SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ स्थिते भवद्गृहे कथं वा जलमाहरेयम् ? तथा मम मत्कुटिम्बिनां वा चिकित्सा) र 3 भवान् निःशङ्कं धनं गृह्णातु, न काऽप्यापत्तिर्मम ।' एतच्छ्रुत्वा राजवैद्यस्य बहु दुःखं जातम् । 'जलहारकसदृशस्तुच्छो जनो राजवैद्यस्याऽपि वचनं नैव पालयेत् ? भवतु, कालेऽहं तमपि दर्शयिष्ये (5 कञ्चिच्चमत्कारम्' इति राजवैद्यो मनसि सङ्कल्पं कृतवान् । ततः पक्षाभ्यन्तर एव कदाचित् ठक्कुरस्योदरशूलं जातम् । वैद्यराज आहूतः । र तेनाऽप्यागत्य ठक्कुरं परीक्ष्यौषधं दत्तम् । तद्ग्रहणेन च द्वित्रदिनेष्वेव स स्वस्थो जातः । किन्तु वैद्यराजेन तस्य सूचितं यत् – 'प्रभो ! रोगोऽयमतीव विचित्रोऽस्ति । यदा कदापि पुनर्भवितुमर्हति । अतो भवान् मासं वा यावत् "मध्यमजल''स्य * प्रयोगं करोतु । तेनैष रोग उन्मूलितो भविष्यति । प्रयोगोऽप्ययं सर्वथा सरलो 15 Ka व्ययरहितश्चाऽस्ति ।' 'अहमवश्यं करिष्ये प्रयोगमिमं, दर्शयतु भवान्' इति ठक्कुरेणोक्ते वैद्यराजेन ६ कथितं 'प्रायो विंशतिघटमितं जलं यत्र मायात् तादृशीमेकां मृण्मयीं द्रोणीं कारयतु । तां प्रत्यहं सायङ्काले जलेन पूरयतु । ततः प्रातस्तस्या अर्धं जलं निष्कास्य मध्यभागस्थं । चुलुकमितं जलं रिक्तकुक्षितयैव पिबतु, शिष्टं च जलं निष्कास्य द्रोणी रिक्तां कारयतु । एवं प्रत्यहं प्रातरपि द्रोणीं जलेन पूरयित्वा सायं तस्या मध्यभागस्थितं चुलुकमितं जलं पीत्वा शिष्टं निष्कासयतु । एतेन प्रयोगेण मासमध्य एव भवतो रोगो नि भविष्यति ।' ठक्कुराय प्रयोग एष रुचितः । तेन कुम्भकारमादिश्य द्रोणी कारिता, (६) जलहारकोऽपि प्रत्यहं वारद्वयं तां जलपूर्णां कर्तुमादिष्टः । एतेन तस्य प्रतिदिनं चत्वारिंशद्घटमितं जलमधिकमानेतव्यमित्यापतितम् । प्रतिदिनं नियतजलोपरि हीयदधिकमपि जलं कृपात् समाकर्षणीयमितीदमतीव कष्टकरमासीत् ।। प्रयोगस्त्वेकं दिनं - द्वे दिने - त्रीणि दिनानि - इत्येवमासप्ताहं प्रवृत्तः । र जलहारकस्य स्थितिर्दयनीया जाता । किञ्चैतदधिकं जलमानेतुं तस्याऽधिकं वेतनंबर प्राप्येत-इत्यपि नाऽऽसीत् । यतः सर्वैरपि राजकर्मकरैर्वार्षिकवेतनेनैव कार्य कर्तव्यमासीत् । अतो निर्विण्णेन जलहारकेण राजभवनस्य दासा 'इयदधिकं जलं किमर्थमानेतव्य'मिति पृष्टाः । तैरपि ‘राजवैद्यस्य सूचनया ठक्कुरस्योदरशूलनिवारणार्थं मध्यमजलस्य प्रयोगोऽयं प्रत्यहं क्रियतेऽत एतावज्जल Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy