________________
* सञ्चालयन्ननन्तरदिने आरात्रि जागृतः प्रवासं कुर्वन्नासीदेव किन्तु यथाऽद्य स* 9 गगनस्थितान् तारकाननिमेषं दृष्टवान् न तथा कदाऽपि सावधानं दृष्टवानासीत् । पत्नीः सुखं स्वपितीति श्रवणानन्तरमेव सोऽनुभूतवानासीद् यत् प्रत्यूषकालीनः पवनः शीतलोऽस्ति । वस्त्रमपि प्रस्वेदक्लिन्नं शरीरेण श्लिष्टमित्यपि तेन तदैव ज्ञातं दृष्टं च । श्रान्ता सविता शान्तं निद्रातीत्यनेन स स्वस्थतामन्वभवत् ।
किन्तु तथाऽपि स सर्वं नाऽवबुद्धवानासीत् । बहुशो यथा बालका 3 लघुवयस्येव सर्वं विशेषेणाऽवबुद्ध्यन्ते तथा कदाचिद् वयस्का युवानोऽपि तावज्जडबुद्धयो भवन्ति यत्ते सांसारिकव्यवहारमपि सम्यग् ज्ञातुं न प्रभवन्ति ।
श्यामोऽपि तादृश एव कश्चिदबुधो ब्राह्मणपुत्र आसीत् । अपि च ब्राह्मणपुत्रत्वमपि 9 तस्य को नाम मन्येत ? जात्या प्रेत इवैव स आसीत् । नक्तन्दिनं केवलं स श्रमं
कर्तुमेव जानाति स्म । एकलमतिः स विद्यालयेऽपि व्यावहारिक शिक्षणं नैव
प्राप्तवान्।
"श्याम ! पुत्रं प्रसूतवती तव भार्या । ज्ञातपूर्वमेवैतत् किल पितामहसकाशात् !" गृहाद् बहिरागत्य सूतिका यदा तमुक्तवती तदा हि श्यामस्य नेत्रे निद्राभारेणाऽवनते इवाऽऽस्ताम् । 'स्वप्नः किं मया कश्चिद् दृष्टः ? स्वप्ने वा किञ्चित् श्रुतं मया ?' - इति विकल्पयन् यदा पञ्चषनिमेषान् यावदनिमेष स । सूतिकां दृष्टवान् तदैव स निश्चेतुं प्राभवद् यन्नैष स्वप्नोऽपि तु सत्यम् ।
सविता मां पुत्रमुपहृतवती किल? जीवज्जनं सा मेऽपितवती ! - संसारस्य सामान्येऽप्यस्मिन् वृत्ते जडबुद्धिः श्यामस्तु महत्तपःफलं देववरं वाऽनुभूतवान् । सवितां हि स परमेश्वरीसदृशीमिव भावितवान् ।
सूतिका कथितवती - "अन्तरागच्छतु नाम । पुत्रं द्रष्टुमुत्सुकः खलु । भवान् ?'
"सविता विनिद्रा जाता किल? मामाह्वातुं किं सा सूचितवत्यस्ति ?" पितामहस्य शिक्षावचनं स्मृत्वा स पृष्टवान् ।
"आम्, आगच्छतु ।"
श्यामोऽन्तः प्रविष्टः । कस्मिंश्चिद् देवालय इव मन्दं पदानि निदधन् स सवितायाः खट्वां प्राप्तवान् । सस्नेहं तस्या हस्तं स्वहस्तेन ग्रहीतुं तदिच्छा बलवती 4 जाता किन्तु स्पर्श-निषेधस्य मर्यादां संस्मृत्य स स्वेच्छां संयमितवान् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org