SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ * दग्धः एष मे दूरभ्राता । अर्धदग्धः दूरभ्राता ! नाऽवबुद्धं मया भोः ! दग्धः अस्य मम च मध्ये त्रयोदश भ्रातृ-भगिन्यः सन्ति । ग्राहकः भोः ! कियतः कालात् प्रतीक्षेऽहं, किमद्याऽपि भोजनं नैव सज्जम् ? वितारकः महोदय ! भोजनं त दिनत्रयादेव सज्जमस्ति । अधुना तु तदुष्णी क्रियते... एष आनयामि....!! Rog - (दूरवाण्यां) भोः ! ग्रन्थालयः कदोद्घाट्यते? + ग्रन्थपालः दशवादने महोदय ! किन्तु किमिति भवान् मध्यरात्रे प्रश्नमिमं पृच्छति? - (निराशतया) किं भवान् नववादनात् पूर्वमुद्घाटयितुं न शक्नोति ? + ग्रन्थपालः नैव महोदय ! अहं दशवादनात् पूर्वमपि नैवोद्घाटयिष्ये । किन्तु भवतस्ततः पूर्वं तत्राऽऽगमनस्य काऽऽवश्यकता नाम ? - (विषण्णतया) को वोत्सुक आगमनार्थम् ? अहं तु ततो निर्गन्तुमिच्छामि ! आपणिकः (अन्यस्मै) - कुशलोऽस्ति भवान् ? आर्थिकसङ्कटसमयेऽस्मिन् व्यापारस्य का गतिः ? अपरः अरे, माऽस्तु वार्ताऽपि तस्य । पुरा हि ये जना वस्त्वादिकं क्रीत्वा मूल्यमपि न ददति स्म तादृशा अपि ग्राहका सम्प्रति नाऽऽगच्छन्ति । ११० Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy