,
जीवानां गत्यागत्योर्विचारः, लोकव्यवस्थायास्तद्रचनायाश्च विचारः, परमाणुपुद्गलानां Vतद्वर्गणानां पुद्गलस्कन्धानां च विचारः, षड्द्रव्याणां नवतत्त्वानां च व्यवस्थितं M- निरूपणं विलोक्याऽवश्यं वक्तुं शक्यते यत्-जैनतत्त्वविचारधारा हि भगवतो
महावीरादपि पूर्वतनानां नैकवंश्यानां परिश्रमस्य सुफलम् । एवं चाऽस्या विचारधाराया उपनिषत्प्रतिपादितनैकमतेभ्यः पार्थक्यं स्वातन्त्र्यं च स्वयंसिद्धमेव ।
__एतावता भूमिका सञ्जाता । अधुना तु जैनदर्शनस्य मुख्यसिद्धान्तस्य-1अनेकान्तवादस्य स्याद्वादस्य वा परिचयस्य प्रस्तावः । तं च वयमागामिन्यां शाखायां विचारयिष्यामः । इति ।
(पं. श्रीदलसुखमालवणिया-सम्पादिताया न्यायावतारवार्तिक-वृत्तेः प्रास्ताविकादनूदितोऽयं लेखः ।।)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org