SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ मर्म नर्म (द्वौ मूझे मध्येमार्गं बोम्ब्(Bomb)द्वयं दृष्टवन्तौ ।) प्रथमः गृहाण रे द्वयमपि, आरक्षकेभ्यो दास्यावः । द्वितीयः किन्तु तत्र गच्छता द्वयोरेकतरो वा स्फुटेत् चेत्-किं कर्तव्यम् ? प्रथमः वदिष्यावो यदेक एव प्राप्त - इति ! ** ** * (एको जनः प्रत्यहं भगवते घण्टाद्वयं प्रार्थयति-) प्रभो ! कृपालो ! मम लॉटरि-चिटिकायै जयं प्रापयतु कृपया । (एकादशवर्षानन्तरं प्रभुः प्रकटीभूय रोषेणोक्तवान्-) रे मूर्ख ! प्रथमं चिटिकां तु क्रीणाहि !! एको दुःखी नरः पथि व्रजन्नासीत् । तावता पृष्ठतः केनचित् कथितमुच्चैः - "तत्रैव तिष्ठाऽन्यथा महतीष्टिका तव शिरसि पतिष्यति" । स तत्रैव स्थितः, तस्य परत एवैका महतीष्टिका पतिता । स रक्षितोऽभवत् । अथाऽन्यदा स मार्गमुल्लमयन्नासीत् । तावता तेन श्रुतं - "तिष्ठ तत्रैव । अन्यथा कारयानेनाऽपघातो भविता" । स स्थितो रक्षितश्चाऽपि।। एतेन विस्मितः स उच्चैः पृष्टवान् – “कोऽस्ति भवान् ?" उत्तरमागतम् - "अहमस्मि देवदूतः ।" "एवं वा ? तर्हि मम विवाहकाले भवान् कुत्र निलीन आसीत् ?" कोपोद्विग्नेन तेन पृष्टम् । १०९ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy