________________
न विधिरपि दयते !!
प्रा. अभिराजराजेन्द्रमिश्रः,
विधिरपि खलु विपदहनि न दयते मिलति किमपि न जगति शरणाय ! नरि-नरि, दृशि-दृशि, मनसि-मनसि, हृदि उदयति गरलममृतमपहाय !! धावति नभसि वृथा घनमाला जलकणमपि नहि गिरति कराला । ताम्यति धरणी बीजविशरणी को नु यतेत प्रकृतिहिताय ?? कृष्णसखोऽपि सुदामा दीनः । सरसि सङ्कुचति विकलो मीनः । दवदहने क्व नु वनहरीतिमा काकगृहे क्च नु सुखं पिकाय ?? ते नु शरास्तदेव गाण्डीवम् सव्यसाचिनस्तदेव वीर्यम् । सोऽपि जितो हा भिल्लकिरातैः विवशो, हरिदयिताहरणाय !! शकटीं वहति कदाचिन्नौका स्वयमुह्यते शकट्या नौका । भाति विचित्रं दैवविलसितं जन्म भवति जन्तोमरणाय !! पापरतानां सुलभा मुक्तिः शिवकृपयेति, दीयते युक्तिः । तलाऽङ्गीकुरुते स कबीरः मगहरमेति मरणवरणाय
___१. काश्यां मरणान्मुक्तिरिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org