________________
मर्म गभीरम्
मुनिकल्याणकीर्तिविजयः
/
(१) महात्मनो माहात्म्यम् एको यौवनमत्तो युवक आसीत् । एकदा स सद्गुरोरुटजं प्राप्तः । प्रथमं तु स गुरोरुपहासं कुर्वाणोऽट्टहासं कृतवान् । तदनन्तरं च स पादोपरि पादं संस्थाप्योद्धततया गुरुसमक्षमेवोपविष्टः । तन्मनस्यायीद् यद्- ‘एवं दुर्व्यवहारकरणेनैष कुपितो भविष्यति, मां चोपालम्भयिष्यति । ततोऽहमपि तेन सह कलहं करिष्यामि । एवं च मे दिनं सफलीभविष्यति' ।
किन्तु गुरुहि सर्वथा प्रतिक्रियारहित एव स्थितवान् । तन्मुखाकृतिरपि नितरां प्रशान्ता प्रसन्ना चाऽऽसीत् ।
अतो धैर्यच्युतो युवकः सहसा कथितवान् - 'महात्मन् ! अहं भवते कीदृशः प्रतिभामि?'
गुरुणोक्तं - 'मित्र ! वयं सर्वेऽपि ह्येकस्या एव टङ्कशालाया मुद्राः स्मः, सर्वथा सदृशाः ! त्वयि मयि च न कोऽपि भेदः । एवं सति "कीदृशः प्रतिभामि"इति प्रश्न एव कथमुत्तिष्ठते ?'
युवकेन पृष्टं - 'किन्तु मया भवते नमस्कारोऽपि न कृतः, किमहं भवते उद्धतो न प्रतिभातः?'
गुरुणा गदितं- 'नमस्कारः कर्तव्यो-न कर्तव्यो वेत्यत्र सर्वस्याऽपि स्वातन्त्र्यं वर्तते । तथा यदि भवता मे नमस्कारो न कृत इत्यतो भवान् उद्धतः स्यात् तदा मयाऽपि भवते नमस्कारो न कृत इत्यतोऽहमपि उद्धतो भवेयम् ! नैव नैव, ममेदृशं न किञ्चिदपि प्रतिभाति' ।
युवकेन पुनरपि पृष्टं - ‘पादोपरि पादं संस्थाप्याऽहं भवत्पुरत उपविष्टः । किमत्र मेऽशिष्टताऽविनयश्च भवता नोहितौ ?'
गुरुणोक्तं - 'सर्वोऽपि जनः स्वीयानुकूल्यानुसारं यथेच्छमुपवेष्टुमर्हति । एवं सति काऽत्राऽशिष्टता ? को वाऽविनय: ? अहं त्वीदृशेषु क्षुद्रप्रश्नेषु न कदाऽपि मुह्यामि' ।
வவவவவவவவவவ
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org