SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ इइइइइइइइइइइइदा गजेषु सोमदेवस्य महानभिमान इति भाति । तान् बहधा प्रशंसति यशस्तिलके नसः । हृद्यं पद्यमेकमेव अत्रोदाहरामः । बलेन कायेन जवेन कर्मणा परैरतुल्याः परमेण चाऽऽयुषा । महीभुजां भाग्यबलान्महीतले कृतावतारास्त्रिदिवान्मतङ्गजाः ।। हयस्याऽपि विषये तस्य प्रशंसाऽवधार्यताम जयः करे तस्य रणेषु राज्ञः बाले परं वर्षति वासवञ्च । धर्मार्थकामाभ्युदयः प्रजानाम् एकोऽपि यस्याऽस्ति हयः प्रशस्तः ।। यद्यपि यशस्तिलकस्य परमोद्देशो वैराग्यबोधनं, तथाऽपि पूर्वपक्षत्वेन तत्र तत्र शृङ्गारो वर्ण्यते । तत्र सोमदेवस्य सामर्थ्य न न्यूनम् । शृङ्गारमपि रसस्यन्दितया वर्णयितुं स समर्थः । उदाहरणम् उक्ता वक्ति न किञ्चिदुत्तरमियं नाऽलोकिताऽऽलोकते शय्यायां विहितागमा च विवशश्वासोल्बणं वेपते । नर्मालापविधौ सकोपहृदया गन्तुं पुनर्वाञ्छति प्रीति कस्य तथाऽपि नो वितनुते बाला नवे सङ्गमे ।। विदलदलकवासे लोललीलावतंसे नदनयनविलासे मन्मनालापहासे । क्षितिरमण तव स्यात् स्फारशृङ्गारलास्ये सरभसमबलास्ये कामकेलीरहस्ये ।। इत्यादि । एवं करुणादीनामपि रसानां वर्णनायामुत्कर्षं साधयति सोमदेवसूरिः। 5 चम्मूं रचयता कविना पद्य इव गद्येऽपि प्रावीण्यं दर्शनीयम् । गद्यं कवीनां निकषं वदन्ति । सोमदेवस्य नैपुण्यं गद्यस्य वाक्ये वाक्ये गोचरीभवति । तस्य पदसम्पत्तिः ८ प्रकामं शोभते सर्वत्र । एकमुदाहरणम् "पुनः करिकदलिकानिकरनिरस्तातपप्रसराः, परस्परमिलत्पताकापटप्रतानविहितवितानाडम्बराः, ससंरम्भसंचरद्रथकट्योड्डमरपांसवः, करटिकटस्यन्दमानन मदजलजनितकर्दमाः, तुरगवेगखरखुरक्षोदनिबिडभूमयः, करभक्रमसम्पातमसृणतलाः, SEALEDESALESALESALESALEnths ४७ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy