Page #1
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
( स्वोपज्ञवृत्तियुता।)
प्रकाशक:जैनसाहित्यप्रसारक कार्यालय ।
Page #2
--------------------------------------------------------------------------
________________
60
श्रीपरमात्मन स्याद्वादविद्यापतिश्रीमद्विद्यानंदिस्वामिविरचिता
आप्तपरीक्षा। (स्वोपज्ञवृत्तियुता ।)
+ +
प्रकाशकःजैनसाहित्यप्रसारककार्यालयस्य
सत्त्वाधिकारीबिहारीलाल कठनेरा जै हीराबाग, पोष्ट गिरगांव, बम्बई।
।
मुद्रकः-एम्. व्ही. परुळेकर मुंबईवैभव प्रेस, गिरगांव-मुंबई ।'
द्वितीयावृत्ति १००० प्रति। ज्येष्ठ, वीर-निर्वाण सं० २४५७ ॥
मूल्यमेकोरूप्यकः।
Page #3
--------------------------------------------------------------------------
________________
मेरा निवेदन।
बैन-सिद्धांत-प्रकाशिनी संस्था द्वारा प्रकाशित आवृत्तिपरसे हमने इसे प्रकाशित किया है।
साहित्यरत्न पं. दरबारीलालजी न्यायतीर्थने इसके पहलेके ६४ पृष्ठोंके और न्यायवाचस्पति पं० हजारीलालजी न्यायतीर्थने अंतके ७५ पृष्ठोंके प्रूफोंका संशोधन किया है।
पं. श्रीनिवासजी शास्त्री और पं० दरबारीलालजी न्यायतीर्थने अपने अभ्यास करते समयकी संशोधित मुद्रित प्रतियां हमें देनेकी उदारता दिखलाई थी। तथा एक हस्तलिखित प्रति बम्बईके श्रीचन्द्रप्रभ दि. जैन मंदिरसे प्राप्त हुई थी। इन तीनों प्रतियों परसे इसका संशोधन किया गया है।
उपर्युक्त सहायक विद्वानों तथा संस्थाओंके हम हदयसे आभारी हैं। प्रफ ध्यानसे देखने पर भी कुछ अशुद्धियां रह गई है। तथा प्रेसमें छपते समय भी कुछ अशुद्धियां होगई हैं। उनका शुद्धिपत्र नीचे दिया जाता है । पाठक उसके अनुसार अशुद्धियोंको शुद्ध करके पुस्तकका पढ़ना-पढ़ाना प्रारंभ करें।
-प्रकाशक।
Page #4
--------------------------------------------------------------------------
________________
शुद्धिपत्र।
पृष्ठ सं०
पंक्ति सं०
१४-१५
२१
0
0
अशुद्ध प्रसगात् कायत्वाबाधक कार्योत्पत्ती वाऽपेक्षामाणता परीक्षाक्षम दषयमाह नष्टेविरुद्ध प्रयोकत्व व्यतिरेकानुं सह्यावध्यादि नामेकं वाद्विशिष्ट
प्रसंगात .. कार्यत्वाबाधकं कार्योत्पत्तौ वाऽपेक्षमाणता परीक्षाक्षम दूषयन्नाह नेष्टविरुद्ध प्रयोक्तत्व व्यतिरेकानु सर्विध्यादि नामेक
१२
.
.
१७
.
Jarrusatul brasserito super
२२-२३ १५-१६
१२
त्वादिष्टि
२१
W
तावदसिद्ध
६४
*
तत्वादि
तन्वादि वृक्ष
वृक्षा भताना
भूतानां
तावदसिद्धं समवायिषु इति. समयायिषु समवाय इति दषित
दूषित सर्व
सर्व सच्याप्नोंतीति सकृयामोतीति ब्रयान्न
बयान तता
ततो तदि
७
.
:
*
Page #5
--------------------------------------------------------------------------
________________
. (४)
पृष्ठ सं०
पंक्ति सं०
११० ११३ ११३ ११५ ११५ ११७ ११८ १२२ १२३ १२४
له م م م م م ه س ه م م ه م م م
- अशुद्ध पारतंत्र्यस्वभावस्य पारतंत्र्यस्वातंत्र्यस्य प्रेमयत्वाद्यमास्मादृक् प्रमेयत्वायथास्माक् च प्रमातर्यात्मनि प्रमातर्यात्मनि करणज्ञान
करणज्ञानं प्रत्यक्षत्वासिद्धे प्रत्यक्षत्वासिद्धेः श्रोत्रघ्राणः श्रोत्रघ्राणविषयांतरपरच्छित्तेः विषयांतरपरिच्छित्तेः यत्प्रकृष्यमाण यत्प्रकृष्यमाणं तथाविधि
तथाविध निर्णयानुपपत्तः निर्णयानुपपत्तेः यथाथ
यथार्थ सर्वज्ञा
सर्वज्ञो प्रसगात्
प्रसंगात् प्रामाण्यानष्ट प्रामाण्यानिटे
संसर्गात् एवान्याथा एवान्यथा प्रमाण
प्रमाणं स्वष्टेबाधन स्वेष्टबाधनं
१२४
१२४
संसगात्
१२५ १२५ १२६ १२६
१२६
Page #6
--------------------------------------------------------------------------
________________
pop-50
NEPAKES
नमः सिद्धेभ्यः। आचार्यप्रवरश्रीविद्यानंदिस्वामिविरचिता आप्तपरीक्षा।
Oreviocoप्रबुद्धाशेषतत्त्वार्थबोधदीधितिमालिने । नमः श्रीजिनचंद्राय मोहध्वांतप्रभेदिने ॥१॥ कस्मात्पुनः परमेष्ठिनः स्तोत्रं शास्त्रादौ शास्त्रकाराः प्राहुरित्यभिधीयतेश्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः।
इत्याहुस्तद्गुणस्तोत्रं शास्त्रादौ मुनिपुंगवाः॥२॥ . श्रेयो निःश्रेयसं परमपरं च । तत्र परं सकलकर्मविप्रमोक्षलक्षणं बंधहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्ष इति वचनात् । ततोऽपरमाहत्यलक्षणं घातिकर्मक्षयादनंतचतुष्टयस्वरूपलाभस्यापरनिःश्रेयसत्वात् । न चाऽत्र कस्यचिदात्मविशेषस्य कृत्स्नकर्मविप्रमोक्षोऽसिद्धः साधकप्रमाणसद्भावात् । तथाहि, कश्चिदात्मविशेषः कृत्स्नकर्मभिर्विप्रमुच्यते कृत्स्नबंधहेत्वभावनिर्जरावत्त्वात् । यस्तु न कृत्स्नकर्मभिर्विप्रमुच्यते स न कृत्स्नबंधहेत्वभावनिर्जरावान् , यथा संसारी, कृत्स्नबंधहेत्वभावनिर्जरावांश्च कश्चिदात्मविशेषस्तस्मात्कृत्स्नकर्मभिर्विप्रमुच्यते । “ ननु बंध एवात्मनोऽसिद्धस्तद्धेतुश्चेति कुतो बंधहेत्वभाववत्त्वं, प्रतिषेधम्य
Page #7
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
विधिपूर्वकत्वात् । बंधाभावे च कस्य निर्जरा, बंधफलानुभवनं हि निर्जरा, बंधाभावे तु कुतस्तत्फलानुभवनमतः कृत्स्नकर्मनिर्जरावत्त्वमप्यसिद्धं । न चासिद्धं साधनं साध्यसाधनायालमिति।" कश्चित् , सोऽप्यनालोचिततत्त्वः प्रमाणतो बंधस्य प्रसिद्धेः । तथा हि, विवादाध्यासितः संसारी बंधवान् परतंत्रत्वादालानस्तंभागतहस्तिवत् । परतंत्रोऽसौ हीनस्थानपरिग्रहवत्त्वात् कामोद्रेकपरतंत्रवेश्यागृहपरिग्रहवच्छ्रोत्रियब्राह्मणवत् । हीनस्थानं हि शरीरं तत्परिग्रहवांश्च संसारी प्रसिद्ध एव । कथं पुनः शरीरं हीनस्थानमात्मन इत्युच्यते । हीनस्थानं शरीरमात्मनो दुःखहेतुत्वात् कस्यचित्कारागृहवत् । ननु देवशरीरस्य दुःखहेतुत्वाभावात् पक्षाव्यापको हेतुरिति चेत् न, तस्यापि मरणे दुःखहेतुत्वसिद्धेः पक्षव्यापकत्वव्यवस्थानात् । तदेवं संक्षेपतो बंधस्य प्रसिद्धौ तद्धेतुरपि सिद्धस्तस्याहेतुकत्वे नित्यत्वप्रसंगात् । सतो हेतुरहितस्य नित्यत्वव्यवस्थितेः 'सदकारणवन्नित्यमिति' परैरभिधानात् । तद्धेतुश्च मिथ्यादर्शनाविरतिप्रमादकषाययोगविकल्पात्पंचविधः स्यात् । बंधो हि संक्षेपतो द्वेधा भावबंधो द्रव्यबन्धश्चेति । तत्र भावबंधः क्रोधाद्यात्मकस्तस्य हेतुर्मिथ्यादर्शनं, तद्भावे मावादभावे चाभावात् । क्वचिदक्रोधादिविषये हि क्रोधादिविषयत्वश्रद्धानं मिथ्यादर्शनं तस्य विपरीताभिनिवेशलक्षणस्य सकलास्तिकप्रसिद्धत्वात् तस्य च सद्भावे बहिरंगस्य सत्यंतरंगे द्रव्यक्रोधादिबंधे भावबंधस्य सद्भावः तदभावे चासद्भावः सिद्ध एवेति मिथ्यादर्शनहेतुको भावबंधः । तद्वदविरतिहेतुकश्च समुत्पन्नसम्यग्दर्शनस्याऽपि कस्यचिदप्रकृष्टो भावबंधः सत्यामविरतौ प्रतीयते एव । ततोऽप्यप्रकृष्टो भावबंधः प्रमादहेतुकः स्यादविरत्यमावेऽपि कस्यचिद्विरतस्य सति प्रमादे तदुपलब्धेः । ततोऽप्यप्रकृष्टः कषायहेतुकः सम्यग्दृष्टेविरतस्याऽप्रमत्तस्याऽपि कषायसद्भावे भावात् ।
Page #8
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
* प्रतीयते ।
दर्शनादिपंचविधीयते । न
ततोऽप्यप्रकृष्टवपुरज्ञानलक्षणो भावबंधो योगहेतुकः क्षीणकषायस्यापि योगसद्भावे तत्सद्भावात् । केवलिनस्तु योगसद्भावेऽपि न भावबंधः, तस्य जीवन्मुक्तत्वान्मोक्षप्रसिद्धेः । न चैवमेकैकहेतुक एव बंधः पूर्वस्मिन् पूर्वस्मिन्नुत्तरस्योत्तरस्य बंधहेतोः सद्भावात् । कषायहेतुको हि बंधो योगहेतुकोऽपि प्रमादहेतुकश्च योगकषायहेतुकोऽपि । अविरतिहेतुकश्च योगकषायप्रमादहेतुकः प्रतीयते । मिथ्यादर्शनहेतुकश्च योगकषायप्रमादाविरतिहेतुकः सिद्ध इति मिथ्यादर्शनादिपंचविधप्रत्ययसामर्थ्यामिथ्याज्ञानस्य बंधहेतोः प्रसिद्धेः षट्प्रत्ययोऽपि बंधोऽभिधीयते । न चायं भावबंधो द्रव्यबंधमंतरेण भवति, मुक्तस्यापि तत्प्रसंगादिति द्रव्यबंधः सिद्धः । सोऽपि मिथ्यादर्शनाविरतिप्रमादकषाययोगहेतुक एव बंधत्वाद्भावबंधवदिति मिथ्यादर्शनादिबंधहेतुः सिद्धः । तदभावः कुतः सिद्धचेदिति चेत् तत्प्रतिपक्षभूतसम्यग्दर्शनादिसात्मीयभावात् । सति हि सम्यग्दर्शने मिथ्यादर्शनं निवर्तते तद्विरुद्धत्वात् । यथोष्णस्पर्शे सति शीतस्पर्श इति प्रतीतं । तथैवाऽविरतिर्विरत्यां सत्यामपैति । प्रमादश्चाप्रमादपरिणतो, कषायोऽकषायतायां, योगश्चायोगतायामिति बंधहेत्वभावः सिद्धोऽपूर्वकर्मणां आस्रवनिरोधः संवर, इति वचनात् । ननु च स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रेभ्यो भवतीति सूत्रकारमतं न पुनः सम्यग्दर्शनादिभ्य इति न मंतव्यं । गुप्त्यादीनां सम्यग्दर्शनाद्यात्मकत्वात् । न हि सम्यग्दर्शनरहिता गुप्त्यादयः संति सम्यग्ज्ञानरहिता वा तेषामपि विरत्यादिरूपत्वात् । चारित्रभेदा ह्येते प्रमादरहिताः कषायरहिताश्चायोगतामपि लभते । ततो न कश्चिद्दोषः। कथमात्मनः पूर्वोपात्तकर्मणां निर्जरा सिद्धचेदित्यभिधीयते । क्वचिदात्मनि काय॑तः पूर्वोपात्तानि काणि निर्जीयते तेषां विपाकांतत्वात् । यानि तु न नियते तानि
Page #9
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
awra.wwwwwwwwwwwwwwwwwww...mm.wwwxx
न विपाकांतानि यथा कालादीनि, विपाकांतानि च कर्माणि तस्मान्निजर्जीयते । विपाकांतत्वं नासिद्धं कर्मणां । तथा हि विपाकांतानि कर्माणि फलावसानत्वादीह्यादिवत् । तेषामन्यथा नित्यत्वानुषंगात् । न च नित्यानि कर्माणि नित्यं तत्फलानुभवनप्रसंगात् । यत्र चात्मविशेषे
अनागतकर्मबंधहेत्वभावादपूर्वकर्मानुत्पत्तिस्तत्र पूर्वोपात्तकर्मणां यथाकालमुपक्रमाच्च फलदानात्कात्स्न्येन निर्जरा प्रसिद्धैव । ततः कृत्स्नबंधहेत्वभावनिर्जरावत्त्वं साधनं प्रसिद्धं कृत्स्नकर्मविप्रमोक्षं साधयत्येव । ततस्तलक्षणं परं निःश्रेयसं व्यवतिष्ठते । तथाऽऽर्हत्यलक्षणमपरं सुनिश्चितासंभवबाधकप्रमाणत्वात् सुखादिवदिति सर्वज्ञत्वसिद्धौ निर्णेष्यते । श्रेयसो मार्गः श्रेयोमार्गो निःश्रेयसोपायो वक्ष्यमाणलक्षणस्तस्य संसिद्धिः संप्राप्तिः सम्यग्ज्ञप्तिर्वा, सा हि परमेष्ठिनः प्रसादाद्भवति मुनिपुंगवानां यस्मात्तस्मात्ते मुनिपुंगवाः सूत्रकारादयः शास्त्रस्यादौ तस्य परमेष्ठिनो गुणस्तोत्रमाहुरिति संबंधः । परमेष्ठी हि भगवान् परमोऽर्हन् तत्प्रसादात्परमागमार्थनिर्णयोऽपरस्य परमेष्ठिनो गणधरदेवादेः संपद्यते तस्माच्चापरपरमेष्ठिनः परमागमशब्दसंदर्भो द्वादशांग, इति परापरपरमेष्ठिम्यां परमागमार्थशब्दशरीरसंसिद्धिस्तद्विनेयमुख्यानां, तेभ्यश्च स्वशिष्याणामिति गुरुपूर्वक्रमात्सूत्रकाराणां परमेष्ठिनः प्रसादात्प्रधानभूतपरमार्थस्य श्रेयोमार्गस्य संसिद्धिरभिधीयते । प्रसादः पुनः परमेष्ठिनस्तद्विनेयानां प्रसन्नमनोविषयत्वमेव, वीतरागाणां तुष्टिलक्षणप्रसादासंभवात्कोपासंभववत् । तदाराधकजनैस्तु प्रसन्नेन मनसोपास्यमानो भगवान् प्रसन्न इत्यभिधीयते रसायनवत् । यथैव हि प्रसन्नेन मनसा रसायनमाव्य तत्फलमवाप्नुवंतः संतो रसायनप्रसादादिदमस्माकमारोग्यादिफलं समुत्पन्नमिति प्रतिपद्यते तथा प्रसन्नेन मनसा भगवंतं परमेष्ठिनमुपास्य तदुपासनफलं श्रेयोमार्गाधि
Page #10
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
गमलक्षणं प्रतिपद्यमानास्तद्विनेयजना “भगवत्परमेष्ठिनः प्रसादादस्माकं श्रेयोमार्गाधिगमः सम्पन्न" इति समनुमन्यते । ततः परमेष्ठिनः प्रसादासूत्रकाराणां श्रेयोमार्गस्य संसिद्धेर्युक्तं शास्त्रादौ परमेष्ठिगुणस्तोत्रं । मंगलाथै तदित्येके । तेऽप्येवं प्रष्टव्याः। किं साक्षान्मंगलार्थ परमेष्ठिगुणस्तोत्रं परंपरया वा । न तावत्साक्षात्तदनंतरमेव मंगलप्रसंगात् । कस्यचिदपि मंगलानवाप्त्ययोगात् । परंपरया चेत्, न किंचिदनिष्टं । परमेष्ठिगुणस्तोत्रादात्मविशुद्धिविशेषः प्रादुर्भवन् धर्मविशेष स्तोतुः साधयत्येवाऽधर्मप्रध्वंसं च । ततो मंगं सुखं समुत्पद्यत इति तद्गुणस्तोत्रं मंगलं, मंगं लातीति मंगलमिति व्युत्पत्तेः । मलं गालयतीति मंगलमिति वा, मलस्याधर्मलक्षणस्य परंपरया तेन प्रध्वंसनात् । केवलं सत्पात्रदानजिनेंद्रार्चनादिकमप्येवं मंगलमिति न तद्स्तोत्रमेव मंगलमिति नियमः सिद्धयति । स्यान्मतं मंगं श्रेयोमार्गसंप्राप्तिननितं प्रशमसुखं तल्लात्यस्मात्परमेष्ठिगुणस्तोत्रात्तदाराधक इति मंगलं परमेष्ठिगुणस्तोत्रं । मलं वा श्रेयोमार्गसंसिद्धौ विघ्ननिमित्तं पापं गालयतीति मंगलं तदिति । तदेतदनुकूलं नः परमेष्ठिगुणस्तोत्रस्य परममंगलत्वप्रतिज्ञानात् । तदुक्तं
" आदौ मध्येऽवसाने च मंगलं भाषितं बुधैः।
तजिनेंद्रगुणस्तोत्रं तदविघ्नप्रसिद्धये ॥" ननु चैवं भगवद्गुणस्तोत्रं स्वयं मंगलं न तु मंगलार्थमिति न मंतव्यं, स्वयं मंगलस्यापि मंगलार्थत्वोपपत्तेः । यदा हि मलगालनलक्षणं मंगलं तदा सुखादानलक्षणमंगलाय तद्भवतीति सिद्धं मंगलार्थ । यदापि सुखादानलक्षणं तन्मंगलं तदा पापगालनलक्षणमंगलाय प्रभवतीति कथं न मंगलार्थ । यदाप्येतदुभयलक्षणं मंगलं तदा तु मंगलांतरापेक्षया मंगलार्थ तदुपपद्यत एव आनिःश्रेयसप्राप्तेः परापरमंगलसंततिप्रसिद्धरित्यलं विस्त
Page #11
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचितारेण । शिष्टाचारपरिपालनार्थ नास्तिकतापरिहारार्थ निर्विघ्नतः शास्त्रपरिसमाप्त्यर्थं च परमेष्ठिगुणस्तोत्रमित्यन्ये । तेऽपि तदेव तथेति नियमयितुमसमर्था एव । तपश्चरणादेरपि तथात्वप्रसिद्धेः । न हि तपश्चरणादिः शिष्टाचारपरिपालनाद्यर्थ न भवतीति शक्यं वक्तुं । यदि पुनरनियमेन भगवद्गुणसंस्तवनं शिष्टाचारपरिपालनाद्यर्थमभिधीयते तदा तदेव शास्त्रादौ शास्त्रकारैः कर्तव्यमिति नियमो न सिद्धयति । न च क्वचित्तन्न क्रियते इति वाच्यं । तस्य शास्त्रे निबद्धस्यानिबद्धस्य वा वाचिकस्य मानसस्य वा विस्तरतः संक्षेपतो वा शास्त्रकारैरवश्यं करणात् । तदकरणे तेषां तत्कृतोपकारविस्मरणादसाधुत्वप्रसंगात् । साधूनां कृतस्योपकारस्याविस्मरणप्रसिद्धेः । ' न हि कृतमुपकारं साधवो विस्मरंति ' इति वचनात् । यदि पुनः स्वगुरोः संस्मरणपूर्वकं शास्त्रकरणमेवोपकारस्तद्विनेयानामिति मतं, तदा सिद्धं परमेष्ठिगुणस्तोत्रं, स्वगुरोरेव परमेष्ठित्वात् । तस्य गुरुत्वेन संस्मरणस्यैव तद्गुणस्तोत्रत्वसिद्धेरित्यलं विवादेन । किं पुनस्तत्परमेष्ठिनो गुणस्तोत्रं शास्त्रादौ सूत्रकाराः प्राहुरिति निगद्यते
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृतां । ज्ञातारं विश्वतत्वानां वंदे तद्गुणलब्धये ॥१॥ अत्र मोक्षमार्गादिपदानामर्थः पुरस्ताद्वक्ष्यते । वाक्यार्थस्तुच्यते । मोक्षमार्गस्य नेतारं कर्मभूभृतां भेत्तारं विश्वतत्त्वानां ज्ञातारमहं वंदे तद्गुणलब्ध्यर्थित्वात् । यो यद्गुणलब्ध्यर्थी स तं वंदमानो दृष्टः । यथा शस्त्रविद्यादिगुणलब्ध्यर्थी शस्त्रविद्यादिविदं तत्प्रणेतारं च । तथा चाहं मोक्षमार्गप्रणेतृत्वकर्मभभृद्धेतृत्वविश्वतत्त्वज्ञातृत्वगुणलब्ध्यर्थी, तस्मान्मोक्षमार्गस्य नेतारं कर्मभूभृतां भेत्तारं विश्वतत्त्वानां ज्ञातारं वंदे इति शास्त्रकारः शास्त्रप्रारंभे श्रोता तस्य व्याख्याता वा भगवंतं परमेष्ठिनं परमपरं
Page #12
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
च मोक्षमार्गप्रणेतृत्वादिभिर्गुणैःसंस्तौति । तत्प्रसादाच्छ्योमार्गस्य संसिद्धेः समर्थनात् । किमर्थं पुनरिदं भगवतोऽसाधारणं विशेषणं मोक्षमार्गप्रणेतृत्वं कर्मभूभृद्भेतृत्वं विश्वतत्त्वज्ञातृत्वं चात्र प्रोक्तं भगवद्भिरित्याह
इत्यसाधारणं प्रोक्तं विशेषणमशेषतः । परसंकल्पिताप्तानां व्यवच्छेदप्रसिद्धये ॥ ३ ॥
परैवैशेषिकादिभिः संकल्पिताः परसंकल्पितास्ते च ते आप्ताश्च परसंकल्पिताप्ता महेश्वरादयः तेषामशेषतो व्यवच्छेदप्रसिद्धयर्थ यथोक्तमसाधारणं विशेषणमाचार्यैः प्रोक्तमिति वाक्यार्थः । न हीदमीश्वरकपिलसुगतादिषु संभवति बाधकप्रमाणसद्भावात् । भगवत्यहत्येव तत्सद्भावसाधनाच्चासाधारणविशेषणमिति वक्ष्यामः । ननु चेश्वरादीनामप्याप्तत्वे किं दृषणं येन तद्व्यवच्छेदार्थमसाधारणं विशेषणं प्रोच्यते, किं वान्ययोगव्यवच्छेदान्महात्मनि परमेष्ठिनि निश्चिते प्रतिष्ठितं स्यादित्यारेकायामिदमाह
अन्ययोगव्यवच्छेदानिश्चिते हि महात्मनि । तस्योपदेशसामर्थ्यादनुष्ठानं प्रतिष्ठितं ॥४॥
भवेदिति क्रियाऽध्याहारः। ननु चात्रान्येषामन्ययोगव्यवच्छेदाभावेऽपि भगवतः परमेष्ठिनस्तत्त्वोपदेशादनुष्ठानं प्रतिष्ठामियत्येव तेषामविरुद्धभाषित्वादिति चेत् न । परस्परविरुद्धसमयप्रणयनात् तत्त्वनिश्चयायोगात् तदन्यतमस्याप्युपदेशप्रामाण्यानिश्चयाद्नुष्ठानप्रतिष्ठानुपपत्तेः । ननु मोक्षोपायानुष्ठानोपदेशमात्रे नेश्वरादयो विप्रपद्यते ततोऽहंदुपदेशादिवेश्वराद्युपदेशादपि नानुष्ठानप्रतिष्ठानुपपन्ना यतस्तद्वयवच्छेदेन परमेष्ठी निश्चीयत इति कश्चित् । सोऽपि न विशेषज्ञः सम्यम्मिथ्योपदेशविशेषाभावप्रसंगात् । स्यान्मतं “वैशेषिकैरभिमतस्याप्तस्य निःश्रेयसोपायानुष्ठानोपदेशस्तावत्समी
Page #13
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
चीन एव बाधकप्रमाणाभावात् । श्रद्धाविशेषोपगृहीतं हि सम्यग्ज्ञानं वैराग्यनिमित्तं परां काष्ठामापन्नमत्यनिःश्रेयसहेतुरित्युपदेशः । तत्र श्रद्धाविशेषस्तावदुपादेयेषूपादेयतया हेयेषु हेयतयैव श्रद्धानं । सम्यग्ज्ञानं पुनयथावस्थितार्थाधिगमलक्षणं, तद्धेतुकं च वैराग्यं रागद्वेषप्रक्षयः एतदनुष्ठानं च तद्भावनाभ्यासस्तस्यैतस्य निःश्रेयसोपायानुष्ठानस्योपदेशो न प्रत्यक्षेण बाध्यते जीवन्मुक्तेः, तत एव प्रत्यक्षतः कैश्चित् (केषांचित्) स्वयं संवेदनात् । परैः संहर्षायासविमुक्तेरनुमीयमानत्वात् । जीवन्नेव हि विद्वान् संहर्षायासाभ्यां विमुच्यत इत्युपदेशाच्च नानुमानागमाभ्यां बाध्यते । मीवन्मुक्तिवत् परममुक्तेरप्यत एवानुष्ठानात् संभावनोपपत्तेः । नचान्यप्रमाणं बाधकं तदुपदेशस्य तद्विपरीतार्थव्यवस्थापकत्वाभावादिति” तदपि न विचारक्षमं । श्रद्धादिविशेषविषयाणां पदार्थानां यथावस्थितार्थत्वासंभवात् । द्रव्यादयो हि षट्पदास्तावदुपादेयाः सदात्मानः प्रागभावादयश्वासदात्मानस्ते च यथा वैशेषिकैावण्यंते तथा न यथार्थतया व्यवतिष्ठते तद्ग्राहकप्रमाणाभावात् । द्रव्यं हि गुणादिभ्यो भिन्नमेकं, गुणश्वेतरेभ्यो भिन्न एकः, कर्म चैकमितरेभ्यो भिन्नं, सामान्यं चैकं, विशेषश्चैकः पदार्थः समवायवत् यद्यभ्युपगम्यते तदा द्रव्यादयः षट्पदार्थाः सिद्धचेयुः । न च द्रव्यपदस्यैकोऽर्थः परैरिष्यते गुणपदस्य कर्मपदस्य सामान्यपदस्य विशेषपदस्य च, यथा समवायपदस्यैकः समवायोऽर्थः इति कथं षट्पदार्थव्यवस्थितिः । स्यान्मतं," पृथिव्यप्तेनोवाय्वाकाशकालदिगात्ममनांसि नव द्रव्याणि द्रव्यपदस्यार्थ" इति कथमेको द्रव्यपदार्थः? “सामान्यसंज्ञाभिधानादिति" चेत् न सामान्यसंज्ञायाः सामान्यविषयत्वात् । तदर्थस्य सामान्यपदार्थत्वे ततो विशेषेष्वप्रवृत्तिप्रसंगात् । * द्रव्यपदा
* सामान्यरूप-द्रव्यपदार्थ
Page #14
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
र्थस्यैकस्यासिद्धेश्च । पृथिव्यादिषु हि द्रव्यमिति संज्ञा द्रव्यत्वसामान्यसंबंधनिमित्ता। तत्र द्रव्यत्वमेकं न द्रव्यं किंचिदेकमस्ति । द्रव्यलक्षणमेकमिति चेत् तत्किमिदानी द्रव्यपदार्थोऽस्तु ? न चैतद्युक्तं लक्ष्यस्य द्रव्यस्याभावे तल्लक्षणानुपपत्तेः । पृथिव्यादीनि लक्ष्याणि क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणं यदि प्रतिज्ञायते, तदानेकत्र लक्ष्ये लक्षणं कथमेकमेव प्रयुज्यते प्रतिव्यक्तिभेदात् । न हि यदेव पृथिव्यां द्रव्यलक्षणं तदेवोदकादिष्वस्ति तस्यासाधारणरूपत्वात् । यदि "पुनद्रव्यलक्षणं पृथिव्यादीनां गुणादिभ्यो व्यवच्छेदकतया तावदसाधारणो धर्मःपृथिव्यादिषु नवस्वपि सद्भावात्साधारणः कथमन्यथातिव्याप्त्यव्याप्ती लक्षणस्य निराक्रियते। सकललक्ष्यवस्तुषु हि व्यापकस्य लक्षणस्याव्याप्तिपरिहारस्तदलक्ष्येभ्यश्च व्यावृत्तस्यातिव्याप्तिपरिहारः सकलैर्लक्ष्यलक्षणज्ञैरभिधीयते नान्यथेति" मतिः, तदापि नैको द्रव्यपदार्थः सिद्धयति । द्रव्यलक्षणादन्यस्य लक्ष्यस्य द्रव्यस्यैकस्यासंभवात्। "नवापि पृथिव्यादीनि द्रव्याण्येकलक्षणयोगादेको द्रव्यपदार्थ" इति चेन्न, तथोपचारमात्रप्रसगात् । पुरुषो यष्टिरिति, यथा यष्टिसाहचर्याद्धि पुरुषो यष्टिरिति कथ्यते न पुनः स्वयं यष्टिरित्युपचारः प्रसिद्ध एव तथा पृथिव्यादिरनेकोऽपि स्वयमेकलक्षणयोगादेक उपचर्यते न तु स्वयमेक इत्यायातं । न च लक्षणमप्येकं पृथिव्यादिषु पंचसु क्रियावत्स्वेव क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणस्य भावात् निःक्रियेष्वाकाशकालदिगात्मसु क्रियावत्त्वस्याभावात् । गुणवत्समवायिकारणमित्येतावन्मात्रस्य ततोऽन्यस्य द्रव्यलक्षणस्य सद्भावात् लक्षणद्वयस्य प्रसिद्धेः । तथा च द्रव्यलक्षणद्वययोगात् द्वावेव द्रव्यपदार्थों स्यातां । यदि पुनर्द्वयोरपि द्रव्यलक्षणयोर्द्रव्यलक्षणत्वाविशेषादेकं द्रव्यलक्षणमित्युच्यते तदापि किं तद्र्व्यलक्षण
Page #15
--------------------------------------------------------------------------
________________
१०
श्रीविद्यानंदिस्वामिविरचिता
murarmammmmmmmmm
योर्द्रव्यलक्षणत्वमेकं न तावत्सामान्यं तस्य द्रव्यगुणकर्माश्रयत्वात् । न चैते द्रव्यलक्षणे द्रव्ये, स्वेष्टविघातात् । नापि गुणौ, द्रव्याश्रयी अगुणवान् संयोगविभागेष्वप्यकारणमनपेक्ष इति गुणलक्षणाभावात् । प्रत्ययात्मकत्वात्तयोर्गुणत्वमिति चेत् न । प्रत्ययात्मनोर्लक्षणयोः पृथिव्यादिष्वसंभवात् तयोस्तदसाधारणधर्मत्वासंभवादेतेनाभिधानामनोर्द्रव्यलक्षणयोर्गुणत्वं प्रत्याख्यातं । नापि ते कर्मणी । परिस्पंदात्मकत्वासंभवादेकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणस्याभावाच्च । तयोरेकद्रव्यत्वे नवविधत्वप्रसंगाद्रव्यलक्षणस्य कुतो द्वित्वमेकत्वं वा व्यवतिष्ठते । यतो द्रव्यलक्षणत्वमेकं तत्र प्रवर्तमानमेकत्वं व्यवस्थाफयेत्तथोपचरितोपचारप्रसंगश्च द्रव्यलक्षणत्वेनैकेन योगाद्रव्यलक्षणयोरेकत्वादेकं द्रव्यलक्षणं, तेन चोपचरितेन द्रव्यलक्षणेनैकेन योगात्पृथिव्यादीन्येको द्रव्यपदार्थ, इति कुतः पारमार्थिको द्रव्यपदार्थः कश्चिदेकः सिद्धयेत्। यदप्यभ्यधायि वैशेषिकैः पृथिव्यादीनां नवानां द्रव्यत्वेनैकेनाभिसंबंधादेकत्वमिति द्रव्यं नामैकः पदार्थ इति तदपि न युक्तं । परमार्थतो द्रव्यपदार्थस्यैकस्यासिद्धेः तस्योपचारादेव प्रसिद्धेः । एतेन चतुर्विशतिगुणानां गुणत्वेनैकेनाभिसंबंधादेको गुणपदार्थः, पंचानां च कर्मणां कर्मत्वेनैकेनाभिसंबंधादेकः कर्मपदार्थ इत्येतत्प्रत्याख्यातं । तथा वास्तवगुणकर्मपदार्थान्यवस्थितेः कथं चैवं सामान्यपदार्थ एकः सिद्धयेद्विशेषपदार्थो वा समवायपदार्थो वा (इव)। परापरसामान्ययोः सामान्यांतरेणैकेनाभिसंबंधायोगाद्विशेषाणां चेति समवाय एवैकः पदार्थः स्यात् । यदि पुनर्यथेहेदमिति प्रत्ययाविशेषाद्विशेषप्रत्ययाभावादेकः समवायः तथा द्रव्यमिति प्रत्ययाविशेषादेको द्रव्यपदार्थः स्यात् गुण इति प्रत्ययाविशेषाद् गुणपदार्थः कर्मेति प्रत्ययाविशेषात्कर्मपदार्थः सामान्यमिति प्रत्ययाविशेषात्सामान्यपदार्थः
Page #16
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
११
विशेष इति प्रत्ययाविशेषाद्विशेषपदार्थ इत्यभिधीयते, तथापि वैशेषिकतंत्रव्याघातो दुःशक्यः परिहर्तुं स्याद्वादिमतस्यैवं प्रसिद्धेः । स्याद्वादिनां हि शुद्ध संग्रहनयात्सत्प्रत्ययाविशेषाद्विशेषलिंगाभावादेकं सन्मात्रं तत्त्वं शुद्धं द्रव्यमिति मतं । तथैवाशुद्धसंग्रहनयादेकं द्रव्यमेको गुणादिरिति, व्यवहारनयात्तु यत्सत्तद् द्रव्यं पर्यायो वेति भेदः । यद्द्रव्यं तज्जीवद्रव्यमजीवद्रव्यं च यश्च पर्यायः सोऽपि परिस्पंदात्मकोऽपरिस्पंदात्मकश्चेति सोऽपि सामान्यात्मको विशेषात्मकश्चेति । स च द्रव्यादविष्वग्भूतो विष्वग्भूतो वेति यथा प्रतीतिर्निश्चीयते सर्वथा बाधकाभावात् । वैशेषिकाणां तु तथाऽभ्युपगमो व्याहत एव तंत्रविरोधात् । न हि तत्तंत्रे सन्मात्रमेव तत्त्वं सकलपदार्थानां तत्रैवांतर्भावादिति नयोऽस्ति । स्यान्मतं " द्रव्यपदेन सकलद्रव्यव्यक्तिभेदप्रभेदानां संग्रहादेको द्रव्यपदार्थः गुण इत्यादिपदेन चैकेन गुणादिभेदप्रभेदानां संग्रहाद्गुणादिरप्येकैकपदार्थो व्यवतिष्ठते ' विस्तरेणोपदिष्टानामर्थानां तत्वसिद्धये । समासेनाभिधानं यत्संग्रहं तं विदुर्बुधाः इति । पदार्थधर्मसंग्रहः प्रवक्ष्यत इत्यत्र पदार्थसंग्रहस्य धर्मसंग्रहस्य चैवं व्याख्यानादस्त्येव तथाऽभिप्रायो वैशेषिकाणामिति” तदप्यविचारितरम्यं । परमार्थतस्तथैकैकस्य द्रव्यादिपदार्थस्य प्रतिष्ठानुपपत्तेः । तस्यैकपदविषयत्वेनैकत्वोपचारात् । न चोपचरितपदार्थ संख्याव्यवस्थायां पारमार्थिकी पदार्थसंख्या समवतिष्ठतेऽतिप्रसंगात् । न चैकपदवाच्यत्वेन तात्विकमेकत्वं सिद्धयति व्यभिचारात्सेनावनादिपदेन हस्त्यादिधवादिपदार्थस्यानेकस्य वाच्यस्य प्रतीतेः । ननु “ सेनापदवाच्य एक एवार्थः प्रत्यासत्तिविशेषः । " संयुक्तसंयोगाल्पीयस्त्वलक्षणो हस्त्यादीनां प्रतीयते, वनशब्देन च धवादीनां तादृशप्रत्यासत्तिविशेष इत्येकपदवाच्यत्वं न तात्त्विकीमेकतां व्यभिचरति । तथा चैवमुच्यते द्रव्यमित्येकः पदार्थः एकपदवाच्यत्वात् यद्य
*
Page #17
--------------------------------------------------------------------------
________________
१२
श्रीविद्यानंदिस्वामिविरचिता
देकपदवाच्यं तत्तदेकपदार्थो यथा सेनावनादिस्तथा च द्रव्यमेकपदवाच्यं तस्मादेकः पदार्थः । एतेन गुणादिरप्येकः पदार्थः प्रसिद्धोदाहरणसाधर्म्यात्साधितो वेदितव्य" इति कश्चित् । सोऽपि न विपश्चित् । सेनाशब्दादनेकत्र हस्त्याद्यर्थे प्रतीतिप्रवृत्तिप्राप्तिसिद्धेः । वनशब्दाच्च धवखदिरपलाशादावनेकत्रार्थे । यत्र हि शब्दात्प्रतीतिप्रवृत्तिप्राप्तयः समधिगम्यंते स शब्दस्यार्थः प्रसिद्धस्तथा वृद्धव्यवहारात् । न च सेनावनादिशब्दात्प्रत्यासत्तिविशेषे प्रतीतिप्रवृत्तिप्राप्तयोऽनुभूयते येन स तस्यार्थः · स्यात् । प्रत्यासत्तिविशिष्टा हस्त्यादयो धवादयो वा सेनावनादिशब्दानामर्थ इति चेत्सिद्धस्तर्ह्येकपदवाच्योऽनेकार्थः । तेन च कथमेकपदवाच्यत्वं न व्यभिचरेत् । तथा गौरिति पदेनैकेन पश्वादेर्दशप्रकारस्यैका * दशप्रकारस्य वा वाच्यस्य दर्शनाच्च व्यभिचारी हेतुः । कश्चिदाह न गौरित्येकमेव पदं पश्वादेरनेकस्यार्थस्य वाचकं तस्य प्रतिवाच्यभेदादन्यएव हि गौरिति शब्दः पशोर्वाचकोऽन्यश्च दिगादेः अर्थभेदवच्छब्दभेदव्य वस्थितेः । अन्यथा सकलपदार्थस्यैकपदवाच्यत्वप्रसंगादिति । तस्याप्यनिष्टानुषंगः स्यात् । द्रव्यमिति पदस्याप्यनेकत्वप्रसंगात् । पृथिव्याद्यनेकार्थवाचकत्वात् अन्यदेव हि पृथिव्यां द्रव्यमिति पदं प्रवर्तते । अन्यदेवास तेजसि वायावाकाशे काले दिश्यात्मनि मनसि चेत्येकपदवाच्यत्वं द्रव्यपदार्थस्यासिद्धं स्यात् । ननु द्रव्यत्वाभिसंबंध एको द्रव्यपदस्यार्थो नानेकः पृथिव्यादिः तस्य पृथिव्यादिशब्दवाच्यत्वात् । तत एकमेव द्रव्यपदं नानेकमिति चेत्, किमिदानीं द्रव्यत्वाभिसंबंधो द्रव्यपदार्थः स्यात् ? न चासौ द्रव्यपदार्थस्तस्य द्रव्यत्वोपलक्षितसमवाय पदार्थत्वात् । एतेन गुणत्वाभिसंबंधो गुणपदस्यार्थः कर्मत्वाभिसंबंधः कर्मपदस्येत्येतत्प्रतिन्यूढं गुणत्वाभिसंबंधस्य गुणत्वोपलक्षितसमवाय पदार्थत्वात्
-
Page #18
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
कर्मत्वाभिसंबंधस्य च कर्मत्वोपलक्षितसमवायपदार्थस्य कथनात् । न चैवं सामान्यादिपदार्थः सिद्धयति । सामान्यादिषु सामान्यांतराभिसंबंधस्यासंभवादित्युक्तं प्राक् । एतेन पृथिवीत्वाद्यभिसंबंधात्पृथिवीत्यादिशब्दार्थस्य व्याख्यानं प्रत्याख्यातं । न हि पृथिवीत्वाभिसंबंधः पृथिवीशब्दवाच्यः । पृथिवीत्वोपलक्षितस्य समवायस्य पृथिवीत्वाभिसंबंधस्य पृथिवीशब्देनावचनात् । द्रव्यविशेषस्य पृथिवीशब्देनाभिधानाददोष इति चेत् । कःपुनरसौ वृक्षक्षपादिपृथिवीभेदव्यतिरिक्तः पृथिवीद्रव्यविशेषः । पृथिवीति पदेन संगृह्यमाण इति चेत् । कथं पुनः पृथिवीपदेनैकेनानेकार्थः संगृह्यते ? द्रव्यादिपदेनेवेति दुरवबोधं । कश्चायं संग्रहो नाम ? शब्दात्मकः प्रत्ययात्मकोऽर्थात्मको वा । न तावच्छब्दात्मकः शब्देनानंतानां द्रव्यादिभेदप्रभेदानां वा संग्रहीतुमशक्यत्वात् । तत्र संकेतस्य कर्तुमशक्यत्वादस्मदादेस्तदप्रत्यक्षत्वात् , क्रमेण युगपद्वा अननुमेयत्वाच्च । न चाप्रत्यक्षेऽननुमेये वा सर्वथाप्यप्रतिपन्नेऽर्थे संकेतः शक्यक्रियोऽस्ति । सर्वज्ञस्तत्र संकेतयितुं समर्थोऽपि नाऽसर्वज्ञान् संकेतं ग्राहयितुमलमिति कुतः संकेतः । न चासंकेतितेऽर्थे शब्दः प्रवर्तते यतः-संगृह्यतेऽनंताः पदार्थाः येन शब्देन स शब्दात्मा संग्रहः सिद्धयत्येव । मामच्छब्दात्मकः संग्रहः प्रत्ययात्मकस्त्वस्तु। संगृह्यते अर्था येन प्रत्ययेन स संग्रह इति व्याख्यानात्तेन तेषां संग्रहीतुं शक्यत्वादिति चेत् । कुतः पुनरसौ प्रत्ययः प्रत्यक्षाद्नुमानादागमाद्वा ? न तावदस्मदादिप्रत्यक्षात् । तस्यानंतद्रव्यादिभेदप्रभेदागोचरत्वात् । नापि योगिप्रत्यक्षात्। योगिन एव तत्संग्रहप्रसंगादस्मदादीनां तदयोगात् । न हि योगिप्रत्यक्षादस्मदादयः संप्रतियंति योगित्वप्रसंगात् । नाप्यनुमानादनंतद्रव्यादिभेदप्रभेदप्रतिबद्धानामेकशोऽनंतलिंगानामप्रतिपत्तेरस्मदाद्यप्रत्यक्षादनुमानांतरा
Page #19
--------------------------------------------------------------------------
________________
१४
श्रीविद्यामंदिस्वामिविरचिता
त्तलिंगप्रतिपत्तावनवस्थानुषंगात् प्रकृतानुमानोदयायोगात् । यदि पुनरागमात्संग्रहात्मकः प्रत्ययः स्यात्तदा युक्त्यानुगृहीतात्तयाऽननुगृहीताद्वा । न तावदाद्यः पक्षस्तत्र युक्तेरेवासंभवात् । नापि द्वितीयो युक्त्याऽननुगृहीतस्यागमस्य प्रामाण्यानिष्टेस्तदिष्टौ वाऽतिप्रसंगात् । न चाप्रमाणकः प्रत्ययः संग्रहस्तेन संगृहीतानामसंगृहीतकल्पनात् । यदि पुनरर्थात्मकः संग्रहोऽ भिधीयते तदा संगृह्यत इति संग्रहः संगृह्यमाणः सकलोऽर्थः स्यात् । स चासिद्ध एव तद्व्यवस्थापकप्रमाणाभावादिति कथं तस्य व्याख्यानं युज्यते यतः पदार्थधर्मसंग्रहः प्रवक्ष्यत इति प्रतिज्ञा साधीयसीष्यते । संग्रहाभावे च कस्य महोदयत्वं साध्यतेऽसिद्धस्य स्वयमन्यासाधनत्वोपपत्तेः । एतेन पदार्थधर्मसंग्रहः सम्यग्ज्ञानमिति व्याख्यानं प्रतिव्यढं । तदभावस्य समर्थनान्महतो निःश्रेयसस्याभ्युदयस्य चोदयोऽस्मादिति महोदय इत्येतद्व्याख्यानं वंध्यासुतसौभाग्यादिव्यावर्णनमिव प्रेक्षावतामुपहासास्पदमाभासते । तदेवं द्रव्यादिपदार्थानां यथावस्थितार्थत्वाभावान्न तद्विषय सम्यग्ज्ञानं नापि हेयोपादेयव्यवस्था । येनोपादेयेषूपादेयत्वेन हेयेषु च हेयत्वेन श्रद्धानं श्रद्धाविशेषस्तत्पूर्वकं च वैराग्यं तदभ्यासभावनानुष्ठानं निःश्रेयसकारणं सिध्येत् । तदसिद्धौ च कथमर्हदुपदेशादिवेश्वरोपदेशादप्यनुष्ठानं प्रतिष्ठितं स्यात् । ततस्तद्व्यवच्छेदादेव महात्मा निश्चेतन्यः । कपिलसुगतव्यवच्छेदादिवेति सूक्तमिदमन्ययोगव्यवच्छेदान्महात्मनि निश्चिते तदुपदेशसामर्थ्याद्नुष्ठानं प्रतिष्ठितं स्यादिति । एतेन 'प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः' इति परापरगुरुनमस्कारकरणमपास्तमीश्वरकणादयोराप्तवन्यवच्छेदात् । तयोर्यथाव्यवस्थितार्थज्ञानाभावात्तदुपदेशाप्रामाण्यादित्यलं विस्तरेण । विश्वतत्त्वानां ज्ञातुः कर्मभूभृतां भेत्तुरेव मोक्षमार्गप्रणयनोपपत्तेराप्तत्वनिश्चयात् ॥ ४ ॥
Page #20
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
तत्रासिद्धं मुनींद्रस्य भेत्तृत्वं कर्मभूभृतां । ये वदंति विपर्यासात्तान्प्रत्येवं प्रचक्ष्महे ॥ ५ ॥ तत्र तेषु मोक्षमार्ग प्रणेतृत्वकर्मभूभृद्भेत्तृत्वविश्वतत्त्वज्ञातृत्वेषु कर्मभूभृतां भेत्तृत्वमसिद्धं । मुनींद्रस्य विपर्यासात्तदभेत्तृत्वात् कर्मभूभृदसंभवात् सदाशिवस्य ये वदंति योगास्तान्प्रत्येवं वक्ष्यमाणप्रकारेण प्रचक्ष्महे प्रवदाम इत्यर्थः ॥ ५ ॥
१५
प्रसिद्धः सर्वतत्त्वज्ञस्तेषां तावत्प्रमाणतः । सदाविध्वस्तनिःशेषबाधकात्स्वसुखादिवत् ॥ ६ ॥ यदि नाम विश्वतत्त्वज्ञः प्रमाणात्सर्वदा विध्वस्तबाधकादात्मसुखादिवप्रसिद्धो यौगानां तथापि किमिष्टं भवतां सिद्धं भवेदित्याह
ज्ञाता यो विश्वतत्त्वानां स भेत्ता कर्मभूभृतां । भवत्येवान्यथा तस्य विश्वतत्त्वज्ञता कुतः ॥७॥ इति स्याद्वादिनाभस्माकं कर्मभूभृद्भेत्तृत्वं मुनीन्द्रस्येष्टं सिद्धं भवतीति वाक्यार्थः । तथाहि-भगवान् परमात्मा कर्मभूभृतां भेत्ता भवत्येव विश्वतत्त्वानां ज्ञातृत्वात् । यस्तु न कर्मभूभृतां भेत्ता स न विश्वतत्त्वानां ज्ञाता यथा रथ्यापुरुषः । विश्वतत्वानां ज्ञाता च भगवान् निर्बाधबोधसिद्धः । तस्मात् कर्मभूभृतां भेत्ता भवत्येवेति केवलव्यतिरेकी हेतुः साध्याऽन्यभिचारात् । न तावदयमसिद्धः प्रतिवादिनो वादिनो वा । ताभ्यामुभाभ्यां परमात्मनः सर्वज्ञत्वसाधनात् । नाप्यनैकांतिकः कार्त्स्यतो देशतो वा विपक्षे वृत्त्यभावात् । तत एव न विरुद्धः । नन्वयं कालात्ययापदिष्टस्तदागमबाधितपक्षनिर्देशानंतरं प्रयुक्तत्वात् । सदैव मुक्तः सदैवेश्वरः पूर्वस्याः कोटेर्मुक्तात्मनामिवाभावादित्यागमान्महेश्वरस्य सर्वदा कर्मणामभावप्रसिद्धेस्तद्धेत्तृत्वस्य बाधप्रसिद्धेः । सतां हि कर्मणां कश्चित्ता स्यान्न पुन -
Page #21
--------------------------------------------------------------------------
________________
१६
श्रीविद्यानंदिस्वामिविरचिता
wwmorna
रसतामित्यपरः । सोऽपि न परीक्षादक्षमानसः । तथा तद्बाधकागमस्याप्रमाणत्वात् तदनुग्राहकानुमानाभावात् । ननु च नेश्वराख्यः सर्वज्ञः कर्मभूभृतां भेत्ता सदा कर्ममलैरस्पृष्टत्वात् । यस्तु कर्मभूभृतां भेत्ता स न कर्ममलैः शश्वदस्पृष्टो यथेश्वरादन्यो मुक्तात्मा शश्वदस्पृष्टश्च कर्ममलैमंगवान्महेश्वरस्तस्मान्न कर्मभूभृतां भेत्तेत्यनुमानं प्रकृतपक्षबाधकागमानुग्राहकं । न चात्रासिद्धसाधनं । तथाहि-शश्वत्कर्ममलैः अस्पृष्टः परमात्माऽनुपायसिद्धत्वात् । यस्तु न तथा स नानुपायसिद्धो यथा सादिर्मुक्तात्मा । अनुपायसिद्धश्च सर्वज्ञो भगवान् तस्मात्कर्ममलैः शश्वदस्पृष्ट इत्यतोऽनुमानांतरात्तत्सिद्धेरिति वदंतं प्रत्याह
नास्पृष्टः कर्मभिः शश्वद्विश्वहश्वास्ति कश्चन । तस्यानुपायसिद्धस्य सर्वथाऽनुपपत्तितः॥८॥
नह्यनुपायसिद्धत्वे कुतश्चित्प्रमाणादप्रसिद्ध तबलात्कर्मभिः शश्वदस्पष्टत्वसाधनं सिद्धिमध्यास्ते । तदसिद्धौ च न कर्मभूभनेत्तृत्वाभावस्ततः सिध्यति । येनेदमनुमानं प्रस्तुतपक्षबाधकागमस्यानुप्राहक सिद्धयेत्तत्प्रामाण्यं साधयेत् । न चाप्रमाणभूतेनागमेन प्रकृतः पक्षो बाध्यते हेतुश्च कालात्ययापदिष्टः स्यात् । " नन्वीश्वरस्यानुपायसिद्धत्वमनादित्वात्साध्यते। तदनादित्वं च तनुकरणभुवनादौ निमित्तकारणत्वादीश्वरस्य । न चैतदसिद्धं । तथा हि-तनुभुवनकरणादिकं विवादापन्नं बुद्धिमन्निमित्तकं कार्यत्वात् । यत्कार्य तद्बुद्धिमन्निमित्तकं दृष्टं यथा वस्त्रादि । कार्य चेदं प्रकृतं तस्माद् बुद्धिमन्निमित्तकं । योऽसौ बुद्धिमांस्तद्धेतुः स ईश्वर इति प्रसिद्धं साधनं तदनादित्वं साधयत्येव । तस्य सादित्वे ततः पूर्वे तन्वाद्युत्पत्तिविरोधात् । तदुत्पत्तौ वा तद्बुद्धिमन्निमित्तत्वाभावप्रसंगात् । यदि पुनस्ततः पूर्वमन्यबुद्धिमन्निमित्तकत्वमिष्यते तदा ततोऽपि पूर्वमन्यबुद्धि
Page #22
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
मन्निमित्तकत्वमिष्यते तदा ततोऽपि पूर्वमन्यबुद्धिमन्निमित्तकत्वमित्यनादीश्वरसंततिः सिद्धयेत् । न चैषा युक्तिमती पूर्वेश्वरस्यानंतस्य सिद्धावुत्तरसकलेश्वरकल्पनावैयर्थ्यात् । तेनैव तन्वादिकार्यपरम्परायाः सकलायाः निर्माणात् । ततोऽपि पूर्वस्यानंतस्य महेश्वरस्य सिद्धौ तस्य वैयर्थ्यादन्यथा परस्परमिच्छाव्याघातप्रसंगादनेकेश्वरकारणत्वापत्तेश्व जगतः । सुद् रमपि गत्वाऽनादिरेक एवेश्वरोऽनुमंतव्यः । स पूर्वेषामपि गुरुः कालेनाविच्छेदादिति तस्य जगन्निमित्तत्वसिद्धरनादित्वमंतरेणानुपपत्तेरित्यनादित्वसिद्धिः । ततो न कर्मभूभृतां भेत्ता मुनींद्रः शश्वत्कर्मभिरस्पृष्टत्वात् । यस्तु कर्मभूभृतां भेत्ता स न शश्वत्कर्मभिरस्पृष्टः । यथोपायान्मुक्तः । शश्वत्कर्मभिरस्पृष्टश्च भगवांस्तस्मान्न कर्मभूभृतां भेत्ता । शश्वत्कर्मभिर. स्पृष्टोऽसावनुपायसिद्धत्वात् । यस्तु न तथा स नानुपायसिद्धः । यथा सोपायमुक्तात्मा अनुपायसिद्धश्चायं तस्मात्सदा कर्मभिरस्पृष्टः । अनुपायसिद्धोऽयमनादित्वात् । यस्तु न तथा स नानादिः । यथेतरो मुक्तात्मा । अनादिश्चायं तस्मादनुपायसिद्धः । अनादिरयं तनुकरणभुवनादिनिमित्तत्वात् । यस्तु नानादिः स न तनुकरणभुवनादिनिमित्तकः । यथाऽपरो मुक्तात्मा । तनुकरणभुवनादिनिमित्तं च भगवांस्तस्मादनादिः । तनुकरणभुवनादिनिमित्तं तु तस्य तन्वादेर्बुद्धिमन्निमित्तत्वसाधनात् । तन्वादयो बुद्धिमन्निमित्तकाः कार्यत्वात् । यत्कार्य तबुद्धिमन्निमित्तकं दृष्टं । यथा वस्त्रादि । कार्य च तन्वादयो विवादापन्नास्तस्माद् बुद्धिमन्निमित्तका इत्यनुमानमालाऽमला कर्मभूभृतां भेत्तारमपास्यत्येव । न चेदं कार्यत्वमसिद्धं तन्वादेर्वादिप्रतिवादिनोः कायत्वाभ्य नुज्ञानात् । नाप्यनैकांतिकं, कस्यचित्कार्यस्याबुद्धिमन्निमित्तस्यासंभवाद्वि
Page #23
--------------------------------------------------------------------------
________________
१८
श्रीविद्यानंदिस्वामिविरचिता
पेक्ष वृत्त्यभावात् । न चेश्वरशरीरेण व्यभिचारस्तदसिद्धे रीश्वरस्याशरीरत्वात् । नापीश्वरज्ञानेन । तस्य नित्यत्वात्कार्यत्वासिद्धेः । न चेश्वरेच्छया । तस्येच्छाशक्तेरपि नित्यत्वात् क्रियाशक्तिवत् । तत एव न विरुद्धं साधनं सर्वथा विपक्षे संभवाभावात् । न चायं कालात्ययापदिष्टो हेतुः पक्षस्य प्रत्यक्षादिप्रमाणेनाबाधितत्वात् । न हि तन्वादेर्बुद्धिमन्निमित्तत्वं प्रत्यक्षेण बाध्यते तस्यातींद्रियतया तदविषयत्वात् । नाप्यनुमानेन तस्य तद्विपरीतसाधनस्यासंभवात् । ननु तनुभुवनकरणादयो न बुद्धिमन्निमित्तका दृष्टकर्तृकप्रसादादिविलक्षणत्वादाकाशादिवदित्यनुमानं पक्षस्य बाधकमिति चेत् न । असिद्धत्वात् । सन्निवेशादिविशिष्टत्वेन दृष्टकर्तृकप्रासादाद्यविलक्षणत्वात्तन्वादीनां । यदि पुनरगृहीत समयस्य कृतबुद्धयुत्पादकत्वाभावात्तन्वादीनां दृष्टकर्तृकविलक्षणत्वमिष्यते तदा कृत्रिमाणामपि मुक्ता - फलादीनाम गृहीत समयस्य कृतबुद्धयनुत्पादकत्वादबुद्धिमन्निमित्तकत्वप्रसंगः। न च दृष्टकर्तृकत्वादृष्टकर्तृकत्वाभ्यां बुद्धिमन्निमित्तत्वेतरत्वसिद्धिः साधीयसी तदविनाभावाभावात् । न ह्यदृष्टकर्तृकत्वमबुद्धिमन्निमित्तत्वेन व्याप्तं जीर्णप्रासादादेरदृष्टकर्तृकस्यापि बुद्धिमन्निमित्तत्वासिद्धेरिति न दृष्टकर्तृकविलक्षणत्वमबुद्धिमन्निमित्तत्वं साधयेत् यतोऽनुमानबाधितः पक्षः स्यात् कालात्ययापदिष्टं च साधनमभिधीयेत । नाप्यागमेन प्रकृतः पक्षो बाध्यते तत्साधकस्यैवागमस्य प्रसिद्धेः । तथा हि " विश्वंतश्चक्षुरुत विश्वतोमुखो, विश्वतो बाहुरुत विश्वतः पौत्, बाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन् देव एकः " श्रुतेः सद्भावात् । तथा व्यासवचनं च । " अज्ञो जंतुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा "
1
१ अबुद्धिमन्निमित्तादिकं विपक्षः । २ कार्यज्ञानं विवादाध्यासितं । ३ वचनं । * व्यापारः । ५ व्यापित्वं । ६ पुण्यपापाभ्यां । ७ परमाणुभिः ।
Page #24
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
इति पक्षस्यानुग्राहकमेव न तु बाधक । ततो न कालात्ययापदिष्टो हेतुरबाधितपक्षनिर्देशानंतरं प्रयुक्तत्वात् । तत एव न सत्प्रतिपक्षः बाधकानुमानाभावादित्यनवयं कार्यत्वसाधनं तन्वादीनां बुद्धिमन्निमित्तत्वं साधयत्येव । यदप्युच्यते कैश्चिद् बुद्धिमान्नमित्तत्वसामान्ये साध्ये तन्वादीनां सिद्धसाधनमनेकतदुपभोक्तृबुद्धिमन्निमित्तत्वसिद्धेः । तेषां तददृष्टनिमित्तत्वात्तददृष्टस्य चेतनारूपत्वात् चेतनायाश्च बुद्धित्वाद् बुद्धिमन्निमित्तत्वसिद्धेरिति । तदप्यसारं । तन्वाद्युपभोक्तृप्राणिनामदृष्टस्य धर्माधर्मसंज्ञकस्य चेतनत्वासिद्धेरबुद्धित्वात् । अर्थग्रहणं हि बुद्धिश्चेतना न च धर्मोऽर्थग्रहणमधर्मो वा तयोर्बुद्धेरन्यत्वात् प्रयत्नादिवदिति नानेकबुद्धिमन्निमित्तत्वं तन्वादीनां सिद्धयति यतः सिद्धसाधनं बुद्धिमन्निमित्तत्वसामान्ये साध्येऽभिधार्यते ॥ ननु च वस्त्रादि सशरीरेणासर्वज्ञेन च बुद्धिमता कुविंदादिना क्रियमाणं दृष्टमिति तन्वादिकार्यमपि सशरीरासर्वज्ञबुद्धिमन्निमित्तं सिद्धयेदितीष्टविरुद्धसाधनाद्विरुद्धं साधनं । सर्वज्ञेनाशरीरेण क्रियमाणस्य कस्यचिद्वस्त्रादिकार्यस्यासिद्धेश्च साध्यविकलमुदाहरणमिति कश्चित् । सोऽपि न युक्तवादी तथा सर्वानुमानोच्छेदप्रसंगात्। तथा हि साग्निरयं पर्वतो धूमवत्त्वान्महानसवदित्यत्रापि पर्वतादौ महानसपरिदृष्टस्यैव खादिरपालाशाद्यग्निनाग्नि मात्रस्य सिद्धेविरुद्धसाधनाद्विरुद्धं साधनं स्यात् । तार्णाद्यग्निनाग्निमत्त्वस्य पर्वतादौ साध्यस्य महानसादावभावात् साध्यविकलमुदाहरणमप्यनुषज्येत । यदि पुनरग्निमत्त्वसामान्यं देशादिविशिष्टं पर्वतादौ साध्यत इति नेष्टविरुद्धं साधनं, नापि साध्यविकलमुदाहरणं महानसादावपि देशादिकिशिष्टस्याग्निमत्त्वस्य सद्भावादिति मतं तदा तन्वादिषु बुद्धिमन्निमित्तत्वसामान्यं तन्वादिस्वकार्यविनिर्माणशक्तिविशिष्टं साध्यत इति नेष्टविरुद्धसाधनो हेतुः । नापि साध्यविकलो दृष्टांतः स्वकार्यविनिर्माणशक्तिविशि
Page #25
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
ष्टस्य बुद्धिमन्निमित्तत्वसामान्यस्य साध्यस्य तत्र सद्भावात् । सिद्धे च बुद्धिमन्निमित्तत्वसामान्ये किमयं बुद्धिमान् हेतुः सशरीरोऽशरीरो वेति विप्रतिपत्तौ तस्याशरीरत्वं साध्यते सशरीरत्वे बाधकसद्भावात् । तच्छरीरं हि न तावन्नित्यमनादि सावयवत्वादस्मदादिशरीरवत् । नाप्यनित्यं सादि, तदुत्पत्तेः पूर्वमीश्वरस्याशरीत्वसिद्धेः । शरीरांतरेण सशरीरत्वेऽनवस्थाप्रसंगात् । तथा किमसौ सर्वज्ञोऽसर्वज्ञो वेति विवादे सर्वज्ञत्वं साध्यते तस्यासर्वज्ञत्वे समस्तकारकप्रयोक्तृत्वानुपपत्तेः तन्वादिकारणत्वाभावप्रसंगात् । तन्वादिसकलकारकाणां परिज्ञानाभावेऽपि प्रयोक्तृत्वे तन्वादिकार्यव्याघातप्रसंगात् । कुविंदादेर्वस्त्रादिकारकस्यापरिज्ञाने तद्वयाघातवत् । न चेश्वरकार्यस्य तनुकरणभुवनादेः कदाचिद्वयाघातः संभवति महेश्वरसमीहितकार्यस्य यथाकारकसंपतिं विचित्रस्यादृष्टादेरव्याघातदर्शनात् । यदप्यभ्यधायि तनुकरणभुवनादिकं नैकस्वभावेश्वरकारणकृतं विचित्रकार्यत्वात् । यद्विचित्रं कार्यं तन्नैकस्वभावकारणकृतं दृष्टं यथा घटपटमुकुटशकटादि, विचित्रकार्यं च प्रकृतं तस्मान्नैकस्वभावेश्वराख्यकारणकृतमिति तदप्यसम्यक् सिद्धसाध्यतापत्तेः। न ह्येकस्वभावमीश्वराख्यं तन्वादेर्निमित्तकारणमिष्यते तस्य ज्ञानशक्तीच्छाशक्तिक्रियाशक्तित्रयस्वभावत्वात् । तनुकरणभुवनाद्युपभोक्तृप्राणिगणादृष्टविशेषवैचित्र्यसहकारित्वाच्च विचित्रस्वभावोपपत्तेः घटपटमुकुटादिकार्यस्यापि तन्निदर्शनस्य तदुत्पादनविज्ञानेच्छाक्रियाशक्तिविचित्रतदुपकरणसचिवेनैकेन पुरुषेण समुत्पादनसंभवात्साध्यविकलताननुषंगात् तदेवं कार्यत्वं हेतुस्तनुकरण भुवनादेर्बुद्धिमन्निमित्तत्वं साधयत्येव सकलदोपरहितत्वादिति वैशेषिकाः समभ्यमंसत तेऽपि न समंजसवाचः । तनुकरणभुवनादयो बुद्धिमन्निमित्तका इति पक्षस्य व्यापकानुपलंभेन बाधितत्वात् १ कारकसंघातमित्यपि पाठः ।
२०
Page #26
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
२१
नामति व्यापारकाऽनु
व्यापकत्ववयव्यतिरेको कापलभेन
कार्यत्वादिहेतोः कालात्ययापदिष्टत्वाच्च । तथा हि तन्वादयो न बुद्धिमन्निमित्तकास्तदन्वयव्यतिरेकानुपलंभात् । यत्र यदन्वयव्यतिरेकानुपलभंस्तत्र न तन्निमित्तकत्वं दृष्टं यथा घटघटीशरावोदंचनादिषु कुर्विदाद्यन्वयव्यतिरेकाऽननुविधायिषु न कुविंदादिनिमित्तकत्वा बुद्धिमदन्वयव्यतिरेकाऽनुपलंभश्च तन्वादिषु, तस्मान्न बुद्धिमन्निमित्तकत्वमिति व्यापकानुपलंभः तत्कारणकत्वस्य तदन्वयव्यतिरेकोपलंभेन व्याप्तत्वात् कुलालकारणकस्य घटादेः कुलालान्वयव्यतिरेकोपलंभप्रसिद्धेः सर्वत्र वाधकाभावात् । तस्य तद्वयापकत्वव्यवस्थानात् । न चायमसिद्धस्तन्वादीनामीश्वरव्यतिरेकानुपलंभस्य प्रमाणसिद्धत्वात् । स हि न तावत्कालव्यतिरेकः शाश्वतिकत्वादीश्वरस्य कदाचिदभावासंभवात् । नापि देशव्यतिरेकः तस्य विभुत्वेन क्वचिदभावानुपत्तेरीश्वराभावे कदाचित्वचित्तन्वादिकार्याभावानिश्चयात् । स्यान्मतं महेश्वरसिसृक्षानिमित्तत्वात्तन्वादिकार्यस्यायमदोष इति । तदप्यसत्यं । तदिच्छाया नित्यानित्यविकल्पद्वयानतिवृत्तेः । तस्या नित्यत्वे व्यतिरेकासिद्धिः । सर्वदा सद्भावात्तन्वादिकार्योत्पत्तिप्रसंगात् । नन्वीश्वरेच्छाया नित्यत्वेऽप्यसर्वगतत्वात् व्यतिरेकः सिद्ध एव क्वचिन्महेश्वरसिसृक्षापाये तन्वादिकार्यानुत्पत्तिसंभवादिति चेन्न । तद्देशे व्यतिरेकाभावसिद्धेः । देशांतरे सर्वदा तदनुपपत्तेः कार्यानुदयप्रसंगात् । अन्यथा तदनित्यत्वापत्तेः। अनित्यैवेच्छास्त्विति चेत् सा तर्हि सिसक्षा महेश्वरस्योत्पद्यमाना सिसृक्षांतरपूर्विका यदीष्यते तदाऽनवस्थाप्रसंगः परापरसिसृक्षोत्पत्तावेव महेश्वरस्योपक्षीणशक्तिकत्वात्प्रकृततन्वादिकार्यानुदय एव स्यात् । यदि पुनः प्रकृततन्वादिकार्योत्पत्तौ महेश्वरस्य सिसृक्षोत्पद्यते सापि तत्पूर्वसिसृक्षात इत्यनादिसिसृक्षासंतति नवस्थादोषमास्कंदति सर्वत्रकार्यकारणसंतानस्यानादित्वसिद्धेबर्बीजांकुरादिवदित्यभिधीयते तदा युगपन्नानादेशेषु तन्वादिकार्यस्यो
Page #27
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
त्पादो नोपपद्येत यत्र यत्कार्योत्पत्तये महेश्वरसिसृक्षा तत्र तस्यैवकार्यस्योत्पत्ति घटनात् । न च यावत्सु देशेषु यांवंति कार्याणि संभूष्णूनि तावत्यः सिसृक्षास्तस्येश्वरस्य सकृदुपजायत इति वक्तुं शक्यं युगपदनेकेच्छाप्रादुर्भावविरोधादस्मदादिवत् । यदि पुनरेकैव महेश्वरसिसृक्षा युगपन्नानादेशकार्यजननाय प्रजायत इतीष्यते तदा क्रमतोऽनेकतन्वादिकार्योत्पत्तिविरोधस्तदिच्छायाः शश्वदभावात् । अथ मतमेतत् यत्र यदा यथा यत् कार्यमुपित्सुस्तत्र तदा तथा तदुत्पादनेच्छा महेश्वरस्यैकैव तादृशी समुत्पद्यते ततो नानादेशेष्वेकदेशे च क्रमेण युगपच्च तादृशमन्यादृशं च तन्वादिकार्य प्रादुर्भवन्नविरुध्यत इति, तदप्यसंभाव्यं क्वचिदेकत्र प्रदेशे समुत्पन्नायाः सिसृक्षाया दविष्टदेशेषु विभिन्नेषु नानाविधेषु नानाकार्यजनकत्वविरोधात् अन्यथा तदसर्वगतत्वेऽपि देशव्यतिरेकानुपपत्तेः । यदि हि यद्देशा सिसृक्षा तद्देशमेवं कार्यजन्म नाऽन्यदेशमिति व्यवस्था स्यात्तदा देशव्यतिरेकः सिद्धयेन्नान्यथेति सिसृक्षाया न व्यतिरेकोपलंभो महेश्वरवत् । व्यतिरेकाभावे च नान्वयनिश्चयः शक्यः कर्तुं, सतीश्वरे तन्वादिकार्याणां जन्मेत्यन्वयो हि पुरुषांतरेष्वपि समानः । तेष्वपि सत्सु तन्वादिकार्योत्पत्तिसिद्धेः । न च तेषां सर्वकार्योत्पत्तौ निमित्तकारणत्वं दिक्कालाकाशानामिव संमतं । परेषां सिद्धांतविरोधान्महेश्वरनिमित्तकारणत्ववैयर्थ्याच्च । यदि पुनस्तेषु पुरुषांतरेषु सत्स्वपि कदाचित्तन्वादिकार्यानुत्पत्तिदर्शनान्न तन्निमित्तकारणत्वं तदन्वयाभावश्चेति मतं तदेश्वरे सत्यपि कदाचित्तन्वादिकार्यानुत्पत्तेरीश्वरस्यापि तन्निमित्तकारणत्वं माभूत् । तदन्वयासिद्धिश्च तद्वदायाता । एतेनेश्वरसिसृक्षायां नित्यायां सत्यामपि तन्वादिकार्याजन्मदर्शनादन्वयाभावः साधितः कालादीनां च, तेषु सत्स्वपि सर्वकार्यानु त्पत्तेः । स्यान्मतं सामग्री जनिका कार्यस्य, नैकं कारणं ततस्तदन्वयव्य
Page #28
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
२३
तिरेकावेव कार्यस्यान्वेषणीयौ नैकेश्वरान्वयव्यतिरेकौ, सामग्री च तन्वादिकार्योत्पत्तौ तत्समवायिकारणमसमवायिकारणं निमित्तकारणं चेति । तेषु सत्सु कार्योत्पत्तिदर्शनादसत्सु चादर्शनादिति । सत्यमेतत्, केवलं यथा 1 समवाय्यसमवायिकारणानामनित्यानां धर्मादीनां च निमित्तकारणानामन्वयव्यतिरेकौ प्रसिद्धौ कार्यजन्मनि तथा नेश्वरस्य नित्य सर्वगतस्य तदिच्छाया वा नित्यैकस्वभावाया इति तदन्वयव्यतिरेकानुपलंभः प्रसिद्ध एव । न हि सामग्येकदेशस्यान्वयव्यतिरेकसिद्धौ कार्यजन्मनि सर्वसामम्न्यास्तदन्वयव्यतिरेकसिद्धिरिति शक्यं वक्तं । प्रत्येकं सामाम्येकदेशानां कार्योत्पत्तावन्वयव्यतिरेकनिश्चयस्य प्रेक्षापूर्वकारिभिरन्वेषणात् । पटाद्युत्पत्तौ कुविंदादिसामम्येकदेशवत् । यथैव हि तंतुतुरीवेमशलाकादीनामन्वयव्यतिरेकाभ्यां पटस्योत्पत्तिर्दृष्टा तथा कुर्विदान्वयव्यतिरेकाभ्यामपि । तदुपभोक्तजनादृष्टान्वयव्यतिरेकाभ्यामिवेति सुप्रतीतं । ननु सर्वकार्योत्पत्तौ
दिक्कालाकाशादिसामम्यन्वयव्यतिरेकानुविधानवदीश्वरादिसामग्यन्वयव्यतिरेकानुविधानस्य सिद्धेर्न व्यापकानुपलंभः सिद्ध इति चेत् न, दिक्कालाकाशादीनामपि नित्यसर्वगतनिरवयवत्वे क्वचिदन्वयव्यतिरेकानुविधानायोगादुदाहरणवैषम्यात् तेषामपि हि परिणामित्वे सप्रदेशत्वे च परमार्थतः स्वकार्योत्पत्तौ निमित्तत्वसिद्धेः ॥ नन्वेवमीश्वरस्यापि बुद्धयादिपरिणामैः स्वतोऽर्थांतरभूतैः परिणामित्वात् सकृत्सर्वमूर्तिमद्द्रव्यसंयोगनिबंधनप्रदेशसिद्धेश्व तन्वादिकार्योत्पत्तौ निमित्तकारणत्वं युक्तं तदन्वयव्यतिरेकानुंविधानस्य तन्वादेरुपपन्नत्वात् । स्वतोनर्थांतरभूतैरेव हि ज्ञानादिपरिणामैरीश्वरस्य परिणामित्वं नेष्यते स्वारभकावयवैश्च सावयवत्वं निराक्रियते । न पुनरन्यथा, विरोधाभावान्न चैवमनिष्टप्रसंगः द्रव्यांतरपरिणामैरपि परिणामित्वप्रसंगात् तेषां तत्रासमवायात् । ये हि यत्र समवयंति परिणा
1
Page #29
--------------------------------------------------------------------------
________________
२४
श्रीविद्यानंदिस्वामिविरचिता
मास्तैरेव तस्य परिणामित्वं । परमाणोश्च स्वारंभकावयवाभावेऽपि सप्रदेशत्वप्रसंगो नानिष्टापत्तये नैयायिकानां । परमाण्वंतरसंयोगनिबंधनस्यैकस्य प्रदेशस्य परमाणोर पीष्टत्वात् । न चोपचरितप्रदेशप्रतिज्ञा आत्मादिष्वेवं विरुद्धयते स्वारंभकावयवलक्षणानां प्रदेशानां तत्रोपचरितत्वप्रतिज्ञानात् । मूर्तिमद्रव्यसंयोगनिबंधनानां तु तेषां पारमार्थिकत्वात् अन्यथा सर्वमूर्तिमद्र्व्यसंयोगानां युगपद्भाविनामुपचरितत्वप्रसंगात् विभुद्रव्याणां सर्वगतत्वमप्युपचरितं स्यात् । परमाणोश्च परमाण्वंतरसंयोगस्य पारमार्थिकासिद्धद्वर्यणुकादिकार्यद्रव्यमपारमार्थिकमासज्येत । कारणस्योपचरितत्वे कार्यस्यानुपचरितत्वायोगादिति केचित्प्रचक्ष्यते । तेऽपि स्याद्वादिमतमंसिर्पविलप्रवेशन्यायेनानुसरंतोऽपि नेश्वरस्य निमित्तकारणत्वं तन्वादिकार्योत्पत्तौ समर्थयितुमीशते । तथाहि तदन्वयव्यतिरेकानुविधानस्य साधयितुमशक्यत्वादात्मांतरान्वयव्यतिरेकानुविधानवत् । यथैव ह्यात्मांतराणि तन्वादिकार्योत्पत्तौ न निमित्तकारणानि तेषु सत्सु भावादन्वयसिद्धावपि तच्छन्ये च देशे क्वचिदपि तन्वादिकार्यानुत्पत्तेर्व्यतिरेकसिद्धावपि च । तथेश्वरे सत्येव तन्वादिकार्योत्पत्तेस्तच्छ्न्ये प्रदेशे क्वचिदपि तदनुत्पत्तेस्तच्छ्न्यस्य प्रदेशस्यैवाभावादन्वयव्यतिरेकसिद्धावपीश्वरो निमित्तकारणं माभूत् सर्वथा विशेषाभावात् । स्यान्मतं महेश्वरस्य बुद्धिमत्त्वात् समस्तकारकपरिज्ञानयोगात्तत्प्रयोक्तृत्वलक्षणं निमित्तकारणत्वं तन्वादिकार्योत्पत्तौ व्यवतिष्ठते । न पुनरात्मांतराणामज्ञत्वात्तल्लक्षणनिमित्तकारणत्वाघटनादिति । तदपि न समीचीनं सर्वज्ञस्य समस्तकारकप्रयोक्तृत्वासिद्धेः योग्यंतरवत् । न हि योग्यंतराणां सर्वज्ञत्वेऽपि समस्तकारकप्रयोक्तृत्वमिष्यते । ननु तेषां समस्तपदार्थज्ञानस्यांत्यस्य योगाभ्यासविशेषजन्मनः सद्भावे सकलमिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखपरिक्षयात्परमनिःश्रेयससिद्धेः सम
Page #30
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
२५
स्तकारकप्रयोक्तृत्वासिद्धिः। न पुनरीश्वरस्य तस्य सदा मुक्तत्वात् सदैवे - श्वरत्वात् संसारिमुक्तविलक्षणत्वाच्च । न हि संसारिवदज्ञो महेश्वरः प्रतिज्ञायते नापि मुक्तवत् समस्तज्ञानैश्वर्यरहित इति तस्यैव समस्तकारकप्रयोक्तृत्वलक्षणं निमित्तकारणत्वं कायादिकार्योत्पत्तौ संभाव्यत इति केचित् । तेऽपि न विचारचतुरचेतसः । कायादिकार्यस्य महेश्वराभावे क्वचिदभावासिद्धेर्व्यतिरेकासंभवस्य प्रतिपादितत्वात् । निश्चितान्वयस्याप्यभावात् । ननु च यत्र यदा यथा महेश्वरसिसृक्षा संभवति तत्र तदा तथा कायादिकार्यमुत्पद्यते । अन्यत्रान्यदाऽन्यथा तदभावान्नोत्पद्यत इत्यन्वयव्यतिरेकौ महेश्वरसिसृक्षायाः कायादिकार्यमनुविधत्ते कुंभादिकार्यवत् कुलालादिसिसृक्षायाः । ततो नान्वयव्यतिरेकयोर्व्यापकयोरनुपलंभोऽस्ति यतो व्यापकानुलंभः पक्षस्य बाधकः स्यादिति चेन्न । तस्या महेश्वरसिस्ट - क्षायाः कायादिकार्योत्पत्तौ नित्यानित्यत्वविकल्पद्वयेऽपि निमित्तकारणत्वनिराकरणात् । तदन्वयव्यतिरेकानुविधानस्यासिद्धेर्व्यापकानुपलभः प्रसिद्ध एव पक्षस्य बाधक इत्यनुमानबाधितपक्षत्वात् कालात्ययापदिष्टहेतुत्वाच्च न बुद्धिमन्निमित्तत्वसाधनं साधीयः सिद्धं यतोऽनुपायसिद्धः सर्वज्ञो ऽनादिः कर्मभिरस्पृष्टः सर्वदा सिध्दचेदिति सूक्तं " तस्यानुपायसिद्धस्य सर्वथाऽनुपपत्तित " इति । योप्याह मोक्षमार्गप्रणीतिरनादिसिद्धसर्वज्ञमंतरेण नोपपद्यते सोपायसिद्धस्य सर्वज्ञस्यानवस्थानात् मोक्षमार्गप्रणीतेरसंभवात् अवस्थाने वा तस्य समुत्पन्नतत्त्वज्ञानस्यापि साक्षान्न तत्त्वज्ञानं मोक्षस्य कारणं तद्भावभावित्वाभावात्तत्वज्ञानात्पूर्वं मोक्षमार्गस्य प्रणयने तदुपदेशस्य प्रामाण्यायोगादतत्त्वज्ञवचनाद्रथ्यापुरुषवचनवत् । नापि प्रादुभूतसाक्षात्तत्त्वज्ञानस्यापि परमवैराग्योत्पत्तेः पूर्वमवस्थान संभवान्मोक्षमार्गप्रणीतिर्युक्ता । साक्षात्सकलतत्वज्ञानस्यैव परमवैराग्यस्वभावत्वात् । एतेन
Page #31
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
सम्यग्दर्शनज्ञानचारित्रप्रकर्षपर्यंत प्राप्तौ निःश्रेयसमिति वदतोऽपि न मोक्षमार्गप्रणयनसिद्धिरिति प्रतिपादितं बोद्धव्यं केवलज्ञानोत्पत्तौ क्षायिकसम्यग्दर्शनस्य क्षायिकचारित्रस्य च परमप्रकर्षपरिप्राप्तस्य सद्भावात् सम्यदर्शनादित्रयप्रकर्षपर्यंत प्राप्तौ परममुक्तिप्रसंगादवस्थानायोगान्मोक्षमार्गोपदेशासंभवात् तदाप्यवस्थाने सर्वज्ञस्य न तावन्मात्रकारणत्वं मोक्षस्य स्यात् तद्भावभावित्वाभावादेव ज्ञानमात्रवदिति तन्मतमप्यनूद्य विचार
यन्नाह
२६
प्रणीतिर्मोक्षमार्गस्य न विनाऽनादिसिद्धतः । सर्वज्ञादिति तत्सिद्धिर्न परीक्षासहा स हि ॥ ९॥ प्रणेता मोक्षमार्गस्य नाशरीरोऽन्यमुक्तवत् । सशरीरस्तु नाडकर्मा संभवत्यज्ञजंतुवत् ॥ १० ॥
यस्मादनादिसिद्धात्सर्वज्ञान्मोक्षमार्गप्रणीतिः सादिसर्वज्ञान्मोक्षमार्गप्रणयनासंभवभयादभ्यनुज्ञायते । सोऽशरीरो वा स्यात्सशरीरो वा गत्यंतरा - भावात् । न ताक्दशरीरो मोक्षमार्गस्य प्रणेता संभवति तदन्यमुक्तवद्वाक्प्रवृत्तेरयोगात् । नापि सशरीरः सकर्मकत्वप्रसंगादज्ञप्राणिवत् । ततो न अनादिसिद्धस्य सर्वज्ञस्य मोक्षमार्गप्रणीतिः परीक्षां सहते यतोऽसौ व्यवस्थाप्यते । ननु चाशरीरत्वसशरीरत्वयोर्मोक्षमार्गप्रणीतिं प्रत्यनंगत्वात्तत्त्वज्ञानेच्छा प्रयत्ननिमित्तत्वात्तस्याः कायादिकार्योत्पादनवत् । तन्मात्रनिबंधनत्वोपलब्धेः कार्योत्पादनस्य । तथा हि कुंभकारः कुंभादिकार्यं कुर्वन्न सशरीरत्वेन कुर्वीत सर्वस्य सशरीरस्य कुर्विदादेरपि कुंभादिकरणप्रसंगात् । नाप्यशरीरत्वेन कश्चित्कुंभादिकार्यं कुरुते मुक्तस्य तत्करणप्रसंगात् । किं तर्हि ? कुंभादिकार्योत्पादनज्ञानेच्छाप्रयत्नैः कुंभकारः कुंभादिकार्यं कुर्वन्नुपलभ्यते तदन्यतमापायेऽपि तदनुपपत्तेः ज्ञानापाये कस्यचिदिच्छतोऽपि
Page #32
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
कार्योत्पादनादर्शनात् । कार्योत्पादनेच्छापाये च ज्ञातवतोऽपि तदनुपलब्धेः । तत्र प्रयत्नापाये च कार्योत्पादनज्ञानेच्छावतोऽपि तदसंभवात् । ज्ञानादि -- त्रयसद्भावे च कार्योत्पत्तिदर्शनात् तत्त्वज्ञानेच्छाप्रयत्ननिबंधनमेव कार्य-करणमनुमंतव्यं । तदस्ति च महेश्वरे ज्ञानेच्छाप्रयत्नत्रयं । ततोऽसौ मोक्ष1 मार्गप्रणयनं कायादिकार्यवत्करोत्येव विरोधाभावादिति कश्चित् सोऽपि न युक्तवादी विचारासहत्वात् । सदा कर्मभिरस्पृष्टस्य क्वचिदिच्छा प्रयत्न-योरयोगात्तदाह
२७
1
न चेच्छा शक्तिरीशस्य कर्माभावेऽपि युज्यते । तदिच्छा वाऽनभिव्यक्ता क्रियाहेतुः कुतोऽज्ञवत् ॥ ११ ॥ न हि कुंभकारस्येच्छाप्रयत्नौ कुंभाद्युत्पत्तौ निःकर्मणःप्रतीतौ सकर्मण एव तस्य तत्प्रसिद्धेः । यदि पुनः संसारिणः कुंभकारस्य कर्मनिमितेच्छा सिद्धा सदामुक्तस्य तु कर्माभावेऽपीच्छाशक्तिः संभवति सोपायमुकस्येच्छापायात् न च तद्वदीश्वरस्य तदसंभव इति मतं । तदा सा महेश्वरेच्छाशक्तिरभिव्यक्तानभिव्यक्ता वा । न तावदभिव्यक्ता तदभिन्यंजकाभावात् तज्ज्ञानमेव तदभिव्यंजकमिति चेत् न, तस्य शश्वत्सद्भावादीश्वरस्य सदेच्छाभिव्यक्तिप्रसंगात् । न चैवं तस्याः कादाचित्कत्वात् । अन्यथा वर्षशतांते वर्षशतांते महेश्वरेच्छोत्पद्यते इति सिद्धांतविरोधात् । यदि पुनस्तन्वायुपभोक्तृप्राणिगणादृष्टं तदभिव्यंजकमिति मतिः तदा तददृष्टमीश्वरेच्छानिमित्तकमन्यनिमित्तकं वा । प्रथमपक्षे परस्पराश्रयदोषः सत्यामीश्वरेच्छाभिव्यक्तौ प्राणिनामदृष्टं सति च तददृष्टे महेश्वरेच्छाभिव्यक्तिरिति । स्यान्मतं प्राणिनामदृष्टं पूर्वेश्वरेच्छानिमित्तकं तदभिव्यक्तिश्च तत्पूर्वप्राण्यदृष्टनिमित्तात् तदपि तददृष्टं पूर्वेश्वरेच्छानिमित्तकमित्यबादिरियं कार्यकारणभावेन प्राणिगणादृष्टेश्वरेच्छाभिव्यक्त्योः संततिः ।
3
Page #33
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
"
ततो न परस्पराश्रयदोषो वीजांकुरसंततिवदिति । तदनुपपन्नं । एकाने - कप्राण्यदृष्टनिमित्तत्वविकल्पद्वयानतिक्रमात् । सा हीश्वरेच्छाभिव्यक्तियद्येकप्राण्यदृष्टनिमित्ता तदा तद्भोग्यकायादिकार्योत्पत्तावेव निमित्तं स्यात् न सकलप्राण्युपभोग्यकायादिकार्योत्पत्तौ तथा च सकृदने कप्राण्युपभोग्यकायादिकार्योपलब्धिर्न स्यात् । यदि पुनरनेकप्राण्यदृष्टनिमित्ता तदा तस्या नानास्वभावप्रसंगो नानाकायादिकार्यकरणात् । न ह्येकप्राण्युपभोग्यकायादिनिमित्तेनैकेन स्वभावेनेश्वरेच्छाभिव्यक्ता नानाप्राण्युपभोग्य कायादिका - र्यकरणसमर्था अतिप्रसंगात् । यदि पुनस्तादृश एवैकस्वभावो नानाप्राण्यदृष्टनिमित्तो येन नानाप्राण्युपभोग्य कायादिकार्याणां नानाप्रकाराणामीश्वरेच्छा निमित्तकारणं भवतीति मतं तदा न किंचिदनेकस्वभावं वस्तु सिद्धयेत् विचित्रकार्य करणैकस्वभावादेव भावाद्विचित्रकार्योत्पत्तिघटनात् । तथा च घटादिरपि रूपरसगंधस्पर्शाद्यनेकस्वभावाभावेऽपि रूपादिज्ञानमनेकंकार्यं कुर्वीत शक्यं हि वक्तुं तागेकस्वभावो घटादेर्येन चक्षुराद्यनेकसामग्रीसन्निधानादनेकरूपादिज्ञानजनननिमित्तं भवेदिति । कुतः पदार्थनानात्वव्यवस्था | प्रत्ययनानात्वस्यापि पदार्थैकत्वेऽपि भावाविरोधात् । न हि द्रव्यमेकः पदार्थः नानागुणादिप्रत्ययविशेषजननै कस्वभावो विरुध्यते ॥ यदि पुनः प्रत्ययविशेषादिकार्यभेदाद्द्रव्यगुणादिपदार्थनानात्वं व्यवस्थाप्यते तदा महेश्वरेच्छायाः सकृदने कप्राण्युपभोगयोग्यकायादिकार्यनानात्वान्नानास्वभावत्वं कथमिव न सिध्येत ॥ यदि पुनरीश्वरेच्छाया नानासहकारिण एव नानास्वभावास्तद्व्यतिरेकेण भावस्य स्वभावायोगादिति मतं तदा स्वभावतद्वतोर्भेदैकांताभ्युपगमः स्यात् तस्मिंश्च स्वभावतद्भावविरोधः सह्यविंध्यवदापनीपद्येत प्रत्यासत्तिविशेषान्नैवमिति चेत् कः पुनरसौ प्रत्यासत्तिविशेषः ? समवायिनां सहकारिणां समवायो
"
२८
Page #34
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
ऽसमवायिनां कार्यैकार्थसमवायः कारणैकार्थसमवायो वा निमित्तकारणानां तु कार्योत्पत्तावपेक्षा कर्तृसमवायिनी कर्मसमवायिनी वाऽपेक्षामाणा प्रत्यासत्तिरिति चेत् ईश्वरो दिक्कालाकाशादीनि च सर्वकार्याणामुत्पादककारण स्वभावत्वं प्रतिपद्येरन् तस्य तेषां च तदुत्पत्तौ निमित्तकारणत्वात् । तथा सकलप्राण्यदृष्टानां कायादिकार्यसमवाय्यसमवायिकारणानां च महेश्वरस्वभावत्वं दुर्निवारं कायादिकाय्र्योत्पत्तौ तत्सहकारित्वसिद्धेरिति सर्वमसमंजसमासज्येत नानास्वभावैकेश्वरतत्त्वसिद्धेः तथा च परमब्रम्हेश्वर इति नाममात्रं भिद्येत परमब्रह्मण एवैकस्य नानास्वभावस्य व्यवस्थितेः । स्यान्मतं कथमेकं ब्रह्म नानास्वभावयोगि भावांतराभावे भवेत्, भावांतरा - णामेव प्रत्यासत्तिविशिष्टानां स्वभावत्वादिति । तदप्यपेशलं । भावांत-राणां स्वभावत्वे कस्यचिदेकेन स्वभावेन प्रत्यासत्तिविशेषेण प्रतिज्ञाय-मानेन नानात्वविरोधात् । प्रत्यासत्तिविशेषैर्नानास्वभावैस्तेषां स्वभावत्वान्नानात्वे तेऽपि प्रत्यासत्तिविशेषाः स्वभावास्तद्वतोऽपरैः प्रत्यासत्तिवि-शेषाख्यैः स्वभावैर्भवेयुरित्यनवस्थाप्रसंगात् सुदूरमपि गत्वा स्वभाववतः स्वभावानां स्वभावांतरनिरपेक्षत्वे प्रथमेऽपि स्वभावाः स्वभावांतर निरपेक्षाः प्रसज्येरन् तथा च सर्वे सर्वस्य स्वभावा इति स्वभाव संकरप्रसंग: तं परिजिहीर्षता न स्वभावतद्वतोर्भेदैकां तोऽभ्युपगंतव्यः । तदभेदैकांते च स्वभावानां तद्वति सर्वात्मनानुप्रवेशात्तदेवैकं तत्त्वं परमब्रह्मेति निगद्यमानं न प्रमाणविरुद्धं स्यात् तदप्यनिच्छता स्वभावतद्वतोः कथंचित्तादात्म्यमेषितव्यं । तथा चेश्वरेच्छायाः नानास्वभावाः कथंचित्तादात्म्यमनुभवतोऽनेकां तात्मिकामीश्वरेच्छां साधयेयुः । तामप्यनिच्छतैकस्वभावेश्वरेच्छा प्रतिपत्तव्या, सा चैकेन प्राण्यदृष्टेनाभिव्यक्ता तदेकप्राण्युपभोगयोग्यमेव कायादिकार्यं कुर्यात् ततो न सकृदनेककायादिकार्योत्पत्तिरिति न प्राण्य
२९
Page #35
--------------------------------------------------------------------------
________________
३०
श्रीविद्यानंदिस्वामिविरचिता
दृष्टनिमित्तेश्वरेच्छाऽभिव्यक्तिः सिद्धयेत् । एतेन पदार्थातरनिमित्ताऽपीश्वरे. च्छाऽभिव्यक्तिरपास्ता । स्यान्मतं महेश्वरेच्छाऽनभिव्यक्तैव कार्यजन्मनि निमित्तं, कर्मनिबंधनाया एवेच्छायाः क्वचिदभिव्यक्ताया निमित्तत्वदर्शनात्तदिच्छायाः कर्मनिमित्तत्वाभावादिति । तदप्यसंबद्धं । कस्याश्चिदिच्छायाः सर्वथाऽनभिव्यक्तायाः क्वचित्कार्ये क्रियाहेतुत्वासिद्धेरज्ञनंतुवत् । कर्मामावे चेच्छायाः सर्वथाऽनुपपत्तेः । तथा हि विवादाध्यासितः पुरुषविशेषो नेच्छावान् निःकर्मत्वात् यो यो निःकर्मा स स नेच्छावान् यथा मुक्तात्मा निःकर्मा चायं तस्मान्नेच्छावानिति नेश्वरस्येच्छासंभवः तदभावे च न प्रयत्नः स्यात् तस्येच्छापूर्वकत्वात् तदभावे भावविरोधात् इति बुद्धीच्छाप्रयत्नमात्रादीश्वरो निमित्तं कायादिकार्योत्पत्तौ कुंभाधुत्पत्तौ कुंभकारवदिति न व्यवतिष्ठते । स्यादाकूतं ते, विवादापन्नः पुरुषविशेषः प्रकृष्टज्ञानयोगी सदैवैश्वर्ययोगित्वात् यस्तु न प्रकृष्टज्ञानयोगी नासौ सदैवैश्वर्ययोगी यथा संसारीमुक्तश्च,सदैवैश्वर्ययोगी च भगवान तस्मात्प्रकृष्टज्ञानयोगी सिद्धः सच प्राणिनां भोगभूतये कायादिकार्योत्पत्तौ सिसृक्षावान् प्रकृष्टज्ञानयोगित्वात् यस्तु न तथा स न प्रकृष्टज्ञानयोगी यथा संसारी मुक्तश्च, प्रकृष्टज्ञानयोगी चायं तस्मात्तथेति तस्येच्छावत्त्वसिद्धिः।तथा च प्रयत्नवानसौ सिसृक्षावस्वात्। यो यत्र सिसृक्षावान् स तत्र प्रयत्नवान् दृष्टः यथा घटोत्पत्तौ कुलालः। सिसक्षावांश्च तनुकरणभुवनादौ भगवान् तस्मात्प्रयत्नवानिति ज्ञानेच्छाप्रयत्नवत्त्वसिद्धेः निःकर्मणोऽपि सदाशिवस्याशरीरस्यापि तन्वादिकार्योत्पत्तौ निमित्तकारणत्वसिद्धर्मोक्षमार्गप्रणीतावपि तत्कारणत्वसिद्धिः बाधकाभावादिति । तदेतदप्यसमंजसं । सर्वथा निःकर्मणः कस्यचिदैश्वर्यविरोधात् । तथा हि विवादाध्यासितः पुरुषो नैश्वर्ययोगी निःकर्मकत्वात् यो यो निःकर्मा स स नैश्वर्ययोगी यथा मुक्तात्मा । निःकर्मा चायं तस्मान्नै
Page #36
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
३१
श्वर्ययोगी । नन्वेनोमलैरेवास्पृष्टत्वादनादियोगजधर्मेण योगादीश्वरस्य निः कर्मत्वमसिद्धमिति चेत्, न तर्हि सदामुक्तोऽसौ धर्माधर्मक्षयादेव मुक्तिप्रसिद्धेः । शश्वत्क्लेशकर्मविपाकाशयैरपरामृष्टत्वादनादियोगजधर्मसंबंधेऽपि जीवन्मुक्तेरविरोध एव वैराग्यैश्वर्यज्ञानसंबंधेऽपि तदविरोधवदिति चेत् तर्हि परमार्थतो मुक्तामुक्तस्वभावता महेश्वरस्याभ्युपगता स्यात् तथा चानेकांतसिद्धिर्दुर्निवारा । एतेनानादिबुद्धिमन्निमित्तत्वयोगादीश्वरस्य धर्मज्ञानवैराग्यैश्वर्ययोगात् शश्वत्क्लेशकर्मविपाकाशयैर परमृष्टत्वाच्च सदैव मुक्तत्वं सदैवेश्वरत्वं ब्रुवाणो नैकांतमभ्यनुजानातीति निवेदितं प्रतिपत्तव्यं । कथंचिन्मुक्तत्वस्य कथंचिदमुक्तत्वस्य च प्रसिद्धेः । ततोऽनेकांतात्मकत्वप्रसंगपरिजिहीर्षुणा सर्वथा मुक्त एवेश्वरः प्रवक्तव्यः तथा च सर्वथा निःकर्मत्वं तस्योर कर्तव्यमिति नासिद्धं साधनं । नाप्यनैकांतिकं विपक्षे वृत्त्यसिद्धेः । क्वचिदैश्वर्ययोगिनि त्रिदशेश्वरेत्यादौ सर्वथा निःकर्मत्वस्य वृत्त्यासिद्धेः तत एव न विरुद्धं । नापि कालात्ययापदिष्टं पक्षस्य प्रमाणेनाबाधनात् । न हि प्रत्यक्षतोऽस्मदादिभिरैश्वर्ययोगी कश्चिन्निःकमोंपलम्यते यतः प्रत्यक्षवाधितः पक्षः स्यात् । नाप्यनुमानतस्तत्र सर्वस्यानुमानस्य व्यापकानुपलंभेन बाधितपक्षस्य कालात्ययापदिष्टत्वसाधनात् । नाप्यागमतस्तस्योपलंभस्तत्र तस्य युक्त्याननुगृहीतस्य प्रामाण्यविरोधात् । तदनुग्राहिकाया युक्तेरसंभवादेव युक्त्यनुगृहीतस्यापि न तत्रागमस्य संभावना यतः प्रामाण्येनाबाध्यमानः पक्षो न सिद्धयेत्
तोश्च कालात्ययापदिष्टत्वपरिहारो न भवेत् । एतेन सत्प्रतिपक्षत्वं साधनस्य निरस्तं । प्रतिपक्षानुमानस्य निरवद्यस्य संभवाभावसाधनात् । तदेवमस्मादनुमानादैश्वर्यविरहसाधने महेश्वरस्येच्छाप्रयत्नाविरहोपि साधितः स्यात् धर्मविरहवत् । यथैव हि निःकर्मत्वमैश्वर्यविरहं साधयति तथेच्छा
Page #37
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिताप्रयत्नमपि तस्य तेन व्याप्तिसिद्धेः । कस्यचिदिच्छावतः प्रयत्नवतश्च परमैश्वर्ययोगिनोऽपींद्रादेनिःकर्मत्वविरोधसिद्धेः। ज्ञानशक्तिस्तु निःकर्मणोऽपि कस्यचिन्न विरुद्ध्यते चेतनात्मवादिभिः कैश्चिद्वैशेषिकासद्धांतमभ्युगच्छद्भिर्मुक्तात्मन्यपि चेतनायाः प्रतिज्ञानात् । चेतना च ज्ञानशक्तिरेव न पुनस्तद्वयतिरिक्तचिच्छक्तिरपरिणामिन्यप्रतिसंक्रमाऽदर्शितविषया शुद्धा चाऽनंता च यथा कापिलैरुपवर्ण्यते तस्याः प्रमाणविरोधात् तथा च महेश्वरस्य कर्मभिरस्पृष्टस्यापि ज्ञानशक्तिरशरीरस्यापि च मुक्तात्मन इव प्रसिद्धा तत्प्रसिद्धौ च ।
ज्ञानशक्त्यैव निःशेषकार्योत्पत्तौ प्रभुःकिल । सदेश्वर इति ख्यानेऽनुमानमनिदर्शनं ॥१२॥
न हि कश्चित्कस्यचित्कार्योत्पत्तौ ज्ञानशक्त्यैव प्रभुरुपलब्धो यतो विवादाध्यासितः पुरुषो ज्ञानशक्त्यैव सर्वकार्याण्युत्पादयति प्रभुत्वादित्यनुमानमनुदाहरणं न भवेत् । ननु साधोदाहरणाभावेऽपि वैधयॊदाहरणसंभवान्नाऽनुदाहरणमिदमनुमानं । तथा हि यस्तु ज्ञानशक्त्यैव न कार्यमुत्पादयति स न प्रभुः यथा संसारी कर्मपरतंत्र इति वैधम्र्येण निदर्शनं संभवत्येवेति न मंतव्यं । साधर्योदाहरणविरहेऽन्वयनिर्णयाभावाद्वयतिरेकनिर्णयस्य विरोधात् । तथा शक्रादेानेच्छाप्रयत्नविशेषैः स्वकार्य कुर्वतः प्रभुत्वेन व्यभिचाराच्च न हींद्रो ज्ञानशक्त्यैव स्वकार्यं कुरुते तस्येच्छाप्रयत्नयोरपि भावात् न चास्य प्रभुत्वमसिद्धं प्रभुत्वसामान्यस्य सकलामरविषयस्य स्वातंत्र्यलक्षणस्यापि सद्भावात् ॥ प्रतिवादिप्रसिद्धमपि निदर्शनमनूद्य निराकुर्वन्नाह
समीहामंतरेणापि यथा वक्ति जिनेश्वरः। तथेश्वरोऽपि कार्याणि कुर्यादित्यप्यपेशलं ॥ १३ ॥
Page #38
--------------------------------------------------------------------------
________________
आप्तपरीक्षा। सति धर्मविशेषे हि तीर्थकृत्त्वसमाह्वये ।.. बयाज्जिनेश्वरो मार्ग न ज्ञानादेव केवलात् ॥ १४ ॥ सिद्धस्यापास्तनिःशेषकर्मणो वागसंभवात् । विना तीर्थकरत्त्वेन नाना नार्थोपदेशना ॥१५॥
महेश्वरः समाहामंतरेणापि प्रयत्नं च ज्ञानशक्त्यैव मोक्षमार्गप्रणयनं तन्वादिकार्य च कुर्वीत महेश्वरत्वात् यथा प्रतिवादिप्रसिद्धो जिनेश्वरः प्रवचनोपदेशमिति प्रतिवादिप्रसिद्धमपि निदर्शनमनुमानस्य नोपपद्यते स्याद्वादिभिः प्रतिज्ञायमानस्य जिनेश्वरस्य ज्ञानशक्त्यैव प्रवचनलक्षणकार्यकरणासिद्धेः। सत्येव तीर्थकरत्वनामपुण्यातिशये दर्शनविशुद्धयादिभावनाविशेषनिबंधने समुत्पन्नकेवलज्ञानस्योदयप्राप्ते प्रवचनाख्यतीर्थकरणप्रसिद्धेः । प्रक्षीणाशेषकर्मणः सिद्धस्य वाक्प्रवृत्तरसंभवात्तीर्थकरत्वनामपुण्यातिशयापाये केवलिनोऽपि वाक्प्रसिद्धयसंभववत् । इति धर्मविशेषविशिष्ट एवोत्तमसंहननशरीरः केवली प्रवचनाख्यतीर्थस्य कर्ता प्रसिद्ध इति कथमसौ निदर्शनं महेश्वरस्यापि ।
तथा धर्मविशेषोऽस्य योगश्च यदि शाश्वतः। तदेश्वरस्य देहोऽस्तु योग्यंतरवदुत्तमः॥ १६ ॥
यस्य हि धर्मविशेषो योगविशेषश्च महर्षियोगिनः प्रसिद्धः तस्य देहोऽप्युत्तम एवायोगिजनदेहाद्विशिष्टः प्रसिद्धस्तथा महेश्वरस्यापि देहेनोत्तमेन भवितव्यं तमंतरेण धर्मविशेषस्य योगविशेषस्य वाऽनुपपत्तिरैश्वर्यायोगाद्वैराग्यायोगवत् । कुतो जगन्निमित्तकारणत्वं सिद्धचेदज्ञजंतुवन्मुक्तात्मवच्च । मतांतरमाशंक्य निराकुर्वन्नाहनिग्रहानुग्रहौ देहं स्वं निर्मायान्यदेहिनां। करोतीश्वर इत्येतन परीक्षाक्षम वचः ॥१७॥
Page #39
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
__कस्यचिद्दुष्टस्य निग्रहं शिष्टस्य चानुग्रहं करोतीश्वरः प्रभुत्वात् लोकप्रसिद्धप्रभवत् । न चैवं नानेश्वरसिद्धिः नानाप्रभूणामेकमहाप्रभुतंत्रस्वदर्शनात् । तथा हि विवादाध्यासिता नानाप्रभव एकमहाप्रभुतंत्रा एव नानाप्रभुत्वात् ये ये नानाप्रभवस्ते ते अत्रैकमहाप्रभुतंत्रा दृष्टाः यथा सामंतमांडलिकादय एकचक्रवर्तितंत्राः प्रभवश्चैते नानाचक्रवर्तीद्रादयः तस्मादेकमहाप्रभुतंत्रा एव योऽसौ महाप्रभुः स महेश्वर इत्येकेश्वरसिद्धिः। स च स्वदेहनिर्माणकरोऽन्यदेहिनां निग्रहानुग्रहकरत्वात् यो योऽन्यदेहिनां निग्रहानुग्रहकरः स स्वदेहनिर्माणकरो दृष्टो यथा राजा । तथा चायमन्यदेहिनां निग्रहानुग्रहकरः तस्मात्स्वदेहनिर्माणकर इति सिद्धं । तथा सति स्वं देहं निर्मायान्यदेहिनां निग्रहानुग्रहौ करोतीश्वर इति केषांचित् वचः तच्च न परीक्षाक्षम महेश्वरस्याशरीरस्य स्वदेहनिर्माणानुपपत्तेः तथा हि
देहांतराद्विना तावत्स्वदेहं जनयद्यदि । तदा प्रकृतकार्येऽपि देहाधानमनर्थकं ॥ १८॥ देहांतरात्स्वदेहस्य विधाने चानवस्थितिः। तथा च प्रकृतं कार्यं कुर्यादीशो न जातुचित् ॥१९॥ यदि हीश्वरो देहांतराद्विनाऽपि स्वदेहर्मनुध्यानमात्रादुत्पादयेत्तदाऽन्यदेहिनां निग्रहानुग्रहलक्षणं कार्यमपि प्रकृतं तथैव जनयेदिति तज्जनने देहाधानमनर्थकं स्यात् । यदि पुनर्देहांतरादेव स्वदेहं विदधीत तदा तदपि देहांतरमन्यस्मादेहादित्यनवस्थितिः स्यात्, तथा चापरापरदेहनिर्माण एवोपक्षीणशक्तिकत्वात् न कदाचित्प्रकृतं कार्य कुर्यादीश्वरः यथैव हि प्रकृतकार्यजननायापूर्व शरीरमीश्वरो निष्पादयति तथैव तच्छरीरनिष्पाद
चितनमात्रात् ।
Page #40
--------------------------------------------------------------------------
________________
आप्तपरीक्षा। नायापूर्व शरीरांतरं निष्पादयेदिति कथमनवस्था विनिवार्येत, न हि केषांचित्प्राणिनां निग्रहानुग्रहकरणात्पूर्व शरीरमीश्वरस्य प्रयुज्यते ततोऽपि 'पूर्व शरीरांतरप्रसंगात् । अनादिशरीरसंततिसिद्धेरशरीरत्वविरोधात् । न
चैकेन निर्माणशरीरेण नानादिग्देशवर्तिप्राणिविशेषनिग्रहानुग्रहविधानमीश्वरस्य घटते, यतो युगपन्नानानिर्माणशरीराणि तस्य न स्युः । तदम्युपगमे च तन्निर्माणाय नानाशरीरांतराणि भवेयुरित्यनादिनानाशरीरसंततयः कथमीश्वरस्य न प्रसज्येरन् ? यदि पुनरेकेन शरीरेण नानास्वशरीराणि कुर्वीत युगपत्क्रमेण वा तदैकेनैव देहेन नानादिन्देशवर्तिप्राणिगणनिग्रहानुग्रहावपि तथैव कुर्वीत । तथा च कणादगजासुराद्यनुग्रहनिग्रहविधानायोलूकादितदनुरूपशरीरनानात्वकथनं न युक्तिपथप्रस्थायि स्यात् । यदि पुनर्न देहांतराद्विना स्वदेहं जनयेत् , नापि देहांतरात्, स्वयमीश्वरस्य सर्वथा देहाविधानादिति मतं तदपि दषयन्नाह
स्वयं देहाविधाने तु तेनैव व्यभिचारिता। कार्यत्वादेः प्रयुक्तस्य हेतोरीश्वरसाधने ॥२०॥
यदि हीश्वरो न स्वयं स्वदेहं विधत्ते तदाऽसौ तद्देहः किं नित्यः स्यादनित्यो वा न तावन्नित्यः सावयवत्वात् । यत्सावयवं तदनित्यं दृष्टं यथा घटादि। सावयवश्वेश्वरदेहस्तस्मान्न नित्य इति बाधकसद्भावात् । यदि पुनरनित्यः तदा कार्योऽसौ कुतः प्रादुर्भवेत् । महेश्वरधर्मविशेषादेवेति चेत् तर्हि सर्वप्राणिनां शुभाशुभशरीरादिकार्य तद्धर्माधर्मेभ्य एव प्रादुभवेदिति किं कृतमीश्वरेण निमित्तकारणतया परिकल्पितेन । तथा च विवादापन्नं तनुकरणभुवनादिकं बुद्धिमन्निमित्तकं कार्यत्वात् स्वारंभकावयवसन्निवेशविशिष्टत्वादचेतनोपादानत्वादित्यादेहेंतोरीश्वरसाधनाय प्रयुक्तस्येश्वरदेहेन व्यभिचारिता स्यात्, तस्यानीश्वरनिमित्तत्वेऽपि कार्यत्वादि
सनिवेशाकतनकरणभुवना निमित्तकारण
Page #41
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
सिद्धेरिति ततो नेश्वरसिद्धिः संमान्यते । सांप्रतं शंकरमतमाशंक्य दूषयन्नाह
यथाऽनीशः स्वदेहस्य कर्ता देहांतरान्मतः। पूर्वस्मादित्यनादित्वान्नानवस्था प्रसज्यते ॥२१॥ तथेशस्यापि पूर्वस्माइहादेहांतरोद्भवात् । नानवस्थेति यो ब्रूयात्तस्याऽनीशत्वमीशितुः॥२२॥ अनीशः कर्मदेहेनाऽनादिसंतानवर्तिना। यथैव हि सकर्मा नस्तद्वन्न कथमीश्वरः॥ २३ ॥
न ह्यनीशः स्वशरीरस्य शरीरांतरेण विना कर्ता प्रतिवादिनः सिद्धो यमुदाहरणीकृत्याशरीरस्यापीशस्य स्वशरीरनिर्माणाय सामर्थ्य समर्थ्यते अनवस्था चापाद्यमाना निषिध्यते पूर्वपूर्वशरीरापेक्षयापि तदुत्तरोत्तरशरीरकरणे । किं तर्हि कार्मणशरीरेण सशरीर एवानीशः शरीरांतरमुपभोगयोग्यं निष्पादयतीति परस्य सिद्धांतः तथा यदीशः पूर्वकर्मदेहेन स्वदेहमुत्तरं निष्पादयेत्तदा सकर्मैव स्यात् न शश्वत्कर्मभिरस्पृष्टः सिद्धयेत्तस्यानीशवदनादिसंतानवर्तिना कर्मशरीरेण संबंधसिद्धेः। सकलकर्मणोऽप्यपाये स्वशरीरकरणायोगान्मुक्तवत् सर्वथा निःकर्मणो बुद्धीच्छाद्वेषप्रयत्नासंभवस्यापि साधनात् ।
ततो नेशस्य देहोऽस्ति प्रोक्तदोषानुषंगतः। नापि धर्मविशेषोऽस्य देहाभावे विरोधतः ॥२४॥ येनेच्छामंतरेणापि तस्य कार्ये प्रवर्तनं । जिनेंद्रवद् घटेतेति नोदाहरणसंभवः॥२५॥ इत्युपसंहारश्लोकौ । सांप्रतमशरीरस्य सदाशिवस्य यैानमभ्युपगतं १ किंचिद्ज्ञः। २ जैनस्य।
Page #42
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
३७ त एव प्रष्टव्याः किमीशस्य ज्ञानं नित्यमनित्यं चेति पक्षद्वयेऽपि दूषणमाह
ज्ञानमीशस्य नित्यं चेदशरीरस्य न क्रमः। कार्याणामक्रमाद्धेतोः कार्यक्रमविरोधतः॥ २६ ॥
ननु च ज्ञानस्य महेश्वरस्य नित्यत्वेऽपि नाक्रमत्वं निरन्वयक्षणिकस्यैवाक्रमत्वात् कालांतरदेशांतरप्राप्तिविरोधात् कालापेक्षस्य देशापेक्षस्य च क्रमस्यासंभवात् । संतानस्याप्यवस्तुत्वात् परमार्थतः क्रमवत्त्वानुपपत्तेः कूटस्थनित्यवत् । न हि यथा सांख्याः कूटस्थं पुरुषमामनंति तथा वयमीश्वरज्ञानं मन्यामहे तस्य सातिशयनित्यत्वात्क्रमोपपत्तेः, निरतिशयं हि पुरुषतत्त्वं प्रतिसमयं स्वरूपेणैवास्तीति शब्दज्ञानानुपातिना विकल्पेन वस्तुशन्येन पूर्वमासीदिदानीमस्ति पश्चाद्भविष्यतीति क्रमवदिव लोकैर्व्यवहारपदवीमानीयत इति न परमार्थतः क्रमवत्त्वं तस्य सांख्यैरभिधीयते न च क्रमेणानेककार्यकारित्वं तस्याकर्तृत्वात्सदोदासीनतयाऽवस्थितत्वात् । न च क्रमेणाक्रमेण चार्थक्रियापाये तस्यावस्तुत्वमिति केषांचिद् दूषणमवकाशं लभते । वस्तुनोऽर्थक्रियाकारित्वलक्षणाप्रतिष्ठानात् । अन्यथोदासीनस्य किंचिदकुर्वतो वस्तुत्वाभावप्रसंगात् । सत्ताया एव वस्तुलक्षणोपपत्तेरभावस्यापि वस्त्वंतरस्वभावस्य पुरुषतत्वस्य इव स्वसत्तानतिक्रमाद्वस्तुत्वाविरोधात् सामान्यादेरपि स्वरूपसत्त्वस्य वस्तुलक्षणस्याभ्युपगमात् । न किंचिद्वस्तु सत्तालक्षणं व्यभिचरतीति कापिलानां दर्शनं । न पुनर्वशेषिकाणां ईश्वरज्ञानस्योदासीनस्य कल्पने तत्कल्पनावैयर्थ्यप्रसंगात् कार्यकारिणैव तेन भवितव्यं यच्च कार्यकारि तत्सातिशयमेव युक्तं । न चैवं परिणामिनित्यता ज्ञानस्य सांख्यपरिकल्पितप्रधानवत्प्रसज्यते, तद१ सांख्यैरप्रतिपादनात् २ बौद्धादीनां । ३ कस्यचिदृषः।
च क्रमेणानाक्रमेण चाया प्रयाकारित्वलमा
Page #43
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
rammarmnmomrrrrrrrr
तिशयानां क्रमभुवां ततो भिन्नत्वात्, तदभेदेऽतिशयानामिवेश्वरज्ञानस्यापि नाशोत्पादप्रसंगात् । ईश्वरज्ञानवद्वा तदतिशयानामनुत्पादविनाशधर्मकत्व-- प्रसंगात् । तदेवमीश्वरज्ञानं क्रमेणानेकातिशयसंपाते क्रमवदेव । क्रमवतश्चेश्वरज्ञानात्कार्याणां क्रमो न विरुध्यत एव, सर्वथाप्यक्रमादेव हेतोः कार्यक्रमविरोधसिद्धेः । एतेन सांख्यैः परिकल्प्यमानस्य पुरुषस्य निरतिशयस्य सर्वदोदासीनस्य वैयर्थ्यमापादितमिति बोद्धव्यं । वैशेषिकाणामात्मादिवस्तुनो नित्यस्याप्यर्थातरमतैरतिशयैः सातिशयत्वोपगमासर्वदोदासीनस्य कस्यचिदप्रतिज्ञानादिति केचिदाचक्षते । तेऽप्येवं प्रष्टव्याः कथमीश्वरस्य ज्ञानस्य ततोऽर्थीतरभूतानामतिशयानां क्रमवत्त्वे वास्तवं क्रमवत्त्वं सिद्धयेत्, तेषां तत्र समवायादिति चेत् समानः पर्यनुयोगः कथमांतरभूतानामतिशयानामीश्वरज्ञान एव समवायो न पुनरन्यत्रेति तत्रैवेहेदमिति प्रत्ययविशेषोत्पत्तेरिति चेत् ननु स एवेहेदमिति प्रत्ययविशेषः कुतोऽन्यत्रापि न स्यात् सर्वथा विशेषाभावात् । यथैव हि, इह महेश्वरज्ञानेऽतिशया इति ततोऽर्थातरभाविनोऽपि प्रतीयते तथेह घटे तेऽतिशयाः प्रतीयंतां । तत्रैव तेषां समवायादिहेदमिति प्रत्ययविशेषो न पुनरन्यत्रेति चेत् सोयमन्योन्यसंश्रयः सतीहेदमिति प्रत्ययविशेषेऽतिशयानामीश्वरज्ञान एवं समवायः सिद्धयेत् तत्रैव तेषां समवायादिहेदमिति प्रत्ययविशेषो नियम्यत इति नैकस्यापि प्रसिद्धिः । भवतु वा तेषां तत्र समवायः, स तु क्रमेण युगपद्वा, क्रमेण चेत् कथमक्रममीश्वरज्ञानं क्रमभाव्यनेकातिशयसमवायः क्रमेण प्रतिपद्यत इति दुरवबोध, क्रमवर्तिभिरतिशयांतरैरीश्वरज्ञानस्य क्रमवत्वसिद्धेरदोषोऽयमिति चेत् ननु तान्यप्यन्यान्यतिशयांतराणीश्वरज्ञानादातरभूतानि कथं तस्य क्रमवत्तां साधयेयुरतिप्रसंगात् । तेषां तत्र समवायादिति चेत् स
Page #44
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
तर्हि तत्समवायः क्रमेण युगपद्वेत्यनिवृत्तः पर्यनुयोगोऽनवस्था च । यदि पुनयुगपदीश्वरज्ञानेऽतिशयानां समवायस्तदा तनिबंधनोऽपि तस्य क्रमो दूरोत्सारित एव तेषामक्रमत्वादिति सातिशयस्यापीश्वरज्ञानस्याक्रमत्वसिद्धिः । तथा चाक्रमादीश्वरज्ञानात्कार्याणां क्रमो न स्यादिति सक्तं दूषणं । किं च तदीश्वरज्ञानं प्रमाणं स्यात्फलं वा पक्षद्वयेऽपि दोषमादर्शयन्नाह
तद्बोधस्य प्रमाणत्वे फलाभावः प्रसज्यते । ततः फलावबोधस्यानित्यस्येष्टौ मतक्षतिः ॥२७॥ फलत्वे तस्य नित्यत्वं न स्यान्मानात्समुद्भवात् । ततोऽनुद्भवने तस्य फलत्वं प्रतिहन्यते ॥२८॥
नेश्वरज्ञानं नित्यं प्रमाणं सिद्धयेत् तस्य फलाभावात् । फलज्ञानस्यानित्यस्य परिकल्पने च महेश्वरस्य नित्यानित्यज्ञानद्वयपरिकल्पनायां सिद्धांतविरोधात् । फलत्वे वेश्वरज्ञानस्य नित्यत्वं न स्यात् प्रमाणतस्तस्य समुद्भवात् । ततोऽनुद्भवे तस्य फलत्वविरोधान्न नित्यमीश्वरज्ञानमभ्युपगमनीयं तस्य निगदितदोषानुषंगेण निरस्तत्वात् । किं तमुनित्यमेवेश्वरज्ञानमित्यपरे । तन्मतमनूद्य निराकुर्वन्नाह
अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता । कार्यत्वादेमहेशेनाकरणेऽस्य स्वबुद्धितः ॥ २९ ॥ बुद्ध्यंतरेण तद्बुद्धेः करणे चानवस्थितिः। नानादिसंततिर्युक्ता कर्मसंतानतो विना ॥३०॥
अनित्यं हीश्वरज्ञानमीश्वरबुद्धिकार्यं यदि नेष्यते तदा तेनैव कार्यत्वादिहेतुस्तनुकरणभुवनादेर्बुद्धिमत्कारणत्वे साध्येऽनैकांतिकः स्यात् । यदि पुनर्बुद्धचंतरेण स्वबुद्धिमीश्वरः कुर्वीत तदा परापरबुद्धिप्रतीक्षाया
Page #45
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
मेवोपक्षीणत्वादीश्वरस्य प्रकृतबुद्धेः करणं न स्यादनवस्थानात् । स्यान्मतं प्रकृतबुद्धेः करणे नाऽपूर्वबुद्धयंतरं प्रतीक्षते महेशः । किं तर्हि पूर्वोत्पन्नां बुद्धिमाश्रित्य प्रकृतां बुद्धिं कुरुते तामपि तत्पूर्वी बुद्धिमित्यनादिबुद्धिसंततिरीश्वरस्य ततो नानवस्थेति । तदप्यसत् । तथाबुद्धिसंतानस्य कर्मसंतानापायेऽसंभवात् । क्रमजन्मा हि बुद्धिः परापरतद्धेतोरदृष्टविशेषस्य क्रमादुत्पद्यते नान्यथा । यदि पुनर्योगजधर्मसंततेरनादेश्विरस्य सद्भावादयमनुपालंभः पूर्वस्मात् समाधिविशेषाद्धर्मस्यादृष्टविशेषस्योत्पादात्ततो बुद्धिविशेषस्य प्रादुर्भावाददृष्टसंताननिबंधनाया एव बुद्धिसंततेरभ्युपगमादिति मतं तदापि कथमीश्वरस्य सकर्मता न सिद्धयेत् । तत्सिद्धौ च सशरीरताऽपि कथमस्य न स्यात् तस्यां च सत्यां न सदा मुक्तिस्तस्य सिद्धयेत् । सदेहमुक्तेः सदासिद्धौ तदेहेन च कार्यत्वादेः साधनस्य तन्वादेर्बुद्धिमत्कारणत्वे साध्ये कथमनैकांतिकता परिहतुं शक्यति तस्य बुद्धिमत्कारणत्वासंभवात् । संभवे चानवस्थानुषंगादिति प्रागेवोक्तं । किं चेदं विचार्यते किमीश्वरज्ञानमन्यापि किं वा व्यापीति प्रथमपक्षे दूषणमाह
अव्यापि च यदि ज्ञानमीश्वरस्य तदा कथं । सकृत्सर्वत्र कार्याणामुत्पत्तिर्घटते ततः॥ ३१ ॥ यद्येकत्र स्थितं देशे ज्ञानं सर्वत्र कार्यकृत् । तदा सर्वत्र कार्याणां सकृत् किं न समुद्भवः ॥३२॥ कारणांतरवैकल्यात्तथाऽनुत्पत्तिरित्यापि । कार्याणामीश्वरज्ञानाहेतुकत्वं प्रसाधयेत् ॥ ३३ ॥ १ अदोषः । २ जीवन्मुक्तेः । ३ नित्यत्वे । ४ जीवन्मुक्तदेहेन ।
Page #46
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
४१ सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः।. . अन्वयस्यापि संदेहात्कार्य तद्धेतुकं कथं ॥ ३४॥
तदीश्वरज्ञानं तावदव्यापीष्टं प्रादेशिकत्वात् सुखादिवत् । प्रादेशिकमीश्वरज्ञानं विभुद्रव्यविशेषगुणत्वात् यदित्यं तदित्यं यथा सुखादि तथा चेश्वरज्ञानं तस्मात्प्रादेशिकमिति नासिद्धं प्रादेशिकत्वं साधनं, न च तत्साधनस्य हेतोः सामान्यगुणेन संयोगादिना व्यभिचारो, विशेषग्रहणात् । तथापि विशेषगुणेन रूपादिनाऽनैकांतिक इति न मंतव्यं विभुद्रव्यग्रहणात् । तथापीष्टविरुद्धस्यानित्यत्वस्य साधनात् विरुद्धो हेतुः विभुद्रव्यविशेषगुणत्वस्यानित्यत्वेन व्याप्तत्वात् , यथाहीदं विभुद्रव्यविशेषगुणत्वं प्रादेशिकत्वमीश्वरज्ञानस्य साधयेत् तद्वदनित्यत्वमपि तदव्यभिचारात् , न हि कश्चिद्विभुद्रव्यविशेषगुणो नित्यो दृष्ट इत्यपि नाशंकनीयं महेश्वरस्यास्मद्विशिष्टत्वात् तद्विज्ञानस्यास्मद्विलक्षणत्वात् । न ह्यस्मदादिविज्ञाने यो धर्मो दृष्टः स महेश्वरविज्ञानेऽप्यापादयितुं युक्तोऽतिप्रसंगात् । तस्यास्मदादिविज्ञानवत् समस्तार्थपरिच्छेदकत्वाभावप्रसक्तेः सर्वत्रास्मदादिबुद्धयादीनामेवानित्यत्वेन व्याप्तस्य विमुद्रव्यविशेषगुणत्वस्य प्रसिद्धेः विभुद्रव्यस्य वा महेश्वरस्यैवाभिप्रेतत्वात्, तेन यदुक्तं भवति महेश्वरविशेषगुणत्वात् तदुक्तं भवति विभुद्रव्यविशेषगुणत्वादिति ततो नष्टोवरुद्धसाधनो हेतुर्यतो विरुद्धः स्यात् । न चैवमुदाहरणानुपपत्तिरीश्वरसुखादेरेवोदाहरणत्वात् तस्यापि प्रादेशिकत्वात् साध्यवैकल्याभावात् महेश्वरविशेषगुणत्वाच्च साधनवैकल्यासंभवात् ततोऽस्माद्धेतोरीश्वरज्ञानस्य सिद्धं प्रादेशिकत्वं । ततश्चाव्यापि तदिष्टं यदि वैशेषिकैस्तदा कथं सकृत्सर्वत्र तन्वादिकार्याणामुत्पत्तिरीश्वरज्ञानाद् घटते तद्धि निमित्तकारणं सर्वकार्योत्पत्तौ सर्वत्रासन्निहितमपि कथमुपपद्यते कालादेापिन एव युगपत्
Page #47
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
सर्वत्र कार्योत्पत्तौ निमित्तकारणत्वप्रसिद्धेः । विभोरीश्वरस्य निमित्तकारणत्वप्रसिद्धेः विभोरीश्वरस्य निमित्तकारणत्ववचनाददोष इति चेन्न । तस्य यत्र प्रदेशेषु बुद्धिस्तत्रैव निमित्तकारणत्वोपपत्तेर्बुद्धिशून्येऽपि प्रदेशांतरे तस्य निमित्तकारणत्वे, न तत्र कार्याणां बुद्धिमन्निमित्तत्वं सिद्धयेत् तथा च व्यर्थ बुद्धिमन्निमित्तत्वसाधनं सर्वत्र कार्याणां बुद्धिमदभावेऽपि भावापत्तेः । न चैवं कार्यत्वादयो हेतवो गमकाः स्युर्बुद्धिशून्येश्वरप्रदेशवर्तिभिरबुद्धिमन्निमित्तैः कार्यादिभिर्व्यभिचारात् । ततस्तेषां बुद्धिमन्निमित्तत्वासिद्धेः । स्यान्मतं प्रदेशवर्तिनाऽपि ज्ञानेन महेश्वरस्य युगपत्समस्तकारक परिच्छेदसिद्धेः सर्वकार्योत्पत्तौ युगपत्सकलकारकप्रयोक्तत्वव्यवस्थितेः निखिलतन्वादिकार्याणां बुद्धिमन्निमित्तत्वोपपत्तेः नोक्तदोषोऽनुप्रसज्यत इति । तदप्यसम्यक् । क्रमेणानेकतन्वादिकार्यजन्मनि तस्य निमित्तकारणत्वायोगात् । ज्ञानं हीश्वरस्य यद्येकत्र प्रदेशे वर्तमानं समस्तकारकशक्तिसाक्षात्करणात् समस्तकारकप्रयोक्तृत्वसाधनात् सर्वत्र परंपरया कार्यकारीष्यते तदा युगपत्सर्वकार्याणां सर्वत्र किं न समुद्भवः प्रसज्यते, यतो महेश्वरस्य प्राक् पश्चाच्च कार्योत्पत्तौ निमित्तकारणत्वाभावो न सिद्धयेत् । समर्थेऽपि सति निमित्तकारणे कार्यानुत्पादविरोधात् । स्यान्मतं न निमित्तकारणमात्रात्तन्वादिकार्याणामुत्पत्तिः समवाय्यसमवायिनिमित्तकारणांतराणामपि सद्भावे कार्योत्पत्तिदर्शनात् न च सर्वकार्याणां युगपत्समवाय्यसंमवायिनिमित्तकारणसद्भावः क्रमेणैव तत्प्रसिद्धेः । ततः कारणांतराणां वैकल्यात् तथा युगपत्सर्वत्र कार्याणामनुत्पत्तिरिति । तदपि कार्याणां नेश्वरज्ञानहेतुकत्वं साधयेत् तदन्वयव्यतिरेकासिद्धेः सत्यपीश्वरज्ञाने केषांचित्कार्याणां कारणांतराभावेऽनुत्पत्तेः कारणांतरसद्भाव एवोत्पत्तेः कारणांतरान्वयव्यतिरेकानुविधानस्यैव सिद्धेः तत्कार्यत्वस्यैव व्यवस्थानात् । ननु च सत्येव
Page #48
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
४३
ज्ञानवति महेश्वरे तन्वादिकार्याणामुत्पत्तेरन्वयोऽस्त्येव । व्यतिरेकोऽपि विशिष्टावस्थापेक्षया महेश्वरस्य विद्यत एव कार्योत्पादनसमर्थकारणांतरसन्निधानविशिष्टेश्वरेऽसति कार्याणामनुत्पत्तेः व्यतिरेकनिश्चयात् । सर्व त्रावस्थापेक्षयैवावस्थावतोऽन्वयव्यतिरेकप्रतीतेः । अन्यथा तदसंप्रत्ययात् । न ह्यवस्थांतरे सति कार्योत्पत्तिरिति वक्तुं शक्यं सर्वावस्थासु तस्मिन्सति तदुत्पत्तिप्रसंगात् । नाप्यवस्थावतोऽसंभवे कार्येऽस्यासंभवः सुशक्तो वक्तुं तस्य नित्यत्वादभावानुपपत्तेः । द्रव्यावस्थाविशेषाभावे तु तत्साध्यकार्यविशेषानुत्पत्तेः सिद्धो व्यतिरेकोऽन्वयवत् न चावस्थावतो द्रव्यस्यानाद्यनंतस्योत्पत्तिविनाशशन्यस्यापन्हवो युक्तः तस्याबाधितान्वयज्ञानसिद्धत्वात तदपह्नवे सौगतमतप्रवेशानुषंगात् कुतः स्याद्वादिनामिष्टसिद्धिरिति कश्चिद्वैशेषिकमतमनुमन्यमानः समभिधत्ते। सोऽप्येवं प्रष्टव्यः किमवस्थावतोऽवस्था पदार्थातरभूता किंवा नेति । प्रथमकल्पनायां कथमवस्थापेक्षयाऽन्वयव्यतिरेकानुविधानं तन्वादिकार्याणामीश्वरान्वयव्यतिरेकानुविधानं युज्यते, धूमस्य पावकान्वयव्यतिरेकानुविधाने पर्वताद्यन्वयव्यतिरेकानुविधानप्रसंगात् । पदार्थांतरत्वाविशेषात् यथैव हि पर्वतादेः पावकस्य पदार्थातरत्वं तथेश्वरात्कारणांतरसन्निधानस्यावस्थाविशेषस्यापि सर्वथा विशेषाभावात् । यदि पुनरीश्वरस्यावस्थातो भेदेऽपि तेन संबंधसद्भावात्तदन्वयव्यतिरेकानुविधान कार्याणामीश्वरान्वयव्यतिरेकानुविधानमेवेति मन्यते तदा पर्वतादेः पावकेन संबंधात्पावकान्वयव्यतिरेकानुविधानमपि धूमस्य पर्वताद्यन्वयव्यतिरेकानुविधानमनुमन्यतां । पावकविशिष्टपर्वताद्यन्वयन्यतिरेकानुकरणं धूमस्यानुमन्यते एव तद्वदवस्थाविशिष्टेश्वरान्वयन्यतिरेकानुकरणं तन्वादिकार्याणां युक्तमनुमंतुमिति चेन्न पर्वतादिवदीश्वरस्य भेदप्रसंगात् । यथैव हि पावकविशिष्टपर्वतादेरन्यः पावकाविशिष्टपर्वतादिः सिद्धः तद्वत्कारणांतर
Page #49
--------------------------------------------------------------------------
________________
४४. श्रीविद्यानंदिस्वामिविरचितासन्निधानलक्षणावस्थाविशिष्टादीश्वरात्पूर्वं तदविशिष्टेश्वरोऽन्यः कथं न प्रसिद्धयेत् । स्यान्मतं द्रव्याद्यनेकविशेषणविशिष्टस्यापि सत्तासामान्यस्य यथा न भेदः समवायस्य वाऽनेकसमवायिविशेषणविशिष्टस्याप्येकत्वमेव तद्वदनेकावस्थाविशिष्टस्यापीश्वरस्य न भेदः सिद्धयेत् तदेकत्वस्यैव प्रमाणतः सिद्धेरिति तदेतत्स्वगृहमान्यं । सत्तासामान्यसमवाययोरपि स्वविशेषणभेदाढ़ेदप्रसिद्धेय॑तिलंघयितुमशक्तेः । तस्यैकानेकस्वभावतयैव प्रमाणगोचरचारित्वात् तदेतेन नानामूर्तिमद्रव्यसंयोगविशिष्टस्य व्योमात्मादिविभुद्रव्यस्याभेदः प्रत्याख्यातः स्वविशेषणभेदाञदसंप्रत्ययादेकानेकस्वभावत्वव्यवस्थानात् । योऽप्यवस्थावतोऽवस्थां पदार्थांतरभूतां नानुमन्यते तस्यापि कथमवस्थाभेदादवस्थावतो भेदो न स्यादवस्थानां वा कथममेदो न भवेत् तदर्थातरत्वाभावात् । स्यादाकूतं अवस्थानामवस्थावतः पदार्थातरत्वाभावेऽपि न तदभेदः तासां तद्धर्मत्वात् न च धर्मो धर्मिणोऽनर्थातरमेव धर्मधर्मिव्यवहारभेदविरोधात् भेदे तु न धर्माणां भेदाद्धर्मिणो भेदः प्रत्येतुं शक्येत यतोऽवस्थाभेदादीश्वरस्य भेदः संपाद्यत इति । तदपि -स्वमनोरथमात्रं धर्माणां सर्वथा धर्मिणो भेदे धर्मधार्मभावविरोधात् सह्यविध्यादिवत् । ननु धर्मधर्मिणोः सर्वथाभेदेऽपि निर्बाधप्रत्ययविषयत्वात् न धर्मर्मिभावविरोधः । सह्यविंध्यादीनां तु निर्बाधधर्मधर्मिसंप्रत्ययविषयत्वाभावान्न धर्मधर्मिभावव्यवस्था । न हि वयं भेदमेव धर्मधर्मिव्यवस्थानिबंधनमभिदध्महे येन भेदे धर्मधर्मिभावो विरुध्यते सर्वथैवाभेद इव प्रत्ययविशेषात्तद्वयवस्थाभिधानात् ।सर्वत्राबाधितप्रत्ययोपायत्वाद्वैशेषिकाणां तद्विरोधादेव विरोधसिद्धेरिति कश्चित् । सोऽपि स्वदर्शनानुरागांधीकृत एव बाधकमवलोकयन्नपि नावधारयति । धर्मधर्मिप्रत्ययविशेषस्यैव धर्मधर्मिणोर्मेदैकांतेऽनुपपत्तेः सह्यविध्यादिवत्प्रतिपादनात् । यदि पुनः प्रत्यासत्तिविशेषादी
Page #50
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
1
श्वरतदवस्थयोर्मदेऽपि धर्मधर्मिसंप्रत्ययविशेषः स्यात् न तु सह्यविंध्यादीनां तदभावादिति मतं तदाऽसौ प्रत्यासत्ति धर्मधर्मिभ्यां भिन्ना कथं च धर्मधर्मिणोंरिति व्यपदिश्यते न पुनः सह्यर्विध्ययोरिति विशेष हेतुर्वक्तव्यः । प्रत्यासत्यंतरं तद्धेतुरिति चेत् तदपि यदि प्रत्यासत्तितद्वद्भयो भिन्नं तदा तैव्यपदेशनियमनिबंधनं प्रत्यासत्त्यंतरमभिधानीयं तथा चानवस्थानात्कुतः प्रकृत प्रत्यासत्तिनियमव्यवस्था । प्रत्ययविशेषादेवेति चेत्, ननु स एव विचार्यो वर्तते प्रत्ययविशेषः किं प्रत्यासत्तेस्तत्तद्वद्भयां सर्वथा भेदे सतीश्वरतदवस्थयोः प्रत्यासत्तिरिति प्रादुर्भवति किं वाऽनर्थांतरभाव एव कथंचि - तादात्म्ये वा । तत्र सर्वथा भेदाभेदयोर्बाधकसद्भावात् कथंचित्तादात्म्यमनुभवतोरेव तथा प्रत्ययेन भवितव्यं तत्र बाधकानुयात् । “ ननु चैकानेकयोः कथंचित्तादात्म्यमेव धर्मधर्मिणोः प्रत्यासत्तिः स्याद्वादिभिरभिधीयते तच्च यदि ताभ्यां भिन्नं यदा न तयोर्व्यपदिश्यते तदभिन्नं चेत् किं केन व्यपदेश्यं । यदि पुनस्ताभ्यां कथंचित्तादात्म्यस्यापि परं कथंचित्तादात्म्यमिष्यते तदा प्रकृतपर्यनुयोगस्यानिवृत्तेः परापरकथंचित्तादात्म्य परिकल्पनायामनवस्था स्यात् । सैव कथंचित्तादात्म्यपक्षस्य बाधिकेति कथमयं पक्षः क्षेमकरः प्रेक्षावतामक्षणमालक्ष्यते । यदि पुनः कथंांचतादात्म्यं धर्मधर्मिणोर्भिन्नमेवाभ्यनुज्ञायते ताम्यामनवस्थापरिजिहीर्षयाऽनेकांतवादिना तदा धर्मधर्मिणोरेव भेदोऽनुज्ञायतां सुदूरमपि गत्वा तस्याश्रयणीयत्वात् । तदनाश्रयणे भेदव्यवहारविरोधादित्यपरः " सोऽप्यनवबोधाकुलितांतःकरण एव । कथंचित्तादात्म्यं हि धर्मधर्मिणोः संबंधः स चाविष्वग्भाव एव तयोर्जात्यंतरत्वेन संप्रत्ययाद्यवस्थाप्यते । धर्मधर्मिणो
४५
१ प्रत्यासत्तिधर्मधर्मिभ्यः । २ धर्मधर्मिप्रत्यासत्तीनामिदं प्रत्यासत्त्यंतरमिति व्यपदेशनियमस्य कारणं ।
Page #51
--------------------------------------------------------------------------
________________
"४६
श्रीविद्यानंदिस्वामिविरचिता
रविष्वग्भाव इति व्यवहारस्तु न संबंधांतरनिबंधनो यतः कथंचित्तादात्म्यांतर संबंधांतरमनवस्थाकारि परिकल्प्यते तत एव कथंचित्तादात्म्याद्धर्म'धर्मिणोः कथंचित्तादात्म्यमिति प्रत्ययविशेषस्य करणात् । कथंचित्तादात्म्यस्य कथंचिद्भेदस्वीकारत्वात् कथंचिद्भेदाभेदौ हि कथंचित्तादात्म्यं । तत्र कथंचिद्भेदाश्रयणाद् धर्मधर्मिणोः कथंचित्तादात्म्यमिति भेदविभक्तिसद्भावात् भेदव्यवहारसिद्धिः । कथंचिदभेदाश्रयणात्तु धर्मधर्मिणावेव कथंचित्तादात्म्यमित्यमेदव्यवहारः प्रवर्तते धर्मधर्मिव्यतिरेकेण कथंचिद्भेदाभेदयोरभावात् कथंचिद्भेदो हि धर्म एव कथंचिदभेदस्तु धर्येव कथंचिद्भेदाभेदौ तु धर्मर्मिणावेव एवं सिद्धौ तावेव च कथंचित्तादात्म्यं वस्तुनोऽभिधीयते । तच्छब्देन वस्तुनः परामर्शात् । तस्य वस्तुनः आत्मानौ तदात्मानौ तयोर्भावस्तादात्म्यं । भेदाभेदस्वभावत्वं कथंचिदिति विशेषणेन सर्वथा भेदाभेदयोः परस्परनिरपेक्षयोः प्रतिक्षेपात्तत्पक्षे निक्षिप्तदोषपरिहारः । परस्परसापेक्षयोश्च परिग्रहात् जात्यंतरवस्तुव्यवस्थापनात् सर्वथा शून्यवादप्रतिक्षेपसिद्धिरिति कथंचिद्भेदाभेदात्मकं कथंचिद्धर्मधात्मकं कथंचिद्दव्यपर्यायात्मकमिति प्रतिपाद्यते स्याद्वादन्यायनिष्ठैः, तथैव तस्य प्रतिष्ठितत्वात् । सामान्यविशेषवन्मेचकज्ञानवच्च । तत्र विरोधवैय्यधिकरण्यादिदूषणमनेनैवापसारितमिति किं नश्चिंतया । नन्वेवं स्याद्वादिनामपि द्रव्यस्य नित्यत्वात्तदन्वयव्यतिरेकानुविधान कार्याणां न स्यादीश्वरान्वयन्यतिरेकानुविधानवत् पर्यायाणां च क्षणिकत्वात्तदन्वयव्यतिरेकानुविधानमपि न घटते, नष्टे पूर्वपर्याये स्वयमसत्येवोत्तरकार्य स्योत्पत्तेः सति चानुत्पत्तेरन्यथैकक्षणवृत्तित्वप्रसंगात् सर्वपर्यायाणामिति तद्भा वभावित्वानुपपत्तिः । यदि पुनद्रव्ये सत्येव कार्याणां प्रसूतेस्तदन्वयसिद्धिस्तन्निमित्तपर्यायाणामभावे वानुत्पत्तेर्व्यतिरेकसिद्धिरिति तदन्वयव्यति
Page #52
--------------------------------------------------------------------------
________________
४७
आप्तपरीक्षा। रेकानुविधानमिष्यते तदेश्वरस्य तदिच्छाविज्ञानयोश्च नित्यत्वेऽपि तन्वादिकार्याणां तद्भाव एव भावात्तदन्वयस्तत्सहकारिकारणावस्थापाये च तेषामनुत्पत्तेर्व्यतिरेक इति तदन्वयन्यतिरेकानुविधानमिष्यतां विशेषाभावात् ततः सर्वकार्याणां बुद्धिमत्कारणत्वसिद्धिरिति परे प्रत्यवतिष्ठते तेऽपि न कार्यकारणभावविदः । स्याद्वादिनां द्रव्यस्य पर्यायनिरपेक्षस्य पर्यायस्य वा द्रव्यनिरपेक्षस्य द्रव्यपर्याययोर्वा परस्परनिरपेक्षयोः कार्यकारित्वानभ्युपगमात् तथा प्रतीत्यभावात् । द्रव्यपर्यायात्मकस्यैव जात्यंतरवस्तुनः कार्यकारित्वेन संप्रत्ययात् कार्यकारणभावस्य तथैव प्रसिद्धेः वस्तुनि द्रव्यरूपेणान्वयप्रत्ययविषये सत्येव कार्यस्य प्रादुर्भावात्तन्निबंधनपर्यायविशेषाभावे च कार्यस्याप्रादुर्भावात्तदन्वयव्यतिरेकानुकरणात्कार्यकारणभावो व्यवतिष्ठते । न च द्रव्यरूपेणापि वस्तुनो नित्यत्वमवधार्यते तस्य पर्यायेभ्यो भंगुरेभ्यः कथंचिदनांतरभावात् कथंचिदनित्यत्वसिद्धेमहेश्वरस्य तु वैशेषिकैः सर्वथा नित्यत्वप्रतिज्ञानात्तदन्वयव्यतिरेकानुकरणासंभवात्कार्याणामुत्पत्तेरयोगात् । पर्यायाणां च द्रव्यरूपेण नित्यत्वसिद्धेः कथंचिन्नित्यत्वात्सर्वथाऽनित्यत्वानवधारणात् विशिष्टपर्यायसद्भावे कार्यस्योदयात्तदभावे चानुदयात् कार्यस्य तदन्वयव्यतिरेकानुकरणसिद्धेः । निरन्वयक्षणिकपर्यायाणामेव तदघटनात् तत्र कार्यकारणभावाव्यवस्थितेः । पर्यायार्थिकनयप्राधान्यादविरोधात् द्रव्यार्थिकनयप्राधान्येन तदविरोधवत् । प्रामाणार्पणया तु द्रव्यपर्यायात्मनि वस्तुनि सति कार्यस्य प्रसवनादसति वाऽप्रसवनात्तदन्वयव्यतिरेकानुविधानं सकलननसाक्षिकं कार्यकारणभावं व्यवस्थापयेत् सर्वथैकांतकल्पनायां तदभावं विभावयतीति कृतमतिप्रसंगिन्या कथया । महेश्वरज्ञानस्य नित्यस्याव्यापिनोऽपि सर्वत्र कार्यकरणसमर्थस्य सर्वेषु देशेषु सर्वस्मिन्काले व्यतिरेकाप्रसिद्धेरन्वयस्यापि नियतस्य
Page #53
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
निश्चतुमशक्तस्तन्वादिकार्य तद्धेतुकं कारणांतरापेक्षयापि न सिध्यत्येवेति स्थितं । कस्यचिन्नित्यव्यापीश्वरज्ञानाभ्युपगमेऽपि दूषणमतिदिशन्नाह,
एतेनैवेश्वरज्ञानं व्यापिनित्यमपाकृतं ।।
तस्येशवत्सदा कार्यक्रमहेतुत्वहानितः॥३५॥ एतेन व्यतिरेकामावान्वयसंदेहव्यवस्थापकवचनेन व्यापिनित्यमीश्वरज्ञानं तन्वादिकार्योत्पत्तिनिमित्तमपाकृतं वेदितव्यं तस्येश्वरवत्सर्वगतत्वेन क्वचिद्देशे नित्यत्वेन कदाचित्काले व्यतिरेकामावनिश्चयात् तदन्वयमात्रस्य चात्मांतरवन्निश्चेतुमशक्तेः तस्मिन्सति समर्थे युगपत्सर्वकार्याणामुत्पत्तिप्रसंगात् । सर्वदा कार्यक्रमहेतुत्त्वहानेः कालदेशकृतकमाभावात् सर्वथा स्वयं क्रमाभावात् ' क्रमवत्त्वे नित्यत्वसर्वगतत्वविरोधात् पावकादिवत् । स्यान्मतं प्रतिनियतदेशकालसहकारिकारणक्रममापेक्ष्य कार्यक्रमहेतुत्वं महेश्वरस्य च तद्विज्ञानस्यापि न विरुध्यते इति । तदप्यशक्यप्रतिष्ठं सहकारिकारणेषु क्रमवत्सु सत्सु तन्वादिकार्याणां प्रादुर्भवतां तेष्वसत्सु चानुत्पद्यमानानां तदन्वयव्यतिरेकानुविधानात् तद्धेतुकत्वस्यैव प्रसिद्धर्महेश्वरज्ञानहेतुकत्वं दुरुपपादमापनीपद्येत । यदि पुनः सकलसहकारिकारणानामनित्यानां क्रमजन्मनामपि चेतनत्वाभावाच्चेतनेनानधिष्ठितानां कार्यनिष्पादनाय प्रवृत्तेरनुत्पत्तेस्तुरीतंतुवेमशलाकादीनां कुर्विदनानधिष्ठितानां पटोत्पादनायाऽप्रवृत्तिवच्चेतनस्तदधिष्ठाता साध्यते । तथा हि विवादाध्यासितानि कारणांतराणि क्रमवर्तीन्यक्रमाणि च चेतनाधिष्ठितान्येव तन्वादिकाणि कुवैति स्वयमचेतनत्वात् यानि यानि अचेतनानि तानि तानि चेतनाधिष्ठितान्येव स्वकार्य कुर्वाणानि दृष्टानि यथा तुतित्वादीनि पटकार्य, स्वयमचेतनानि च कारणांतराणि तस्माच्चेतनाधिष्ठितान्येव तन्वादिकार्याणि कुवैति योऽसौ तेषामधिष्ठाता स महेश्वरः पुरुषविशेषः
Page #54
--------------------------------------------------------------------------
________________
आप्तपरीक्षा। क्लेशकर्मविपाकाशयरपरामृष्टः समस्तकारकशक्तिपरिज्ञानभाक् सिसृक्षाप्र--- यत्नविशेषवांश्च प्रभुर्विभाव्यते तद्विपरीतस्य समस्तकारकाधिष्ठातृत्वविरोधात बहूनामपि समस्तकारकाधिष्ठायिनां पुरुषविशेषाणां प्रतिनियतज्ञानादिशक्तीनामेकेन महाप्रभुणाऽधिष्ठितानामेव प्रवृत्तिघटनात् सामंतमहासामंतमंडलीकादीनामेकं चक्रवर्त्यधिष्ठितानां प्रवृत्तिवदिति महेश्वरसिद्धिः । तत्राचेतनत्वादिति हेतोर्वत्सविवृद्धिनिमित्तं प्रवर्त्तमानेन गोक्षीरेणानैकांतिकत्वमिति न शंकनीयं । तस्यापि चेतनेन वत्सेनादृष्टविशेषसहकारिणाधिष्ठितस्यैव प्रवृत्तेः । अन्यथा मृते वत्से गोभक्तेनैव तस्य प्रवृत्तिविरोधात् । न च वत्सादृष्टविशेषवशात्प्रवृत्तावपि समानोऽयं दोष इति शक्यः तत्क्षीरोपभोक्तजनादृष्टविशेषसहकारिणापि चेतनेनाधिष्ठितस्य प्रवृत्तिघटनात् सहकारिणामप्रतिनियमात् । यदपि कश्चिदुच्यते महेश्वरोऽपि चेतनांतराधिष्ठितः प्रवर्तते चेतनत्वाद्विशिष्टकर्मकरादिवदिति । तदपि न सत्यं तदधिष्ठापकस्यैव महेश्वरत्वात् । यो ह्यत्योऽधिष्ठाता स्वतंत्रः स महेश्वरस्ततोऽन्यस्य महेश्वरत्वानुपपत्तेर्न चांत्योऽधिष्ठाता न व्यवतिष्ठते तन्वादिकार्याणामुत्पत्तिव्यवस्थानामभावप्रसंगात् । परापरमहेश्वरप्रतीक्षायामेवोपक्षी णशक्तित्वात् ततो निरवद्यमिदं साधनमिति कैश्चित् । तेऽपि न हेतुसामर्थ्यवोर्दनः । अचेतनत्वस्य हेतोः संसारिजनज्ञानेषु स्वयं चेतनस्वभावात्पक्षाव्यापकत्वात् । ननु च न चेतनत्वप्रतिषेधोऽचेतनत्वं किं तर्हि चेतनासमवायप्रतिषेधः स च ज्ञानेष्वस्ति तेषां स्वयं चेतनत्वात् तत्रापरचेतनासमवायाभावात् ततोऽचेतनत्वं साधनं न पक्षाव्यापकं ज्ञानेष्वपि सद्भावादिति त मंतव्यं । संसार्यात्मसु चेतनासमवायात् चेतनत्वप्रसिद्धेरचेतनत्वस्य हेतोरभावात् पक्षाव्यापकत्वस्य तदवस्थत्वात् । यदि तु संसार्यात्मनां स्वतोऽचेतनत्वादचेतनत्वस्य हेतोस्तत्र सद्भावान्न पक्षाव्यापक
Page #55
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचितात्वमिति मतिः । तदा महेश्वरस्याप्यचेतनत्वप्रसगः तस्यापि स्वतोऽचेतनत्वात् तथा च दृष्टादृष्टकारणांतरवदीश्वरस्यापि हेतुकर्तुश्चेतनांतराधिष्ठितत्वं साधनीयं तथा चानवस्था सुदूरमपि गत्वा कस्यचित्स्वतश्चेतनत्वानभ्युपगमात् । महेश्वरस्य स्वतोऽचेतनस्यापि चेतनांतरराधिष्ठितत्वाभावे तेनैव हेतोरनेकांतिकत्वमिति कुतः सकलकारकाणां चेतनाधिष्ठितत्वसिद्धिः यत इदं शोभते " अज्ञो जंतुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वर. प्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव चेति' । स्यादाकूतं चेतनाज्ञानं तदधिष्ठितत्वं सकलकारकांतराणामचेतनत्वेन हेतुना साध्यते तच्च ज्ञानं समस्तकारकशक्तिपरिच्छेदकं नित्यं गुणत्वादाश्रयमंतरेणासंभावात् स्वाश्रयमात्मांतरं साधयति स नो महेश्वर इति । तदप्ययुक्तं । संसार्यात्मनां ज्ञान रपि स्वयं चेतनास्वभावैरधिष्ठितस्य शुभाशुभकर्मकलापस्य तत्सहकारिकदंबकस्य च तन्वादिकार्योत्पत्तौ व्यापारसिद्धेरीश्वरज्ञानाधिष्ठानपरिकल्पनावैयर्थ्यप्रसंगात् । तदन्वयव्यतिरेकाभ्यामेव तद्वयवस्थापनात । अथ मतमेतत् संसार्यात्मनां विज्ञानानि विप्रकृष्टार्थाविषयत्वान्न धर्माधर्मपरमाणुकालाद्यतींद्रियकारकविशेषसाक्षात्करणसमर्थानि । न च तदसाक्षात्करणे ततः प्रयोजकत्वं तेषामवतिष्ठते तदप्रयोजकत्वे च न तदधिष्ठितानामेव धर्मादीनां तन्वादिकार्यजन्मनिप्रवृत्तिः सिध्येत् ततोऽतींद्रियार्थसाक्षात्कारिणा ज्ञानेनाधिष्ठितानामेव स्वकार्ये व्यापारेण भवितव्यं तच्च महेश्वरज्ञानमिति । तदप्यनालोचितयुक्तिकं सकलातींद्रियार्थसाक्षात्कारिण एव ज्ञानस्य कारकाधिष्ठायकत्वेन प्रसिद्धस्य दृष्टांततयोपादीयमानस्यासंभवात्तदधिष्ठितत्वसाधने हेतोरनन्वयत्वप्रसक्तेः । न हि कुंभकारादेः कुंभाधुत्पत्तौ तत्कारकसाक्षात्कारि ज्ञानं विद्यते दंडचक्रादिदृष्टकारकसंदोहस्य तेन साक्षात्करणेऽपि तन्निमित्तादृष्टविशेषकालादेरसाक्षात्करणात् । ननु
Page #56
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
लिंगविशेषात्तत्परिच्छित्तिनिमित्तस्य लैंगिकस्य ज्ञानस्य सद्भावात् तथा स्वादृष्टविशेषाः कुंभकारादयः कुंभादिकार्याणि कुर्वति नेतरे तेषां तथाविधादृष्टविशेषाभावादित्यागमज्ञानस्यापि तत्परिच्छेदनिबंधनस्य सद्भावात् सिद्धमेव कुंभाकारादिज्ञानस्य कुंभादिकारकपरिच्छेदकत्वं तत्प्रयोक्तृत्वेन तदधिष्ठाननिबंधनत्वं ततस्तस्य दृष्टांततयोपादानान्न हेतोरन्वयत्वापत्तिरिति चेत् तर्हि सर्वसंसारिणां यथास्वं तत्वादिकार्यजन्मनि प्रत्यक्षतोऽनुमानादागमाच्च तन्निमित्तदृष्टादृष्टकारकविषयपरिज्ञानसिद्धेः कथमज्ञत्वं येनात्मनः सुखदुःखोत्पत्तौ हेतुत्वं न भवेत् यतश्च सर्वसंसारीश्वरप्रेरित एव स्वर्ग वा श्वभ्रं वा गच्छेदिति समंजसमालक्ष्यते । ततः किमीश्वरपरिकल्पनया दृष्टादृष्टकारकांतराणामेव क्रमाक्रमजन्मनामन्वयव्यतिरेकानुविधानात् क्रमा. क्रमजन्मानि तन्वादिकार्याणि भवंतु तदुपभोक्तृजनस्यैव ज्ञानवतः तदधिष्ठायकस्य प्रमाणोपपन्नस्य व्यवस्थापनात् । सांप्रतमभ्युपगम्यापि महेश्वरज्ञानं अस्वसंविदितं स्वसंविदितं वेति कल्पनाद्वितयसंभवे प्रथमकल्पनायां दृषणमाह
अस्वसंविदितं ज्ञानमीश्वरस्य यदीष्यते । तदा सर्वज्ञता न स्यात् स्वज्ञानस्यामवेदनात् ॥ ३६॥ ज्ञानांतरेण तद्वित्तौ तस्याप्यन्येन वेदनं । वेदनेन भवेदेवमनवस्था महीयसी ॥ ३७॥ गत्वा सुदूरमप्येवं स्वसंविदितवेदने। इण्यमाणे महेशस्य प्रथमं तादृगस्तु वः ॥ ३८॥ महेश्वरस्य हि विज्ञानं यष्टि - वेदयते स्वात्मनि क्रियाविरोधात्तदा समस्तकारकशक्तिनिकरपति सबेदर्यत् ते हि-नेश्वरज्ञानं सकलकारकशक्किमिकरसंवद्धक स्वासंवेदकत्वात् । चत्तासंवेदकं तत्तन्न
Page #57
--------------------------------------------------------------------------
________________
५२
श्रीविद्यानंदिस्वामिविरचिता
सकलकारकशक्तिनिकरसंवेदकं यथा चक्षुः, तथाचेश्वरज्ञानं तस्मान तथेति कुतः समस्तकारकाधिष्ठायकं यतस्तदाश्रयस्येश्वरस्य निखिलकार्योत्पत्तौ निमित्तकारणत्वं सिध्येत् असर्वज्ञताया एव तस्यैव प्रसिद्धेः । अथवा यदीश्वरस्य ज्ञानं स्वयमीश्वरेण न संवेद्यत इत्यस्वसंविदितमिष्यते तदा तस्य सर्वज्ञता न स्यात् स्वज्ञानप्रवेदनाभावात् । ननु च सर्व ज्ञेयमेव जानन् सर्वज्ञःकथ्यते न पुनर्ज्ञानं तस्याज्ञेयस्वात् । नच तदज्ञाते ज्ञेयपरिच्छित्तिर्न भवेत् चक्षुरपरिज्ञाने तत्परिच्छेद्यरूपापरिज्ञानप्रसंगात् । करणापरिज्ञानेऽपि विषयपरिच्छित्तेरविरोधादित्यपि नानुमंतव्यं । सर्वग्रहणेन ज्ञानज्ञेयज्ञातृज्ञप्तिलक्षणस्य तत्त्वचतुष्टयस्य प्रतिज्ञानात् 'प्रमाणं प्रमाता प्रमेयं प्रमितिरिति चतसृषु चैवंविधासु तत्त्वं परिसमाप्यत' इति वचनात् । तदन्यतमापरिज्ञानेऽपि सकलतत्त्वपरिज्ञानानुपपत्तेः कुतः सर्वज्ञतेश्वरस्य सिध्येत् । ज्ञानांतरेण स्वज्ञानस्यापि वेदनान्नाऽस्यासर्वज्ञतेति चेत् तर्हि तदपि ज्ञानांतरं परेण ज्ञानेन ज्ञातव्यमित्यभ्युपगम्यमानेऽनवस्था महीयसी स्यात् । सुदूरमप्यनुसृत्य कस्यचिद्विानस्य स्वार्थावभासनस्वभावत्वे प्रथमस्यैव सहस्रकिरणवत् स्वार्थावभासनस्वभावत्वमुररीक्रियतामलमस्वसंविदितज्ञानकल्पनया, स्वार्थव्यवसायात्मकज्ञानाभ्युपगमे च युष्माकं तस्य महेश्वराद्भदे पर्यनुयोगमाह
तत्स्वार्थव्यवसायात्मज्ञानं मिन्नं महेश्वरात् । कथं तस्योति निर्देश्यमाकाशादिवदंजसा ॥ ३९ ॥ समवायेन तस्यापि तद्भिन्नस्य कुतो मतिः। इहेदमिति विज्ञानादबाध्याद्यभिचारि तत् ॥४०॥ इह कुंडे दधीत्यादि विज्ञानेनास्तविद्विषा । साध्ये संबंधमात्रे तु परेषां सिद्धसाधनं ॥४१॥
Page #58
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
५३
यदि स्वार्थव्यवसायात्मकं ज्ञानमीश्वरस्याभ्यनुज्ञायते तस्यास्मदादिविशिष्टत्वात् तदा तदीश्वराद्भिन्नमभ्युपगंतव्यं । अभेदे सिद्धांतविरोधात् । तथा चाकाशादेखि कथं तस्येति व्यपदेश्यमिति पर्यनुयुंज्महे । स्यान्मतं भिन्नमपि विज्ञानं महेश्वरात्तस्येति व्यपदिश्यते तत्र समवायात्, नाकाशादेरिति निर्द्दिश्यते तत्र तस्यासमवायादिति । तदप्ययुक्तं, ताम्यामीश्वरज्ञानाभ्यां भिन्नस्य समवायस्यापि कुतः प्रतिपत्तिरिति पर्यनुयोगस्य तदवस्थत्वात् । इहेदमिति प्रत्ययविशेषाद्वाधकरहितात् समवायस्य प्रतिपत्तिः तथाहि इदमिहेश्वरे ज्ञानमिती हे दंप्रत्ययो विशिष्टपदार्थहेतुकः सकलबाधकरहितत्वे सतीहेदमिति प्रत्ययविशेषत्वात् यो यः सकलबाधकरहितत्वे सति प्रत्ययविशेषः स स विशिष्टपदार्थहेतुको दृष्टः यथा द्रव्येषु द्रव्यमित्यन्वयप्रत्ययविशेषः सामान्यपदार्थहेतुकः सकलपदार्थबाधकरहितत्वे सति प्रत्ययविशेषश्चेदमिति प्रत्ययविशेषः तस्माद्विशिष्टपदार्थहेतुक इत्यनुमीयते । योऽसौ विशिष्टः पदार्थस्तद्धेतुः स समवायः, पदार्थांतरस्य तद्धेतोरसंभवात्तद्धेतुकत्वायोगाच्च, न हीह तंतुषु पट इति प्रत्ययस्तंतु हेतुकः, तंतुषु तंतव इति प्रत्ययस्योत्पत्तेः नापि पटहेतुकः पटापट इति प्रत्ययस्योदयात् । नापि वासनाविशेष हेतुकः तस्याः कारणरहितायाः संभवाभावात् । पूर्वे तथाविधज्ञानस्य तत्कारणत्वे तदपि कुतो । हेतोरिति चिन्त्यमेतत् । पूर्वतद्वासनात इति चेन्न, अनवस्थाप्रसंगात् । ज्ञानवासनयोरनादिसंतानपरिकल्पनायां कुतो बहिरर्थसिद्धिरनादिवासना - बलादेव नीलादिप्रत्ययानामपि भावात् । नचैवं विज्ञानसंताननानात्वसिद्धिः संतानांतरग्राहिणो विज्ञानस्यापि संतानांतरमंतरेण वासनाविशेषादेव तथाप्रत्ययप्रसूतेः स्वप्नसंतानांतरप्रत्ययवत् । नानासंतानानभ्युपगमे चैकज्ञानसंतान सिद्धिरपि कुतः स्यात् । स्वसंतानाभावेऽपि ताहिणः प्रत्ययस्य
Page #59
--------------------------------------------------------------------------
________________
५४
श्रीविद्यानंदिस्वामिविरचिता
यस्थापगंतव्यं । तदस्यता वा साधनज्ञातः । तदनेन काय
भावात् स्वसंतानस्याप्यनिष्टौ संविदद्वैतं कुतः साधयेत् । स्वतःप्रतिभासनादिति चेन्न, तथा वासनाविशेषादेव स्वतःप्रतिभासस्यापि भावात् । शक्यं हि वक्तुं स्वतःप्रतिभासवासनावशादेव स्वतःप्रतिभासः संवेदनस्य न पुनः परमार्थत इति न किंचित्पारमार्थिक संवेदनं सिध्येत् । तथाच स्वरूपस्य स्वतोगतिरिति रिक्ता वाचोयुक्तिः । तदनेन कुतश्चित्किंचित्परमार्थतः साधयता दूषयता वा साधनज्ञानं दूषणज्ञानं वाऽभ्रांतं सालंबनमभ्युपगंतव्यं । तद्वत्सर्वमबाधितं ज्ञानं सालंबनमिति कथमिहेदमिति प्रत्ययस्याबाधितस्य निरालंबनता येन वासनामात्रहेतुरयं स्यात् । नापि निर्हेतुकः कदाचित्कत्वात् । ततोऽस्य विशिष्टः पदार्थो हेतुरभ्युपगंतव्य इति वैशेषिकाः तेऽप्येवं प्रष्टव्याः । कोऽसौ विशिष्टः पदार्थः समवायः संबंधमानं वा । न तावत्समवायः, तद्धेतुकत्वे साध्येऽस्येहेदमिति प्रत्ययस्येह कुंडे दधीत्यादिना निरस्तसमस्तबाधकेन प्रत्ययेन व्यभिचारित्वात् , तदपीहेदमिति विज्ञानमबाधं भवत्येव । नच समवायहेतुकं तस्य संयोगहेतुकत्वात् । संबंधमात्रे तु तन्निबंधने साध्ये परेषां सिद्धसाधनमेव, स्याद्वादिनां सर्वत्रेहेदं प्रत्ययस्याबाधितस्य संबंधमात्रनिबंधनत्वेन सिद्धत्वात् । स्यान्मतं । वैशेषिकाणामबाधितेहेदं प्रत्ययाल्लिंगात्सामान्यतः संबंधे सिद्धे विशेषेणावयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोः सामान्यतद्वतोर्विशेषतद्वतोश्च यः संबंध इहेदं प्रत्ययलिंगः स समवाय एव भविष्यति लक्षणविशेषसंभवात् । तथा हि " अयुतसिद्धानामाधार्याधारभूतानामिहेदं प्रत्ययलिंगो यः संबंधः स समवाय इति प्रशस्तकरः" । तत्र इहेदं प्रत्ययलिंगः समवाय इत्युच्यमानेऽतरालाभावनिबंधनेन इह ग्रामे वृक्ष इति इहेदं प्रत्ययेन, व्यभिचारात् संबंध इति वचनं । संबंधो हि इहेदप्रत्ययलिंगो यः स एव समवाय इष्यते नचांतरालाभावो ग्राम
Page #60
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
वृक्षाणां संबंध इति न तेन व्यभिचारः । तथापि इहाकाशे शकुनिरिति इहेदं प्रत्ययेन संयोगसंबंधमात्रंनिबंधनेन व्यभिचार इत्याधाराधेयभूतानामिति निगद्यते । न हि यथाऽवयवावयव्यादीनामाधाराधेयभूतत्वमुभयोः प्रसिद्धं तथा शकुन्याकाशयोरौत्तराधर्यायोगात् आकाशस्य सर्वगतत्वेन शकुनेरुपर्यपि भावादधस्तादिवेति न तत्रेहेदंप्रत्ययेन व्यभिचारः । नन्वाकाशस्यातींद्रियत्वात्तदस्मदादीनामिहेदं प्रत्ययस्यासंभवात् कथं तेन व्यभि. चारचोदना साधीयसीति न मंतव्यं । कुतश्चिल्लिंगादनुमितेऽप्याकाशे श्रुतिप्रसिद्धेर्वा कस्यचिदिहेदमिति प्रत्ययाविरोधात् तत्र, भ्रांतेन वा केषां चिदिहेदमिति प्रत्ययेन व्यभिचारचोदनायाः न्यायप्राप्तत्वात् तत्परिहारार्थमाधाराधेयभूतानामिति वचनस्योपपत्तेः । नन्वेवमपीह कुंडे दधीति प्रत्ययेनानेकांतस्तस्य संयोगनिबंधनत्वेन समवायाहेतुत्वादिति न शंकनीयमयुतसिद्धानामिति प्रतिपादनात् । नहि यथावयवावयव्यादयोऽयुतसिद्धास्तथा दधिकुंडादयः तेषां युतसिद्धत्वात् । तमुयुतसिद्धानामेवेति वक्तव्य माधाराधेयभूतानामिति वचनस्याभावेऽपि व्यभिचाराभावादिति न चेतसि विधेयं । वाच्यवाचकभावेनाकाशाकाशशब्दयोर्व्यभिचारात् । इहाकाशे वाच्ये वाचक आकाशशब्द इति इहेदप्रत्ययलिंगस्यायुतसिद्धसंबंधस्य वाच्यवाचकभावप्रसिद्धेः तेन व्यभिचारोपपत्तेराधाराधेयभूतानामिति वचनस्योपपत्तेः । नन्वाधाराधेयभूतानामयुतसिद्धानामपि संबंधस्य विषयविषयिभावस्य सिद्धेः कुतः समवायसिद्धिः । नह्यात्मनि-इच्छादीनां ज्ञानमयुतसिद्धं न भवति । तथाहमितिज्ञानमाधाराधेयभावस्याप्यत्र भावात् नचाहमितिप्रत्ययस्यात्मविषयस्यायुतसिद्धस्यात्माधारस्य विषयविषयिभावोऽसिद्ध इति कुतस्तयोः समवाय एव सिध्येदिति न वक्तव्यं । आधाराधेयभूतानामेवायुतसिद्धानामेवेति चावधारणात् । वाच्यवाचकभावे
Page #61
--------------------------------------------------------------------------
________________
५६
श्रीविद्यानंदिस्वामिविरचिता
wwwwwwwmmmmmmmmmmmmmmmmmmmmmmm
हि युतसिद्धानामनाधाराधेयभतानां च प्रतीयते विषयविषयिभाववत् । ततोऽनेनानवधारितविषयेण न व्यभिचारः संभाव्यते । नन्वेवमयुतसिद्धानामेवेत्यवधारणाव्यभिचाराभावादाधाराधेयभूतानामिति वचनमनर्थकं स्यात् आधाराधेयभूतानामेवेत्यवधारणे सत्ययुतसिद्धानामिति वचनवत् विषयविषयिभावस्य वाच्यवाचकभावस्य च युतसिद्धानामप्यनाधार्याधारभूतानामिव संभवात् तेन व्यभिचाराभावादिति च न मननीयं । घटायेकद्रव्यसमवायिनां रूपरसादीनामयुतसिद्धानामेव परस्परं समवायाभावादेकार्थसमवायेन संबंधेन व्यभिचारात् । नह्ययं युतसिद्धानामपि संभवति विषयविषयिभाववद्वाच्यवाचकभाववद्वा ततोऽयुतसिद्धानामेवेत्यवधारणेऽपि व्यभिचारनिवृत्त्यर्थमाधार्याधारभूतानामिति वचनं । तथाऽऽधार्याधारभूतानामेवेति वचनेऽप्याधाराधेयभावेन संयोगविशेषेण सर्वथाऽनाधार्याधारभूतानामसंभवता व्यभिचारः संभाव्यत एव तन्निवृत्यर्थमयुतसिद्धानामेवेति वचनमर्थवदेवेति निरवद्यमयुतसिद्धत्वाधार्याधारभूतत्वलक्षणं संयोगादिभ्यो व्यवच्छेदकं संबंधस्येहेदं प्रत्ययलिंगेन व्यवस्थापितस्य समवायस्वभावत्वं साधयत्येव । अतः संबंधमात्रेऽपि साध्ये न सिद्धसाधनमिति वैशेषिकाः संचक्षते तेषामयुतसिद्धानामिति वचनं तावंद्विचार्यते । किमिदमयुतसिद्धत्वं नामविशेषणं, वैशेषिकशास्त्रापेक्षया लोकापेक्षया वा स्यात् । उभयथापि न साध्वित्याह
सत्यामयुतसिद्धौ चेन्नेदं साधुविशेषणं । शास्त्रीयायुतसिद्धत्वविरहात्समवायिनोः ॥ ४२ ॥ द्रव्यं स्वावयवाधारं गुणो द्रव्याश्रयो यतः लौकिक्ययुतसिद्धिस्तु भवेद्दुग्धांभसोरपि ॥४३॥ १ अयुतसिद्धभिन्नानामित्यर्थः
Page #62
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
mmmmmmmmmmmmmm इह तंतुषु पट इत्यादिरिहेदं प्रत्ययः समवायसंबंधनिबंधन एव, निर्बाधत्वे सत्ययुतसिद्धेहेदंप्रत्ययत्वात् । यस्तु न समवायसंबंधनिबंधनः स नैवं यथेहसमवायिषु समवाय इति वाध्यमानेहेदं प्रत्ययः । इह कुंडे दधीति युतसिद्धेहेदं प्रत्ययश्च । निर्बाधत्वेसत्ययुतसिद्धेहेदं प्रत्ययश्चायमिह तंतुषु पट इत्यादिः, तस्मात्समवायसंबंधनिबंधन इति केवलव्यतिरेकी हेतुरसिद्धत्वादिदोषरहितत्वात् स्वसाध्याविनाभावी समवायसंबंधं साधयतीति परैरभिधीयते सत्यामयुतसिद्धाविति वचनसामर्थ्यात् । तत्रेदमयुतसिद्धत्वं यदि शास्त्रीयं हेतोर्विशेषणं तदा न साधु प्रतिभासते समवायिनोरवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोः सामान्यतद्वतोविशेषतद्वतोश्च शास्त्रीयस्यायुतसिद्धत्वस्य विरहात् वैशेषिकशास्त्रे हि प्रसिद्धम्- अपृथगाश्रयवृत्तित्वमयुतसिद्धत्वं' । तच्चेह नास्त्येव यतःकारणद्रव्यं तंतुलक्षणं स्वावयवांशेषु वर्तते कार्यद्रव्यं च पटलक्षणं स्वावयवेषु तंतुषु वर्तत इति स्वावयवाधारमित्यनेनावयवावयविनोः पृथगा श्रयवृत्तित्वसिद्धेरपृथगाश्रयवृत्तित्वमसदेवेति प्रतिपादितं, यतश्च गुणः कार्यद्रव्याश्रयो रूपादि । कार्यद्रव्यं तु स्वावयवाधारं प्रतीयते तेन गुणगुणिनोरपृथगाश्रयवृत्तित्वमसंभाव्यमानं निवेदितं । एतेन क्रियायाः कार्यद्रव्यवर्तनात्कार्यद्रव्यस्य च स्वावयवेषु, क्रियाक्रियावतोरपृगाश्रयवृत्तित्वाभावः कथितः । तथा सामान्यस्य द्रव्यत्वादेर्द्रव्यादिषु वृत्तेद्रव्या दीनां च स्वाश्रयेषु, सामान्यतद्वतोः पृथगाश्रयवृत्तित्वं ख्यापितं । तथैवापरविशेषस्य कार्यद्रव्येषु प्रवृत्तेः कार्यद्रव्याणां च स्वावयवेषु विशेषतद्वतोरपृथगाश्रयवृत्तित्वं निरस्तं वेदितव्यं । ततो न शास्त्रीयायुतसिद्धिःसमवायिनोरस्ति या तु लौकिकी लोकप्रसिद्धैकभाजनवृत्तिः सा दुग्धांभसोरपि युतसिद्धयोरस्तीति तयापि सत्या नायुतसिद्धत्वं समवायिनोः साधीय
Page #63
--------------------------------------------------------------------------
________________
५८
श्रीविद्यानंदिस्वामिविरचिता
इति प्रतिपत्तन्यं ।
पृथगाश्रयवृत्तित्वं युतसिद्धिर्नचानयोः। सास्तीशस्य विभुत्वेन परद्रव्याश्रितिच्युतेः॥४४॥ ज्ञानस्यापीश्वरादन्यद्रव्यवृत्तित्वहानितः । इति येऽपि समादध्युस्तांश्च पर्यनुयुंज्महे ॥ ४५ ॥ विभुद्रव्यविशेषाणामन्याश्रयविवेकतः। युतसिद्धिः कथं नु स्यादेकद्रव्यगुणादिषु ॥४६॥ समवायः प्रसज्येतायुतसिद्धौ परस्परं ।। तेषां तद्वितयासत्वे स्यादव्याघातो दुरुत्तरः॥४७॥
ननु च पृथगाश्रयवृत्तित्वं युतसिद्धिः पृथगाश्रयाश्रयित्वं युतसिद्धिः इति वचनात् । पृथगाश्रयसमवायो युतसिद्धिरिति वदतां समवायस्य विवादाध्यासितत्वाल्लक्षणासिद्धिप्रसंगात् । लक्षणस्याकारकत्वेन ज्ञापक त्वेऽपि तेन सिद्धेन भवितव्यं । असिद्धस्य विवादाध्यासितस्य संदिग्धत्वात् तल्लक्षणत्वायोगात् । सिद्धं हि कस्यचिद्भदकं लक्षणमुपपद्यते नान्यथेति लक्ष्यलक्षणभावविदो विभावयंति । तत्र युतसिद्धत्वमीश्वरज्ञानयो स्त्येव महेश्वरस्य विभुत्वान्नित्यत्वाच्चान्यद्रव्यवृत्तित्वाभावान्महेश्वरादन्यत्र तद्विज्ञानत्वस्याप्रवृत्तेः पृथगाश्रयवृत्तित्वाभावात् । कुंडस्य हि कुंडावयवेषु वत्तिर्दध्नश्च दध्यवयवेष्विति कुंडावयवदध्यवयवाख्यौ पृथग्भूतावाश्रयौ तयोश्च कुंडस्य दध्नश्च वृत्तिरिति पृथगाश्रयवृत्तित्वं तयोरभिधीयते । न चैवंविधं पृथगाश्रयाश्रयित्वं समवायिनोः संभवति तंतूनां स्वावयवेष्वंशुषु यथा वृत्तिः न तथा पटस्य तंतुव्यतिरिक्त क्वचिदाश्रये न ह्यत्र चत्वारोऽर्थाः प्रतीयते-द्वावाश्रयौ पृथग्भूतौ द्वौ चाश्रयिणाविति । तंतोरेव स्वावयवापेक्षयाश्रयित्वात्पटापेक्षया वाश्रयत्वात्त्रयाणामेवार्थानां प्रसिद्धेः
Page #64
--------------------------------------------------------------------------
________________
आप्तपरीक्षा। पृथगाश्रयाश्रयित्वस्य युतसिद्धिलक्षणस्याभावादयुतसिद्धत्वं शास्त्रीयं समवायिनोः सिद्धमेव ततोऽयुतसिद्धत्वविशेषणं साध्वेवासिद्धत्वाभावात् । लौकिक्ययुतसिद्धत्वं तु प्रतीतिबाधितं नाभ्युपगम्यत एव ततः सविशेषणाद्धेतोः समवायसिद्धिरिति येऽपि समादधते विदग्धवैशेषिकास्तांश्च पर्यनुयुंज्महे । विभुद्रव्यविशेषाणामात्माकाशादीनां कथं तु युतसिद्धिः परिकल्पते भवद्भिस्तेषामन्याश्रयविरहात् पृथगाश्रयाश्रयित्वासंभवात् । नित्यानां च पृथग्गतिमत्वं युतसिद्धिरित्यपि न विभुद्रव्येषु संभवति तद्धि. पृथग्गतिमत्त्वं द्विधाभिधीयते कैश्चित् । अन्यतरपृथग्गतिमत्वं उभयपृथग्गतिमत्त्वं चेति । तत्र परमाणुविभुद्रव्ययोरन्यतरपृथग्गतिमत्त्वं परमाणोरेव गतिमत्त्वात् विभुद्रव्यस्य तु निःक्रियत्वेन गतिमत्त्वाभावात्, परमाणूनां तु परस्परमुभयपृथग्गतिमत्त्वमुभयोरपि परमाण्वोः पृथक् पृथग्गतिमत्त्वसंभवात् । नचैतद्वितयमपि परस्पर विभुद्रव्यविशेषाणां संभवति । तथैकद्रव्याश्रयाणां गुणकर्मसामान्यानां च परस्परं पृथगाश्रयवृत्तेरभावात् युतसिद्धिः कथं नु स्यादिति वितर्कयंतु भवंतः । तेषां युतसिद्धयभावे चायुतसिद्धौ. सत्यां समवायोऽन्योन्यं प्रसज्येत स च नेष्टः तेषामाश्रयाश्रयिभावाभावात् । अत्र केचिद्विभुद्रध्यविशेषाणामन्योन्यं नित्यसंयोगमासंचक्षते तस्य कुतश्चिदजातत्वात् । नह्ययमन्यतरकर्मजो यथा स्थाणोः श्येनेन, विभूनां च. मूर्तेः, नाप्युभयकर्मजो यथा मेषयोर्मल्लयोर्वा । न च संयोगजो यथा द्वितंतुकवीरणयोः शरीराकाशयोर्वा । स्वावयवसंयोगपूर्वको ह्यवयविनः केनचित्संयोगः प्रसिद्धः । न चाकाशादीनामवयवाःसंति निरवयवत्वात् ततो न तत्संयोगपूर्वकः परस्परं संयोगो यतः संयोगजःस्यात् । प्राप्तिस्तु तेषां सर्वदाऽस्तीति तल्लक्षणसंयोगः, अज(नित्य एवाभ्युपगन्तव्यः। तत्सिद्धेश्च युतसिद्धिस्तेषां प्रतिज्ञातव्या । युतसिद्धानामेव संयोगस्य निश्चयात् ।।
Page #65
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
नचैवं ये ये युतसिद्धास्तेषां सह्यहिमवदादीनामपि संयोगः प्रसज्यते तथान्याप्तेरभावात् । संयोगेन हि युतसिद्धत्वं व्याप्तं न युतसिद्धत्वेन संयोगः ततो यत्र यत्र संयोगस्तेषां तत्र तत्र युतसिद्धिरित्यनुमीयते कुंडबदरादिवत् । एवं चैकद्रव्याश्रयाणां गुणादीनां संयोगस्यासंभवान्न युतसिद्धिः तस्य गुणत्वेन द्रव्याश्रयत्वात् तदभावान्न युतसिद्धिः, नाप्ययुतसिद्धिरस्तीति समवायः प्राप्नुयात् , तस्येहेदं प्रत्ययलिंगत्वादाधार्याधारभूतपदार्थविषयत्वाच्च । नचैते परस्परमाधार्याधारभूताःस्वाश्रयेण द्रव्येण सहाधार्याधारभावात् । नचेहेदमिति प्रत्ययस्तत्राबाधितः संभवति यलिंगः संबंधः समवायो व्यवस्थाप्यते । न हीह रसे रूपं कर्मेतिचाबाधितः प्रत्ययोऽस्ति नापीह सामान्ये कर्म गुणो वेति न ततः समवायःस्यात् नहि यत्र यत्रायुतसिद्धिस्तत्र तत्र समवाय इति व्याप्तिरस्ति यत्र यत्र समवायस्तत्र तत्रायुतसिद्धिरितिव्याप्तेः संप्रत्ययादिति सर्व निरवयं परोक्तदूषणानवकाशात् इति त एवं वदन्तः शंकरादयोऽपि पर्यनुयोज्याः । कथं पृथगाश्रयाश्रयित्वं युतसिद्धिः नित्यानां च पृथम्गतिमत्वमिति युतसिद्धलक्षणद्वयमव्यापि न स्यात् तस्य विभुद्रव्येष्वनसंयोगेनानुमितायां युतसिद्धावभावात् । यदि पुनरेतल्लक्षणद्वयव्यतिक्रमेण संयोगहेतुर्युतसि. द्धिरिति लक्षणांतरमुररीक्रियते तदा कुंडबदरादिषु परमाण्वाकाशादिषु परमाणुष्वात्ममनस्सु विभुद्रव्येषु च परस्परं युतसिद्धर्भावाल्लक्षणस्याव्याप्त्यसंभवदोषपरिहारेऽपि कर्मापि युतसिद्धिं प्राप्नोति तस्यापि संयोगे हेतुत्वाददृष्टेश्वरकालादेरिवेति दुःशक्यातिव्याप्तिः परिहतु । संयोगस्यैव हेतुरित्यवधारणाददोषोऽयमिति चेन्न । एवमपि हिमवद्विध्यादीनां युतसिद्धेःसंयोगाहेतोरपि प्रसिद्धलक्षणस्याव्याप्तिप्रसङ्गात् । हेतुरेव संयोगस्येत्यवधारणादयमपि न दोष इति चेन्नैवमपि संयोगाहेतोर्युतसिद्धेः प्रसंगात् । संयोगस्यैव हेतुर्युतसिद्धिरित्यवधारणेऽपि विभागहेतुर्युतसिद्धिः
Page #66
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
कथमिव व्यवस्थाप्यते । न च युतसिद्धानां संयोग एव विभागस्यापि भावात्। न संयोगोविभागहेतुरित्यपिवात । तस्य तद्विरोधिगुणत्वात् तद्विनाशहेतुत्वात्। संयुक्तविषयत्वाद्विभागस्य संयोगो हेतुरिति चेन्न तर्हि विभक्तविषयत्वात्संयोगस्य विभागो हेतुरस्तु । कयोश्चित्विभक्तयोरप्युभयकर्मणोऽन्यतरकर्मणोऽवयवसंयोगस्य चापाये संयोगापायान्न विभागः संयोगहेतुरितिचेत् तर्हि संयुक्तयोरप्युभयकर्मणोऽन्यतरकर्मणोऽवयवविभागस्य चापाये विभागस्याभावात्संयोगो विभागस्यापि हेतु भूत् । कथं च शश्वदविभक्तानां विभुद्रव्यविशेषाणामजः संयोगः सिध्यन् विभागहेतुको व्यवस्थाप्यते । तत्र युतसिद्धिर्विभागहेतुरपि कथमवस्थाप्यते इति चेत् सर्वस्य हेतोः कार्योत्पादनानियमादिति ब्रूमः । समर्थो हि हेतुःस्वकार्यमुत्पादयति नासमर्थः सहकारिकारणानपेक्षोऽतिप्रसंगात् । तेन यथा हिमवद्विभ्यादीनां युतसिद्धिविद्यमानापि न संयोगमुपजनयति सहकारिकारणस्य कर्मादेरभावात् तथा विभुद्रव्यविशेषाणां शाश्वतिका युतसिद्धिः सत्यपि न विभाग, सहकारिकारणस्याऽन्यतरकर्मादेरभावादिति संयोगहेतुं युतसिद्धिमभ्यनुजानंतो विभागहेतुमपि तामभ्यनुजानंतु सर्वथाविशेषाभावात् । तथा च संयोगस्यैव हेतुयुतसिद्धिरित्यपि लक्षणं न व्यवतिष्ठत एव लक्षणाभावे च न युतसिद्धिः। नापि युतसिद्धयमावलक्षणा स्यादयुतसिद्धिरिति युतसिद्धययुतसिद्धिद्वितयापाये व्याघातो दुरुत्तरः स्यात् सर्वत्र संयोगसमवाययोरभावात् । संसर्गहानेः सकलार्थहानिःस्यादित्यभिप्रायः । संयोगापाये तावदात्मांतःकरणासंयोगाद् बुद्धयादिगुणोत्पत्तिर्न भवेत् तदभावे च आत्मनोव्यवस्थापनोपायापायादात्मतत्वहानिः । एतेन भेरीदंडाद्याकाशसंयोगाभावाच्छब्दस्यानुत्पत्तेराकाशव्यवस्थापनोपायासत्वादाकाशहानिरुक्ता सर्वत्रावयवसंयोगाभावात्तद्विभागस्याप्यनुपपत्तेस्तन्निमित्तस्यापि शब्दस्याभा
Page #67
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
६२
वात् । एतेन परमाणुसंयोगाभावाद्द्द्व्यणुकादिप्रक्रमेणावयविनोऽनुत्पत्तेस्तत्र परापरादिप्रत्ययापायात् इदमतः पूर्वेणेत्यादिप्रत्ययापायाच्च न कालो दिक् च व्यवतिष्ठत इत्युक्तं । तथा समवायासच्चे सकल समवायिनामभावान्न मनः परमाणवोऽपि संभाव्यंते इति सकलद्रव्यपदार्थ ह । नेस्तदाश्रयगुणकर्मसामान्यविशेषपदार्थहानिरपीति सकलपदार्थव्याघातात् दुरुत्तरो वैशेषिकमतस्य व्याघातःस्यात् । तं परिजिहीर्षता युतसिद्धिः कुतश्चिद्वयवस्थापनीया । तत्र -
युतप्रत्ययहेतुत्वाद्युतसिद्धिरितीरणे ।
विभुद्रव्यगुणादीनां युतसिद्धिः समागता ॥ ४८ ॥
यथैव हि कुंड बदरादिषु युतप्रत्यय उत्पद्यते कुंडादिभ्यो बदरादयो युता इति तथा विभुद्रव्यविशेषेषु प्रकृतेषु गुणगुणिषु क्रियाक्रियावत्सु सामान्य- तद्वत्सु विशेषतद्वत्सु चावयवावयविषु च युतप्रत्ययो भवत्येवेति युतसिद्धिः समागता सर्वत्रायुतप्रत्ययस्याभावात् । देशभेदाभावात्तत्र न युतप्रत्यय इति चेन्न । वाताऽऽतपादिषु युतप्रत्ययानुत्पत्तिप्रसंगात् । तेषां स्वावयवेषु भिन्नेषु देशेषु वृत्तेस्तत्र युतप्रत्यय इति चेत् किमेवं तंतुपटादिषु पटरूपादिषु च युतप्रत्ययः प्रतिषिध्यते स्वाश्रयेषु भिन्नेषु वृत्तेरविशेषात् तथा च न तेषामयुतसिद्धिः । ततो न युतप्रत्ययहेतुत्वेन युतसिद्धिर्व्यवतिष्ठते । तदन्यवस्थानाच्च किं स्यादित्याह
ततो नायुतसिद्धिः स्यादित्यसिद्धं विशेषणं । हेतोर्विपक्षतस्तावद्यवच्छेदं न साधेयत् ॥ ४९ ॥ सिद्धेऽपि समवायस्य समवायिषु दर्शनात् । इदमिति संवित्तेः साधनं व्यभिचारि तत् ॥ ५० ॥
Page #68
--------------------------------------------------------------------------
________________
आप्तपरीक्षा। .. । तदेवमयुतसिद्धरसंभवे सत्यामयुतसिद्धाविति विशेषणं तावदसिद्धविपक्षादसमवायात्संयोगादेर्व्यवच्छेदं न साधयेत् संयोगादिना व्यभिचारस्याबाधितेहेदप्रत्ययस्य हेतोर्दुःपरिहारत्वात् केवलमभ्युपगम्यायुतसिद्धत्वं विशेषणं हेतोरनैकान्तिकत्वमुच्यते । सिद्धेऽपि विशेषणे साधनस्येह समधायिषु समवायइत्ययुतसिद्धबाधितहेदंप्रत्ययेन साधनमेतत् व्यभिचारि कथ्यते । नह्ययमयुतसिद्धबाधितेहेदं प्रत्ययः समवायहेतुक इति । नन्वबाधितत्वविशेषणमसिद्धमिति परमतमाशंक्याह-- समवायांन्तराद्वृत्तौ समवायस्य तत्त्वतः । समवायिषु तस्यापि परस्मादित्यनिष्ठितिः॥५१॥ तद्वाधास्तीत्यबाधत्वं नाम नेह विशेषणं । हेतोःसिद्धमनेकांतो यतोऽनेनेति ये विदुः ॥ ५२ ॥ तेषामिहेति विज्ञानाद्विशेषणविशेष्यता । समवायस्य तद्वत्सु तत एव न सिध्यति ॥ ५३ ।। विशेषणविशेष्यत्वसंबंधोऽप्यन्यतो यदि। स्वसंबंधिषु वर्तेत तदा बाधाऽनवस्थितिः ॥ ५४ ॥
इह समवायिषु समवाय इति समवायसमवायिनोरयुतसिद्धत्वे समवायस्य पृथगाश्रयाभावात्प्रसिद्धे सतीहेदमिति संवित्तरबाधितत्वविशेषणस्याभावात् न तया साधन व्यभिचरेत्, तत्रानवस्थाया बाधिकायासद्भावात् । तथाहि-समवायिषु समवायस्य वृत्तिः समवायांतराद्यदीष्यते तदा तस्यापि समवायांतरस्य समवायसमवायिषु स्वसंबंधिषु वृत्तिरपरापरसमवायरूपैषितव्या । तथाचापरापरसमवायपरिकल्पनायामनिष्ठिति स्यात् । तथैक एव समवायस्तत्त्वं भावेन व्याख्यातमिति सिद्धांतस्य चानिष्ठितिः सैवेहेदमिति प्रत्ययस्य बाधा ततो नाबाधत्वं नाम विशेषणं हेतोर्येनाऽ
Page #69
--------------------------------------------------------------------------
________________
६४
श्रीविद्यानंदिस्वामिविरचिता
नेकांतः स्यादिति ये वदति तेषां विशेषणविशेष्यत्वसंबंधोऽपि समवायिषु इति प्रत्ययान्न सिध्येदनवस्थायाः सद्भावात् विशेषणविशेष्यभावो हि समवायसमवायिनां परैरिष्टः समवायस्य विशेषणत्वात् समवायिनां विशेष्यत्वात् अन्यथा समवायप्रतिनियमानुपपत्तेः । सच समवायसम - वायिभ्योऽर्थान्तरमेव न पुनरनर्थान्तरं समवायस्यापि समवायिभ्यो ऽनर्थौतरापत्तेः सचार्थांतरभूतो विशेषणविशेष्यभावः संबंधः स्वसंबंधिषु परस्मादेव विशेषणविशेष्यभावात्प्रतिनियतः स्यात् नान्यथा तथाचापरापरविशेषणः विशेष्यभावपरिकल्पनायामनवस्था बाधा तदवस्यैव ततस्तया सबाधादिहेदमिति प्रत्ययाद्विशेषणविशेष्यभावोऽपि न सिध्येदिति कुतः समवायप्रतिनियमः क्वचिदेव समवायिषु परेषां स्यात् ।
विशेषणविशेष्यत्वप्रत्यायादवगम्यते । विशेषणविशेष्यत्वमित्यप्येतेन दूषितं ॥ ५५ ॥
यथेह समवायिषु समवाय इतीहेदप्रत्ययादनवस्थया बाध्यमानात् समवायवद्विशेषणविशेष्यभावो न सिध्येदिति तथा विशेषणविशेष्यत्वप्रत्ययादप्यनवस्थया बाध्यमानत्वाविशेषात् ततोऽनेने हेदप्रत्ययदूषणेन विशेषणविशेष्यत्वप्रत्ययोऽपि दषित एव तेनैव च तद्दूषणेन विशेषणविशेष्यत्वं सर्वत्र दूषितमवगम्यतां । अत्रानवस्थापरिहारं परेषामाशंक्य निराचष्टे ।
तस्यानंत्यात्प्रपतॄणामाकांक्षाक्षयतोऽपि वा । न दोष इति चेदेवं समवायादिनापि किं ॥ ५६ ॥ गुणादिद्रव्ययोर्भिन्नद्रव्ययोश्च परस्परं । विशेषणविशेष्यत्व संबंधोऽस्तु निरंकुशः ॥ ५७ ॥
Page #70
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
संयोगः समवायो वा तद्विशेषोऽस्त्वनेकधा। . . स्वातंत्र्ये समवायस्य सर्वथैक्ये च दोषतः॥५८॥
तस्य विशेषणविशेष्यभावस्यानंत्यातसमवायवदेकत्वानभ्युपगमात् नानवस्था दोषो यदि परैः कथ्यते प्रपतृणामाकांक्षाक्षयतोऽपि वा यत्र यस्य प्रतिपत्तुर्व्यवहारपरिसमाप्तेराकांक्षाक्षयः स्यात् तत्रापरविशेषणविशेष्यमावानन्वेषणादनवस्थानुपपत्तेः तदा समवायादिनापि परिकल्पितेन न किंचित्फलमुपलभामहे समवायिनोरपि विशेषणविशेष्यभावस्यैवाभ्युपगमनीयत्वात संयोगिनोरपि विशेषणविशेष्यमावानतिक्रमात् । गुणद्रव्ययोः क्रियाद्रव्ययोद्रव्यत्वद्रव्ययोःगुणत्वगुणयोः कर्मत्वकर्मणोः गुणत्वद्रव्ययोः कर्मत्वद्रव्ययोविशेषद्रव्ययोश्च द्रव्ययोरिव विशेषणविशेष्यत्वस्य साक्षात्परंपरया वा प्रतीयमानस्य वाधकाभावात् । यथैव हि गुणिद्रव्यं क्रियावद्द्व्यं द्रव्यत्ववद्रव्यं विशेषवद्रव्यं गुणत्ववान्गुणः कर्मत्ववत्कर्मेत्यत्र साक्षाद्विशेषणविशेष्यभावः प्रतिभासते दंडिकुंडलिवत् तथा परंपरया गुणत्ववद्रव्यमित्यत्र गुणस्य द्रव्यविशेषणत्वात् गुणत्वस्य च गुणविशेषणत्वात् विशेषणविशेष्यभावोऽपि, तथा कर्मत्ववद्व्यमित्यत्रापि कर्मत्वस्य कर्मविशेषणत्वात् कर्मणो द्रव्यविशेषणत्वात् विशेषणविशेष्यभाव एव निरंकुशोऽस्तु । ननु च दंडपुरुषादीनामवयवावयव्यादीनां च संयोगः समवायश्च विशेषणविशेष्यभावहेतुः संप्रतीयते तस्य तद्भाव एव भावादिति न मंतव्यं, तदभावेऽपि विशेषणविशेष्यभावस्य सद्भावात् धर्मधर्मिवत् भावाभाववद्वा । नहि धर्मधर्मिणोः संयोगः, तस्य द्रव्यनिष्ठत्वात् । नापि समवायः परैरिष्यते, समवायतदस्तित्वयोः समवायांतरप्रसंगात् । तथा न भावाभावयोः संयोगः समवायो वा परैरिष्टः सिद्धांतविरोधात् तयोर्विशेषणविशेष्यभावस्तु तैरिष्टो दृष्टश्चेति न संयोगसमवायाभ्यां विशेषणविशेष्यभावो
Page #71
--------------------------------------------------------------------------
________________
६६
श्रीविद्यानंदिस्वामिविरचिताwwwwwwwwwmmmmmmmmmmmmmmmmmmm व्याप्तः, तेन तयोर्व्याप्तत्वसिद्धिः न हि विशेषणविशेष्यभावस्याभावे कयोश्चित्संयोगः समवायो वा व्यवतिष्ठते । क्वचिद्विशेषणविशेष्यमावाविवक्षायां तु संयोगसमवायव्यवहारो न विशेषणविशेष्यभावस्याव्यापकत्वं व्यवस्थापयितुमलं, सतोऽप्यर्थित्वादेर्विवक्षानुपपत्तेव्यापकत्वप्रसिद्धेः । ततःसंयोगः समवायोवा अन्योवाऽविनाभावादिः संबंधस्तस्यैव विशेषणविशेष्यभावस्य विशेषोऽस्तु । ननु च समवायस्य स्वतंत्रत्वादेकत्वाच्च कथमसौ तद्विशेषः स्थाप्यत इतिचेन्न समवायस्य स्वतंत्रत्वे सर्वथैकत्वे च दोषसद्भावात् । तथाहि--
स्वतंत्रस्य कथं तावदाश्रितत्वं स्वयं मतं । तस्याश्रितत्ववचने स्वातंत्र्यं प्रतिहन्यते ॥ ५९॥ समवायिषु सत्स्वेव समवायस्य वेदनात् । आश्रितत्वे दिगादीनां मूर्तद्रव्याश्रितिर्न किं ॥६०॥ कथं चानाश्रितः सिद्धयेत्संबंधः सर्वथा क्वचित् । स्वसंबंधिषु येनातः संभवेनियतस्थितिः ॥६१ ॥ एक एव च सर्वत्र समवायो यदीष्यते । तदा महेश्वरे ज्ञानं समवैति न खे कथं ॥ ६२॥ इहेति प्रत्ययोऽप्येष शंकरे न तु खादिषु । इति भेदःकथं सिद्धयेन्नियामकमपश्यतः॥ ६३॥ न चाचेतनता तत्र संभाव्येत नियामिका । शंभावपि तदास्थानात् खादेस्तदविशेषतः॥ ६४॥ नेशो ज्ञाता न चाज्ञाता स्वयं ज्ञानस्य केवलं । समवायात्सदा ज्ञाता यद्यात्मैव स किं स्वतः ॥६५॥
Page #72
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
६७
नायमात्मा न चानात्मा स्वात्मत्वसमवायतः । सदात्मैवेतिदेवं द्रव्यमेव स्वतोसिधत् ॥६६॥ नेशो द्रव्यं न चाद्रव्यं द्रव्यत्वसमवायतः। सर्वदा द्रव्यमेवेति यदि सन्नेव स स्वतः॥ ६७ ॥ न स्वतः सन्नसन्नापि सत्त्वेन समवायतः। सन्नेव शश्वदित्युक्तो व्याधातः केन वार्यते ॥ ६८ ॥ स्वरूपेणासतः सत्वसमवाये च खांबुजे । स स्यात् किं न विशेषस्याभावात्तस्य ततोऽजसा ६९ स्वरूपेण सतःसत्त्वसमवायेऽपि सर्वदा। सामान्यादी भवेत्सत्वसमवायो विशेषतः॥ ७० ॥ स्वतः सतो यथा सत्त्वसमवायस्तथाऽस्तु सः। द्रव्यत्वात्मत्वबोद्धृत्वसमवायोपि तत्त्वतः॥ ७१ ॥ द्रव्यस्यैवात्मनो बोद्धःस्वयं सिद्धस्य सर्वदा । नहि स्वतोऽतथाभूतस्तथात्वसमवायभाक् ।। ७२ ॥ स्वयं ज्ञत्वे च सिद्धेऽस्य महेशस्य निरर्थकं । ज्ञानस्य समवायेन ज्ञत्वस्य परिकल्पनं ॥७३॥ तत्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः। कथंचिदीश्वरस्याऽस्ति जिनेशत्वमसंशयं ॥ ७४ ॥ स एव मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । सदेहःसर्वविन्नष्टमोहो धर्मविशेषभाक् ॥ ७५ ॥ ज्ञानादन्यस्तु निर्देहः सदेहो वा न युज्यते । शिवाकर्तोपदेशस्य सोऽभेत्ता कर्मभूभृतां ॥ ७६ ॥ स्वतंत्रत्वे हि समवायस्य " षण्णामाश्रितत्वम् अन्यत्र नित्यद्रव्येभ्य"
Page #73
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
इति कथमाश्रितत्वं स्वयं वैशेषिकैरिष्टमिति तंत्रविरोधो दोषः । तस्याश्रितत्वप्रतिपादने स्वतंत्रत्वविरोधात् । पराश्रितत्वं हि पारतंत्र्यं तेन स्वातंत्र्यं कथं न प्रतिहन्यते । स्यान्मतं न परमार्थतः समवायस्याश्रितत्वं धर्मः कथ्यते यतस्तंत्रविरोधःस्यात् किंतूपचारात् , निमित्तं तूपचारस्य समवायिषु सत्सु समवायज्ञानं समवायिशन्ये देशे समवायज्ञानासंभवात् परमार्थतस्तस्याश्रितत्वे स्वाश्रयनाशात् विनाशप्रसंगात् मुणादिवदिति । तदसत्, दिगादीनामप्येवमाश्रितत्वप्रसंगात् । मूर्तद्रव्येषु सत्सूपलब्धिलक्षपप्राप्तेषु दिग्गिस्येदमतः पूर्वेणैत्यादिप्रत्ययस्य काललिंगस्य च परत्वापरत्वादिप्रत्ययस्य सद्भावात् मूर्तद्रव्याश्रितत्वोपचारप्रसंगात् । तथाचान्यत्र नित्यद्रव्येभ्य इति व्याघातः नित्यद्रव्यस्यापिदिगादेरुपचारादाश्रितत्वसिद्धेः। सामान्यस्यापि परमार्थतोऽनाश्रितत्वमनुषज्यते स्वाश्रयविनाशेऽपि विनाशाभावात् समवायवत्तदिदं स्वाभ्युपगमविरुद्धं वैशेषिकाणां उपचारतोऽपि समवायस्याश्रितत्वं स्वातंत्र्यं वा। किंच समवायो न संबंधः सर्वथाऽनाश्रितत्वात यो यः सर्वथाऽनाश्रितः स स न संबंधो यथा दिगादिः, सर्वथाऽनाश्रितश्च समवायः तस्मान्न संबंध इति इहेदं प्रत्ययलिंगो यः स समवायो न स्यात् अयुतसिद्धानामाधार्याधारभूतानामपि संबंधांतरेणाश्रितेन भवितव्यं संयोगादेरसंभवात् समवायस्याप्यनाश्रितस्य संबंधत्वविरोधात् । स्यादाकृतं, समवायस्य धर्मिणोऽप्रतिपत्तौ हेतोराश्रयासिद्धत्वं । प्रतिपत्तौ धर्मिग्राहकप्रमाणबाधितःपक्षो हेतुश्च कालात्ययापदिष्टः प्रसज्येत । समवायो हि यतः प्रमाणात्पतिप्रन्नस्ततएवायुतसिद्धसंबंधत्वं प्रतिपन्नमयुतसिद्धानामेव संबंधस्य समवायव्यपदेशसिद्धेरिति । तदपि न साधीयः, समवायग्राहिणा प्रमाणेनाश्रितस्यैव समवायस्याविष्वग्भावलक्षणस्य प्रतिपत्तेस्तस्यानाश्रितत्वाभ्युपगमे चासंबंधत्वस्य प्रसंगेन साधनात् । साध्यसाधनयोाप्यव्या
Page #74
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
And
पकभावसिद्धौ परस्य व्याप्याभ्युपगमे तन्नांतरीयकस्य व्यापकाभ्युपगमस्य प्रतिपादनात् । नानाश्रितत्वमसंबंधत्वेन व्याप्तं दिगादिष्वसिद्धं । नाप्यनैकांतिकमनाश्रितस्य कस्यचित्संबंधत्वाप्रसिद्धेः विपक्षे वृत्यभावात् तत एव न विरुद्धं । नापि सत्प्रतिपक्षं तस्यानाश्रितस्यापि संबंधत्वव्यवस्थापकानुमानाभावादिति न परेषां समवायः संबंधोऽस्ति यतः प्रतिनियमः कस्यचित्वचित्समवायिनि व्यवस्थाप्यते । भवतु वा समवायः। किमेकोऽनेको वा ? यदि सर्वत्रैकएव समवायोऽभ्युपगम्यते तदा महेश्वरे ज्ञानं समवैति न पुनःखे दिगादौ वेति कथमवबुध्यते। इहेति प्रत्ययादिति चेन्न तस्येह शंकरे ज्ञानमिति प्रत्ययस्यैकसमवायहेतुकस्य खादिव्यवच्छेदेन शंकर एव ज्ञानसमवायसाधनासमर्थत्वात् । नियामकादर्शनाद्भेदस्य व्यवस्थापयितुमशक्तेः । ननु च विशेषणभेद एव नियामकः सत्तावत् सत्ता हि द्रव्यादिविशेषणभेदादेकापि भिद्यमाना दृष्टा प्रतिनियतद्रव्यादिसत्वव्यवस्थापिका द्रव्यं सत् गुणःसन् कर्म सदिति, द्रव्यादिविशेषणविशिष्टस्य सत्प्रत्ययस्य द्रव्यादिविशिष्टसत्ताव्यवस्थापकत्वात् तद्वत्समवायिविशेषणविशिष्टेहदंप्रत्ययाद्विशिष्टसमवायिविशेषणस्य समवायस्य व्यवस्थितेः । समवायो हि यदुपलक्षितो विशिष्टप्रत्ययात्सिध्यति तत्प्रतिनियमहेतुरेवाभिधीयते यथेह तंतुषु पट इति तंतुपटविशिष्टहेदं प्रत्ययात्तंतुष्वेव पटस्य समवायो नियम्यते न वीरणादिषु नचायं विशिष्टेहेदप्रत्ययः सर्वस्य प्रतिपत्तुः प्रतिनियतविषयः समनुभूयमानः पर्यनुयोगार्हः किमितिभवान् तत्रैव प्रतिनियतोऽनुभूयते न पुनरन्यत्रेति । तथा तस्य पर्यनुयोगे कस्यचित्स्वेष्टतत्त्वव्यवस्थानुपपत्तेः तद्वयवस्थापकप्रत्ययस्यापि पर्यनुयोग्यत्वानिवृत्तेः । सुदूरमपि गत्वा यदि कस्यचित्प्रत्ययविशेषस्यानुभूयमानस्य पर्यनुयोगाविषयत्वात् ततस्तत्वव्यवस्थितिरभ्युपगम्यते तदेहशंकरे
Page #75
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
wanaannnnnn
ज्ञानमिति विशिष्टेहेदंप्रत्ययात्प्रमाणोपपन्नात्तत्रैव ज्ञान समवायो व्यवतिछते न खादिषु, विशेषणभेदात्समवायस्य भेदप्रसिद्धेरिति केचिद्व्युत्पनवैशेषिकाः समनुमन्यतोऽपि न यथार्थवादिनः । समवायस्य सर्वथैकत्वे नानासमवायिविशेषणत्वायोगात् सत्तादृष्टांतस्यापि साध्यत्वात् । नहि सर्वथैका सत्ता कुतश्चित्प्रमाणात्सिद्धा । ननु सत्प्रत्ययाविशेषाद्विशेषलिंगाभावादेका सत्ता प्रसिद्धैवेति चेन्न । सर्वथा सत्प्रत्ययाविशेषस्यासिद्धत्वाद्विशिष्टलिंगाभावस्य च, कथंचित्सत्प्रत्ययाविशेषस्तु कथंचिदेवैकत्वं सत्तायाः साधयेत् यथैव हि सत्सामान्यादेशात् सत्सदिति प्रत्ययस्याविशेषस्तथा सद्विशेषादेशात् सत्प्रत्ययविशेषोऽपि घटः सन् पटः सन्नि: त्यादिः समनुभूयते । घटादिपदार्थ एव तत्र विशिष्टो न सत्तेति चेन्न, एवं घटादीनामपि सर्वथैकत्वप्रसंगात् । शक्यो हि वक्तुं घटप्रत्ययाविशेषादेको घटः, तद्धर्मा एव विशिष्टप्रत्ययहेतवो विशिष्टा इति । घटस्यैकत्वे क्वचिद्धटस्य विनाशे प्रादुर्भावे वा सर्वत्र विनाशः प्रादुर्भावो वा स्यात् । तथा च परस्परव्याघातः सकृद्घटविनाशप्रादुर्भावयोः प्रसज्यते इति चेन्न, सत्ताया अपि सर्वथैकत्वे कस्यचित्प्रागसतः सत्तायाः संबंधे सर्वस्य सकृत्सत्तासंबंधप्रसंगात् । तदसंबंधे वा सर्वस्यासंबंध इति परस्परव्याघातः सत्तासंबंधासंबंधयोः सकृत्तदुःपरिहारःस्यात् । प्रागसतः कस्यचिदुत्पादककारणसन्निधानादुत्पद्यमानस्य संबंधः, परस्य तदभावात् संबंधाभाव इति प्रागुक्तदोषाऽप्रसंगे घटस्यापि क्वचिदुत्पादककारणभावादुत्पादस्य धर्मस्य सद्भावे घटेन संबंधः क्वचित्तु विनाशहेतूपादानाद्विनाशस्य भावो घटस्य तेनासंबंध इति कुतः परोक्तदोषप्रसंगः । सर्वथैकत्वेऽपि घटस्य तद्धर्माणामुत्पादादीनां स्वकारणनियमाद्देशकालाकारनियमोपपत्तेः । ना. त्पादादयो धर्मा घटादन तरभूता एव, सत्ताधर्माणामपि तदनतिरत्वप्र
Page #76
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
७१
namam
संगात् । तेषां ततोऽर्थातरत्वे घटादुत्पादादीनामतरत्वं प्रतिपत्तव्यं । तथाच त एव विशिष्टा न घट इति कथं न घटैकत्वमापद्यते । ननु घटस्य नित्यत्वे कथमुत्पादादयो धर्मा नित्यस्यानुत्पादाविनाशधर्मकत्वादितिचेत् तर्हि सत्ताया नित्यत्वे कथमुत्पद्यमानैरथैः संबंधः प्रभज्यमानैश्चेति चिंत्यतां । स्वकारणवशादुत्पद्यमाना भज्यमानाश्चार्थाः शश्वदवस्थितया सत्तया संबंध्यते न पुनः शश्वदवस्थितेन घटेन स्वकारणसाम
•दुत्पादादयो धर्माः संबंध्यत इति स्वदर्शनपक्षपातमात्रं । घटस्य सर्वगतत्वे पदार्थातराणामभावापत्तेरुत्पादादिधर्मकारणानामप्यसंभवात् कथमुत्पादादयो धर्माः स्युरितिचेत् सत्तायाः सर्वगतत्वेऽपि प्रागभावादीनां क्वचिदनुपपत्तेः कथमुत्पद्यमानैः प्रभज्यमानैश्चाथैः संबंधः सिध्येत् । प्रागभावाभावे हि कथं प्रागसतः प्रादुर्भवतः सत्तया संबंधः, प्रध्वंसाभावाभावे हि कथं विनश्यतः पश्चादसतः सत्तायाः संबंधाभाव इति सर्व दुरवबोधं । स्यान्मतं सत्तायाः स्वाश्रयवृत्तित्वात्स्वाश्रयापेक्षया सर्वगतत्वं न सकलपदार्थापेक्षया सामान्यादिषु प्रागभावादिषु च तदृत्यभावात् । तत्राबाधितस्य सत्प्रत्यस्याभावाव्यादिष्वेव तदनुभवादिति, तदपि स्वगृहमान्यं । घटस्याप्येवमबाधितघटप्रत्ययोत्पत्तिहेतुष्वेव स्वाश्रयेषु भावात् न सर्वपदार्थव्यापित्वं पदार्थातरेषु घटप्रत्ययोत्पत्त्यहेतुषु तदभावादिति वक्तुं शक्यत्वात् । नन्वेको घटः कथमंतरालवर्तिपटाद्यर्थान् परिहृत्य नानाप्रदेशेषु दविष्ठेषु भिन्नेषु वर्तते युगपदिति चेत् कथमेका सत्ता सामान्यविशेषसमवायान् प्रागभावादींश्च परिहृत्यद्रव्यादिपदार्थान् सकलान सकृद्यानातीति समानः पर्यनुयोगः। तस्याः स्वयममूर्तत्वात्केनचित्प्रतिघाताभावाददोष इति चेत् तर्हि घटस्याप्यनभिव्यक्तिमूर्तः केनचित्प्रतिबंधाभावात्सर्वगतत्वे को दोषः ? सर्वत्र घटप्रत्ययप्रसंग इति चेत् सत्तायाः सर्व
Page #77
--------------------------------------------------------------------------
________________
७२
श्रीविद्यानंदिस्वामिविरचिता
गतत्वे सर्वत्र सत्प्रत्ययः किं न स्यात् । प्रागभावादिषु तस्यास्तु तिरोधानान्न सत्प्रत्ययहेतुत्वमिति चेत् घटस्यापि पदार्थातरेषु तत्तिरोधानाद्धटप्रत्ययहेतुत्वं माभूत् । न चैवं सर्व सर्वत्र विद्यते इति वदतः सांख्यस्य किंचिद्विरुद्धं बाधकाभावात् तिरोधानाविर्भावाम्यां स्वप्रत्ययाविधानस्य क्वचिस्वप्रत्ययविधानस्याविरोधात् । किंच घटादिसामान्यस्य घटादिव्यक्तिष्वभिव्यक्तस्य तदंतराले चानभिव्यक्तस्य घटप्रत्ययहेतुत्वाहेतुत्वे स्वयमुररी. कुर्वाणः कथं न घटस्य स्वव्यंजकदेशेऽभिव्यक्तस्यान्यत्र चानभिव्यक्तस्य घटप्रत्ययहेतुत्वाहेतुत्वे नाभ्युपगच्छतीति स्वेच्छाकारी । स्यान्मतं नानाघटः सकृद्भिन्नदेशतयोपलभ्यमानत्वात् पटकटमुकुटादिपदार्थातरवदिति,तर्हि नाना सत्तायुगपदाधकाभावे सति भिन्नदेशद्रव्यादिष्पलभ्यमानत्वात् तद्वदिति दर्शनांतरमायातं न्यायस्य समानत्वात् । नहि विभिन्नदेशेषु घटपटादिषु युगपत्सत्वोपलंभोऽसिद्धःसंतोऽमी घटादय इति प्रतीतरबाधितत्वात् । व्योम्नानकांतिकोऽयंहेतुरितिचेन्न, तस्य प्रत्यक्षतोभिन्नदेशतयाऽतींद्रियस्य युगपदुपलंभाभावात् । परेषां युगपद्भिन्नदेशाकाशलिंगशब्दोपलंभासंभवाच्च नानुमानतोऽपि भिन्नदेशतया युगपदुपलंभोऽस्ति यतस्तेनानैकांतिकत्वं हेतोरभिधीयते । नानादेशाकाशलिंगशब्दानां नानादेशस्थपुरुषैः श्रवणादाकाशस्यानुमानात् युगपद्भिन्नदेशतयोपलंभस्य प्रसिद्धावपि न तेन व्यभिचारः साधनस्य तस्य प्रदेशभेदान्नानात्वसिद्धेः । निःप्रदेशस्य युगपद्भिन्नदेशकालसकलमूर्तिमद्रव्यसंयोगानामनुपपत्तेरेकपरमाणुवन्नचेयं सत्ता स्वतंत्रः पदार्थः सिद्धः पदार्थधर्मत्वेन प्रतीयमानत्वादसत्त्ववत् । यथैव हि घटस्यासत्वं पटस्यासत्त्वमिति पदार्थधर्मतया प्रतीयमानत्वान्नासत्त्वं स्वतंत्रः पदार्थः तथा घटस्य सत्त्वं पटस्य सत्वमिति पदार्थधर्मत्वेनोपलभ्यमानत्वात्सत्त्वमपि सर्वथा विशेषाभावात् । सर्वत्र घटःसन् पटःसन् इति प्रत्ययस्याविशेषादेकं
Page #78
--------------------------------------------------------------------------
________________
आप्तपरीक्षा। .
सत्त्वं पंदार्थधर्मत्वेऽपीतिचेत् तर्हि सर्वत्रासदिति प्रत्ययस्याविशेषाद्भावपरतंत्रत्वेऽप्येकमसत्वमभ्युपगम्यतां । प्रागसत्पश्चादसदितरत्रेतरदसदत्यंतमसदिति प्रत्ययविशेषात् प्रागसत्त्वपश्चादसत्त्वेतरेतरासत्त्वात्यंतासत्वभेदसिद्धेनैकमसत्वमिति चेत् नन्वेवं विनाशात्पूर्व सत्वं प्राक्सत्वं, स्वरूपलाभादुत्तरं सत्वं पश्चात्सत्वं, समानजातीययोः केनचिद्रूपेणेतरेतरत्रसत्त्वमितरेतरसत्त्वं, कालत्रयेऽप्यनाद्यनंतस्य सत्त्वमत्यंतसत्त्वमिति सत्त्वभेदः किं नानुमन्यते सत्प्रत्ययस्यापि प्राक्कालादितया विशेषसिद्धेबर्बाधकाभावात् । यथाचासत्वस्य सर्वथैकत्वे क्वचित्कार्योत्पत्तौ प्रागभावविनाशे सर्वत्राभावविनाशप्रसंगात् न किंचित्प्रागसदिति सर्वकार्यमनादि स्यात् न किंचित्पश्चादसदिति तदनंतं स्यात् न क्वचित्किंचिदसदिति सर्व सर्वात्मकं स्यान्न क्वचिदत्यंतमसदिति सर्व सर्वत्र सर्वदा प्रसज्यतेति बाधकमपि तथा सत्त्वैकत्वे समानमुपलभामहे कस्यचित्प्रध्वंसे सत्त्वाभावे सर्वत्र सत्त्वाभावप्रसंगात् न किंचित्कुतश्चित्प्राक् सत् पश्चात्सद्वा नापीतरत्रेतरत्सत् स्यात् अत्यंतसद्वेति सर्वशन्यतापत्तिर्दुःशक्या परिहतु । तां परिजिहीर्षता सत्वस्य भेदोऽभ्युपगंतव्य इति नैका सत्ता सर्वथासिध्येदसत्तावत्तदनंत पर्यायतोपपत्तेः । स्यान्मतिरेषा ते कस्यचित्कार्यस्य प्रध्वंसेऽपि न सत्तायाः प्रध्वंसस्तस्या नित्यत्वात् पदार्थातरेषु सत्प्रत्ययहेतुत्वात् प्राक्कालादिविशेषणभेदेऽप्यभिन्नत्वात् सर्वथा शून्यतां परिहरतोऽपि सत्तानंतपर्यायतानुपपत्तिरिति सापि न साधीयसी, कस्यचित्कार्यस्योत्पादेऽपि प्रागभावस्याभावानुपपत्तिप्रसंगात् तस्य नित्यत्वात् पदार्थातराणामुत्पत्तेः पूर्व प्रागभावस्य स्वप्रत्ययहेतोः सद्भावसिद्धेः समुत्पन्नैककार्यविशेषणतया विनाशव्यवहारेऽपि प्रागभावस्याविनाशिनो नानानुत्पन्नकार्यापेक्षया विशेषणभेदेऽपि भेदासंभवादेकत्वाविरोधात् । नद्युत्पत्तेः पूर्व घटस्य प्रागभावः
Page #79
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
पटस्य प्रागभाव इत्यादि विशेषणभेदेऽप्यभावो भिद्यते घटस्य सत्ता पटस्य सत्तेत्यादिविशेषणभेदेऽपि सत्तावत् । ननु प्रागभावस्य नित्यत्वे कार्योत्पत्तिर्नस्यात्तस्य तत्प्रतिबंधकत्वात्तदप्रतिबंधकत्वे प्रागपि कार्योत्पत्तेः कार्यस्यानादित्वप्रसंग इतिचेत् तर्हि सत्ताया नित्यत्वे कार्यस्य प्रध्वंसो न स्यात् तस्यास्तत्प्रतिबंधकत्वात् तदप्रतिबंधकत्वे प्रध्वंसात् प्रागपि प्रध्वंसप्रसंगात् कार्यस्य स्थितिरेव न स्यात्, कार्यसत्ता हि प्रध्वंसात् प्राक् प्रध्वंसस्य प्रतिघातिकेति कार्यस्य स्थितिः सिद्धयेन्नान्यथा । यदि पुनर्बलवत्प्रध्वंसकारणसन्निपाते कार्यस्य सत्ता न प्रध्वंसं प्रतिबध्नाति ततः पूर्व तु बलवद्विनाशकारणाभावात् प्रध्वंसं प्रतिवन्नात्येव ततो न प्रागपि प्रध्वंसप्रसंग, इति मतं तदा बलवदुत्पादककारणोपधानात् कार्यस्योत्पादं प्रागभावः सन्नपि न विरुणद्धि कार्योत्पादनात्पूर्वे तदुत्पादककारणाभावात् तं विरुणद्धि ततो न प्रागपि कार्योत्पत्तिर्येन कार्यस्यानादित्वप्रसंग, इति प्रागभावस्य सर्वदा सद्भावो मन्यतां सत्तावत् । तथाचैक एव सर्वत्र प्रागभावो व्यवतिष्ठते । प्रध्वंसाभावश्च न प्रागभावादर्थांतरभूतः स्यात् कार्यविनाशविशिष्टस्य तस्यैव प्रध्वंसाभाव इत्यभिधानात् तस्यैवेतरेतरव्यावृत्तिविशिष्टस्येतरेतराभावाभिधानवत् । ननु च कार्यस्य विनाश एव प्रध्वंसाभावो न पुनस्ततोऽन्यः येन विनाशविशिष्टः प्रध्वंसाभाव इत्यभिधीयते नापीतरेतरव्यावृत्तिरितरेतराभावादन्यायेन तया विशिष्टस्येतरेतराभावाभिधानमिति चेत् तहींदानीं कार्यस्योत्पादएव प्रागभावाभावस्ततोऽयतरस्यासंभवात् कथं तेन कार्यस्य प्रतिबंधः सिध्येत् कार्योत्पादात्प्रागभावाभावस्यार्थांतरत्वे प्रागेव कार्योत्पादः स्यात् शश्वदभावाभावे शश्वत्सद्भाववत् । नह्यन्यदैवाभावस्याभावो ऽन्यदैव भावस्य सद्भाव इति अभावाभावसद्भावयोः कालभेदो युक्तः सर्वत्राभावाभावस्यैक
७४
Page #80
--------------------------------------------------------------------------
________________
७५
आपरीक्षा।
PASS M3
भावसद्भावप्रतिभावामावस्याभावप्रसिद्धिवत् तथा च कार्यसद्भाव एव तदभावाभावः कार्याभाव एव च तद्भावस्याभाव इत्यभावविनाशकद्भावविनाशप्रसिद्धेः न भावाभावौ परस्परमतिशयाते यतस्तयोरन्यतरस्यैवैकत्वनित्यत्वे नानात्वानित्यत्वे वा व्यवतिष्ठते । तदनेनासत्वस्य नानात्वमनित्यत्वं च प्रतिजानता सत्वस्यापि तत्प्रतिज्ञातव्यमिति कथंचित्सत्तैका सदिति प्रत्ययाविशेषात् । कथंचिदनेका प्राक्सदित्यादि सत्प्रत्ययभेदात्। कथंचिन्नित्या सैवेयंसत्तेतिप्रत्यभिज्ञानात् कथंचिदनित्या कालभेदात् पूर्वसत्ता पश्चात्सत्तेति सत्प्रत्ययभेदात् सकलबाधकामावादनुमंतव्या तत्प्रतिपक्षमताऽसत्तावत् । ततः समवायिविशेषणविशिष्टेहेदं प्रत्ययहेतु. त्वात् समवायः समवायिविशेषप्रतिनियमहेतुर्द्रव्यादिविशेषणविशिष्टसत्प्र-- त्ययहेतुत्वावव्यादिविशेष प्रतिनियमहेतुसत्तावदितिविषमउपन्यासः सत्ताया नानात्वसाधनात् तद्वत्समवायस्य नानात्वसिद्धेः सोऽपि हि कथंचिदेक एव इहेदंप्रत्ययाविशेषात् । कथंचिदनेक एव नानासमवायिविशिष्टहेदप्रत्ययभेदात् । कथंचिन्नित्य एव प्रत्यभिज्ञायमानत्वात् । कथंचिदनित्य एव कालभेदेन प्रतीयमानत्वात् । नचैकत्राधिकरणे परस्परमेकत्वानेकत्वेनित्यत्वानित्यत्वे वा विरुद्धे, सकलबाधकरहितत्वे सत्युपलभ्यमानत्वात् कथंचित्सत्वासत्ववत् । यदप्यभ्यधायि सत्वासत्वे नैकत्र वस्तुनि सकृत्संभवतस्तयोः विधिप्रतिषेधरूपत्वात् । ययोविधिप्रति. षेधरूपत्वं ते नैकत्र वस्तुनि सकृत्संभवतो यथा शीतत्वाशीतत्वे । विधिप्रतिषेधरूपे च सत्वासत्वे तस्मान्नैकत्रवस्तुनि सकृत्संभवत इति । तदप्यनुपपन्नं वस्तुन्येकत्राभिधेयत्वानभिधेयत्वाभ्यां सकृत्संभवद्भयां व्यभिचारात् । कस्यचित्स्वाभिधायकाभिधानापेक्षया अभिधेयत्वमन्याभिधायकाभिधानापेक्षया चानाभिधेयत्वं सकृदुपलभ्यमानमबाधितमेकत्रा
Page #81
--------------------------------------------------------------------------
________________
७६
श्रीविद्यानंदिस्वामिविरचिता
PUNISH
भिधेयत्वानाभिधेयत्वयोः सकृत्संभवं साधयतीत्यभ्यनुज्ञाने स्वरूपाद्यपेक्षया सत्वं पररूपाद्यपेक्षया चासत्वं निर्वाधमनुभूयमानमेकत्र वस्तुनि सत्वासत्वयोः सकृत्संभवं किं न साधयेत् विधिप्रतिषेधरूपत्वाविशेषात् । कथंचिदुपलभ्यमानयोर्विरोधानवकाशात् येनैव स्वरूपेण सत्वं तेनैवासत्वमिति सर्वथाऽर्पितयोरेव सत्वासत्वयोयुगपदेकत्र विरोधसिद्धः । कथंचित्सत्वासत्वयोरेकत्र वस्तुनि सकृत्प्रसिद्धौ च तद्वदेकत्वानेकत्वयोर्नित्यत्वानित्यत्वयोश्च सकृदेकत्र निर्णयान्न किंचिद्विप्रतिषिद्धं समवायस्यापि तथा प्रतीतेरबाधितत्वात् । सर्वथैकत्वे महेश्वर एव ज्ञानस्य समवायाद्वृत्तिर्न पुनराकाशादिष्विति प्रतिनियमस्य नियामकमपश्यतो निश्चयासंभवात् । न चाकाशादीनामचेतनता नियामिका चेतनात्मगुणस्य ज्ञानस्य चेतनात्मन्येव महेश्वरे समवायोप्रपत्तेरचेतनद्रव्यगगनादौ तदयोगात् ज्ञानस्य तद्गुणत्वाभावादिति वक्तुं युक्तं, शंभोरपि स्वतोऽचेतनत्वप्रतिज्ञानात् खादिभ्यस्तस्य विशेषासिद्धेः । स्यादाक्तं नेश्वरः स्वतश्चेतनोs
चेतनो वा चेतनसमवायात्तु चेतयिता खादयस्तु न चेतनासमवायाञ्चेतयितारः कदाचिदतोऽस्ति तेभ्यस्तस्य विशेष इति । तदप्यसत् । स्वतोमहेश्वरस्य स्वरूपानवधारणान्निःस्वरूपतापत्तेः । स्वयं तस्यात्मरूपत्वान्न स्वरूपहानिरितिचेन्न, आत्मनाऽप्यात्मत्वयोगादात्मरूपत्वेन व्यवहारोपगमात् स्वतोऽनात्मत्वादात्मरूपस्याप्यसिद्धेः । यदि पुनः स्वयं नात्मामहेशो नाप्यनात्मा केवलमात्मत्वयोगादात्मेति मतं तदा स्वतः किमसौ स्यात् ! द्रव्यमिति चेन्न, द्रव्यत्वयोगाद्व्यव्यवहारवचनात् स्वतो द्रव्यस्वरूपेणापि महेश्वरस्याव्यवस्थितेः । यदि तु न स्वतोऽसौ द्रव्यं नाप्यद्रव्यं द्रव्यत्वयोगाव्यमिति प्रतिपाद्यते, तदा न स्वयं द्रव्यं स्वरूपस्याप्यभावात् किंस्वरूपः शंभुर्भवदिति वक्तव्यं । सन्नेव स्वयमसाविति चेन्न,
महेश्वरस्य शतचन, आत्मना ध्यान । यदि पुनः
Page #82
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
७७
सत्वयोगत्सन्निति व्यवहारसाधनात् स्वतः सद्रूपस्याप्रसिद्धः । अथ नः स्वतः सन्न चासन सत्वसमवायात्तु सन्नित्यभिधीयते तदा व्याघातो दुरुत्तरः स्यात् सत्वासत्वयोरन्योन्यव्यवच्छेदरूपयोरेकतरस्य प्रतिषेधेड न्यतरस्य विधानप्रसंगात् उभयप्रतिषेधस्यासंभवात् । कथमेवं सर्वथा सत्वासत्वयोः स्याद्वादिभिः प्रतिषेधे तेषां व्याघातो न भवेदितिचेन्न, तैः कथंचित्सत्त्वासत्त्वयोर्विधानात् । सर्वथा सत्त्वासत्वे हि कथंचित्सत्त्वासत्त्वव्यवच्छेदेनाभ्युपगम्यते सर्वथा सत्वस्य कथंचित्सत्वस्य व्यवच्छेदेन व्यवस्थानात् । असत्वस्य च कथंचिदसत्वव्यवच्छेदेनेति सर्वथा सत्वस्य प्रतिषेधे कथंचित्सत्वस्य विधानात् । सर्वथा चासत्वस्य निषेधे कथंचिदसत्वस्य विधिरिति कथं सर्वथा सत्वासत्वप्रतिषेधे स्याद्वादिनां व्याघातो दुरुत्तरःस्यात् सर्वथैकांतवादिनामेव तस्य दुरुत्तरत्वात् । एतेन द्रव्यत्वाद्रव्यत्वयोरात्मत्वानात्मत्वयोश्चेतनत्वाचेतनत्वयोश्च परस्परव्यवच्छेदरूपयोयुगपत्प्रतिषेधे व्याघातो दुरुत्तरः प्रतिपादितः तदेकतरप्रतिषेधेऽ.. न्यतरस्य विधेरवश्यंभावात् . उभयप्रतिषेधस्यासंभवात् कथंचित्सत्वासत्वयोवैशेषिकैरनभ्युपगमात् । किं च स्वरूपेणासति महेश्वरे सत्वसमवाये प्रतिज्ञायमाने खांबुजे सत्वसमवायः परमार्थतः किंन्न भवेत् स्वरूपेणासत्वाविशेषात् । खांबुजस्याभावान्न तत्र सत्वसमवायः पारमार्थिकः सद्वर्गे द्रव्यगुणकर्मलक्षणे सत्वसमवायसिद्धेः महेश्वर एवात्मद्रव्यविशेषे सत्वसमवाय इति च स्वमनोरथमात्रं, स्वरूपेणासतः कस्यचित्सद्वर्गत्वासिद्धेः। स्वरूपेण सति महेश्वरे सत्वसमवायोपगमे सामान्यादावपि सत्वसमवायप्रसंगःस्वरूपेण सत्वाविशेषात् । यथैव हि महेश्वरस्य स्वरूपता सत्वं वृद्धवैशेषिकैरिष्यते तथा पृथिव्यादिद्रव्याणां रूपादिगुणानामुत्क्षेपणादिकर्मणां सामान्यविशेषसमवायानां च प्रागभावादीनामपीष्यत
Page #83
--------------------------------------------------------------------------
________________
७८
श्रीविद्यानंदिस्वामिविरचिता
'एव तथापि क्वचिदेव सत्वसमवायसिद्धौ नियमहेतुर्वक्तव्यः । सत्सदितिज्ञानमबाधितं नियमहेतुरितिचेन्न, तस्य सामान्यादिष्वपि भावात् । यथैव हि द्रव्यं सत् गुणःसन् कर्म सदिति ज्ञानमबाधितमुत्पद्यते तथा सामान्यमस्ति विशेषोऽस्ति समवायोऽस्ति प्रागभावादयः संतीति ज्ञानमप्यवाधितमवेति सामान्यादिप्रागभावादितत्वास्तित्वं अन्यथा तद्वादिभिः कथमभ्युपगम्यते । तत्रास्तित्वधर्मसद्भावादस्तीति ज्ञानं न पुनः सत्तासंबंधादनवस्थाप्रसंगात् सामान्ये हि सामान्यान्तरं परिकल्पनायामनवस्था स्यात् परापर सामान्यकल्पनात् । विशेषेषु च सामान्योपगमे सामान्यज्ञानात् विशेषानुपलंभादुभयतद्विशेषस्मरणाच्च कस्यचिदवश्यंभाविनि संशये तब्यवच्छेदार्थ विशेषांतरकल्पनानुषंगः पुनस्तत्रापि सामान्यकल्पनेऽवश्यंभावी संशयः सति तस्मिंस्तद्वयवच्छेदाय तद्विशेषांतरकल्पनायामनवस्थाप्रसंगात् परापरविशेषसामान्यकल्पनस्यानिवृत्तेः, सुदूरमपि गत्वा विशेषेषु सामान्यानभ्यु. पगमे सिद्धाः सामान्यरहिता विशेषाः । समवाये च सामान्यस्यासंभवः प्रसिद्ध एव तस्यैकत्वात् संभवे चानवस्थानुषंगात् समवाये सामान्यस्य समवायांतरकल्पनादिति न सामान्यादिषु सदिति ज्ञानं सत्ता निबंधनं बाध्यमानत्वात् । तथा प्रागभावादिष्वपि सत्तासमवाये प्रागभावादित्वविरोधात् न सत्तानिबंधनमस्तीतिज्ञानं । ततोऽस्तित्वधर्मविशेषणसामर्थ्यादेव तत्रास्तीति ज्ञानमभ्युपगंतव्यं । अन्यथाऽस्तीति व्यवहारायोगादिति केचिद्वैशेषिकाः समभ्यमंसत तांश्च परं प्रतिक्षिपंति । सामान्यादिषूपचरितसत्वाभ्युपगमात् मुख्यसत्वे बाधकसद्भावान्न पारमार्थिकसत्वं सत्तासंबधादिवाऽस्तित्वधर्मविशेषणबलादपि संभाव्यते, सत्ताव्यतिरेकेणास्तित्वधर्मग्राहकप्रमाणाभावात् । अन्यथास्तित्वधर्मेप्यस्तीति प्रत्ययादस्तित्वांतरपरिकल्पनायामनवस्थानुषंगात् । तत्रोपचरितस्यास्तित्वस्य प्रतिज्ञाने सामान्या
Page #84
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
७९
दिष्वपि तदुपचरितमस्तु मुख्ये बाधकसद्भावात् सर्वत्रोपचारम्य मुख्यबा - धक सद्भावादेवोपपत्तेः । प्रागभावादिष्वपि मुख्यास्तित्वबाधकोपपत्तेरुपचारत एवास्तित्वव्यवहारसिद्धेरिति तेषां द्रव्यादिष्वपि सदितिज्ञानं सत्तानिबंधनं कुतः सिध्येत् तस्यापि बाधकसद्भावात् । तेषां स्वरूपतोऽसत्वे सत्वे वा सत्तासंबंधानुपपत्तेः । स्वरूपेणासत्सु द्रव्यादिषु सत्तासंबंधेऽतिप्रसंगस्य बाधकस्य प्रतिपादनात् । स्वरूपतः सत्सु सत्तासंबंधे अनवस्थानस्य बाधकस्योपनिपातात् सत्ता संबंधेनापि सत्सु सत्वं पुनः सत्तासंबन्धपरिकल्पनप्रसंगात् तस्य वैयर्थ्यात् अपरिकल्पने स्वरूपतः सत्स्वपि तत एव सत्ता संबंधपरिकल्पनं माभूत् । ननु स्वरूपतः सत्वादसाधारणात् सत्सदित्यनुवृत्तिप्रत्ययस्यानुपपत्तेः द्रव्यादिषु तन्निबंधनस्य साधारणसत्तासंबंधस्य परिकल्पनं न व्यर्थमिति चेन्न स्वरूपसत्वादेव सदृशात्सदिति प्रत्ययस्योपपत्तेः । सदृशेT तरपरिणाम सामर्थ्यादेव द्रव्यादीनां साधारणासाधारणसत्वनिबंधनस्य सत्प्रत्ययस्यघटनात् । सर्वथाऽर्थंतरभूत सत्तासंबंधसामर्थ्यात्सदिति प्रत्ययस्य साधारणस्यायोगात् । सत्तावद्द्रव्यं सत्तावान्गुणः सत्तावत्कर्मेति सत्तासंबंधस्य प्रत्ययस्य प्रसंगात् न पुनः सद्द्रव्यं सन् गुणः सत्कर्मेति प्रत्ययः स्यात् । नहि घंटा संबंधाद्द्भवि घंटेति ज्ञानमनुभूयते घंटावान्निति ज्ञानस्य तत्र प्रतीतेः । यष्टिसंबंधात्पुरुषोयष्टिरिति प्रत्ययदर्शनात्तु सत्तासंबंधाद्रव्यादिषु सत्तेतिप्रत्ययः स्यात् भेदेऽभेदोपचारात् न पुनः सदिति प्रत्ययस्तथाचोपचारात् द्रव्यादीनां सत्ताव्यपदेशो न पुनः परमार्थतः सिध्येत् । स्यान्मतं सत्तासामान्यवाचकस्यास्य सत्ताशब्दस्येव सच्छद्वस्यापि सद्भावात्संबंधात्संति द्रव्यगुणकर्माणीति व्यपदिश्यते भावस्य भाववदभिधायिनापि शब्देनाभिधानप्रसिद्धेः विषाणी ककुद्मान् प्रांतेवालधिरिति गोत्वलिंगमित्यादिवत् विषाण्यादिवाचिना शब्देन विषाणित्वादेर्भावस्याभिधानादिति ।
Page #85
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
तदप्यनुपपन्नं । तथोपचारादेव सत्प्रत्ययप्रसंगात् पुरुषे यष्टिसंबंधाद्यष्टि रिति प्रत्ययवत् । यदि पुनर्यष्टिपुरुषयोः संयोगात्पुरुषो यष्टिरिति ज्ञानमुपचरितं युक्तं न पुनर्द्रव्यादौ सदिति ज्ञानं तत्र सत्वस्य समवायादिति मतं, तदवयवेष्ववयविनः समवायादवयविव्यपदेशः स्यात् न पुनरवयवव्यपदेशः । द्रव्ये च गुणस्य समवायाद्गुणव्यपदेशोऽस्तु क्रियासम - वायात्क्रियान्यपदेशस्तथा च न कदाचिदवयविष्ववयविप्रत्ययः गुणिनि गुणिप्रत्ययः क्रियावतिक्रियावत्प्रत्ययश्चोपपद्येतेति महान् व्याघातः पदार्थोंतरभूतसत्तासमवायवादिनामनुषज्येत तदेवं स्वतः सत् एवेश्वरस्य सत्वसमवायोऽभ्युपगंतव्यः कथंचित्सदात्मतया परिणतस्यैव सत्वसमवायस्योपपत्तेः । अन्यथा प्रमाणेन बाधनात् स्वयं सतः सत्वसमवायेऽस्य च प्रमाणप्रसिद्धेः । स्वयं द्रव्यात्मना परिणतस्य द्रव्यत्वसमवायः । स्वयमात्मरूपतया परिणतस्यात्मत्वसमवायः । स्वयं ज्ञानात्मना परिणतस्य महेश्वरस्य ज्ञानसमवाय इति युक्तमुत्पश्यामः स्वयं नीलात्मनोनीलसमवायवत् न हिकश्चिदतथापरिणतस्तथात्वसमवाय भागुपलभ्यतेऽतिप्रसंगात् ततः प्रमाणबलान्महेश्वरस्य सत्वद्रव्यत्वात्मत्ववत् स्वयं ज्ञत्वप्रसिद्धेर्ज्ञानस्य समवायात् तस्य ज्ञत्वपरिकल्पनं न कंचिदर्थं पुष्णाति । ज्ञव्यवहारं पुष्णातीति चेन्न, ज्ञे प्रसिद्धे ज्ञव्यवहारस्यापि स्वतः प्रसिद्धेः । यस्य हि योऽर्थः प्रसिद्धोः स तत्र तद्व्यवहारं प्रवर्तयन्नुपलब्धो यथा प्रसिद्धाकाशात्माआकाशे तद्व्यवहारप्रसिद्धो, ज्ञश्च कश्चित्तस्मात् ज्ञे तद्वयवहारं प्रवर्तयति । यदि तु प्रसिद्धेऽपि ज्ञे ज्ञत्वसमवायपरिकल्पनमज्ञव्यवच्छेदार्थमिष्यते तदाप्रसिद्धेऽप्याकाशेऽनाकाशव्यवच्छेदार्थमाकाशत्वसमवायपरिकल्पनमिष्यतां । तस्यैकत्वादाकाशत्वासंभवात्स्वरूप निश्चयादवाकाशव्यवहारप्रवृत्तौ, ज्ञेऽपीश्वरे स्वरूपनिश्चयादेव ज्ञव्यवहारोऽस्तु किं तत्र ज्ञान
८०
Page #86
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
समवायपरिकल्पनया, ज्ञानपरिणामपरिणतो हि ज्ञः प्रतिपादयितुं शक्यो नार्थातरभूतज्ञानसमवायेन ततो ज्ञानसमवायवानेवेह सिध्येत् न पुनज्ञाता। नह्यांतरभूते ज्ञाने समुत्पन्ने ज्ञाता, स्मरणे स्मर्ता, भोगे च भोक्तेति तत्प्रातीतिकं दर्शनं तदात्मना परिणतस्यैव तथान्यपदेश प्रसिद्धः। प्रतीतिबलाद्धि. तत्त्वं व्यवस्थापयंतो यद्यथा निर्बाध प्रतीयंति तथैव व्यवहरंतीति प्रेक्षापूर्वकारिणः स्युनान्यथा। ततो महेश्वरोऽपि ज्ञाता व्यवहर्तव्यो ज्ञातृस्वरूपेण प्रमाणतः प्रतीयमानत्वात् । यद्येन स्वरूपेण प्रमाणतः प्रतीयमानं तत्तथा व्यवहर्तव्यं, यथा सामान्यादिस्वरूपेण प्रमाणतः प्रतीयमानं सामान्यादि । ज्ञातृस्वरूपेण प्रमाणतः प्रतीयमानश्च महेश्वरस्ततोज्ञातेति व्यवहर्तव्य इति । तदर्थमर्थांतरभूतज्ञानसमवायपरिकल्पनमनर्थकमेव तदेवं प्रमाण बलास्वार्थव्यवसायात्मके ज्ञाने प्रसिद्ध महेश्वरस्य ततो भेदैकांतनिराकरणे च कथंचित्स्वार्थव्यवसायात्मकज्ञानादभेदोऽभ्युपगंतव्यः कथंचित्तादात्म्यस्यैव समवायस्य व्यवस्थापनात् । तथाच नाम्नि विवादो नार्थे जिनेश्वरस्यैव महेश्वर इति नामकरणात्कथंचित्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः पुरुषविशेषस्य जिनेश्वरत्वनिश्चयात् । तथा च स एव हि मोक्षमार्गस्यप्रणेता व्यवतिष्ठते सदेहत्वे धर्मविशेषत्वे च सति सर्वविन्नष्टमोहत्वात् यस्तु न मोक्षमार्गस्य मुख्यः प्रणेता स न सदेहो यथा मुक्तात्मा धर्मविशेषभाग्वा यथांऽतकृत्केवली । नापिअसर्वविन्नष्टमोहो यथा रथ्यापुरुषः। सदेहत्वे धर्मविशेषत्वे च सति सर्वविन्नष्टमाहश्च जिनेश्वरस्तस्मान्मोक्षमार्गस्य प्रणेता व्यवतिष्ठत एव । स्वार्थव्यवसायात्मकज्ञानात् सर्वथाऽर्थातरभतस्तु शिवः सदेहो निर्देहो वा न मोक्षमागोदेशस्य कर्ता युज्यते कर्मभूभृतामभेतृत्वात् । यो यः कर्मभूमृतामभेत्ता स स न सर्वविन्नष्टमोहो यथाऽऽकाशादिरभन्योवा संसारी चात्मा, कर्मभूभृतामभेत्ता च शिवः
Page #87
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
mmmmmmmmmmmmmmmmmmmmmmmmmmm
परैरुपेयते तस्मान्न सर्वविन्नष्टमोह इति साक्षान्मोक्षमार्गोपदेशस्य कर्ता न भवेत् निरस्तं च पूर्व विस्तरतस्तस्य शश्वत्कर्मभिरस्पृष्टत्वं पुरुषविशेषस्येत्यलं विस्तरेण प्रागुक्तार्थस्यैवात्रोपसंहारात् । यथा चेश्वरस्य मोक्षमार्गोपदेशित्वं न प्रतिष्ठामियति तथा कपिलस्यापीत्यतिदिश्यते ।
एतेनैव प्रतिव्यूढः कपिलोऽप्युपदेशकः । ज्ञानादर्थांतरत्वस्याऽविशेषात्सर्वथा स्वतः॥ ७७ ॥ ज्ञानसंसर्गतो ज्ञत्वमज्ञस्यापि न तत्त्वतः। व्योमवचेतनस्यापि नोपपद्येत मुक्तवत् ॥ ७८॥
“ कपिल एव मोक्षमार्गस्योपदेशकः क्लेशकर्मविपाकाशयानां भेत्ता रजस्तमसोस्तिरस्करणात् । समस्ततत्त्वज्ञानवैराग्यसंपन्नो धर्मविशेषैश्वर्ययोगी च प्रकृष्टसत्त्वस्याविर्भावात् विशिष्टदेहत्वाच्च । न पुनरीश्वरस्तस्याकाशस्येवाऽशरीरस्य ज्ञानेच्छाक्रियाशक्त्यसंभवात् मुक्तात्मवत् । सदेहस्यापि सदा क्लेशकर्मविपाकाशयैरपरामृष्टत्वविरोधात् । धर्मविशेषसद्भावे च तस्य तत्साधनसमाधिविशेषस्यावश्यंभावात् तन्निमित्तस्यापि ध्यानधारणाप्रत्ययाहारप्राणायामासनयमनियमलक्षणस्य योगांगस्याभ्युपगमनीयत्वात् । अन्यथा समाधिविशेषासिद्धधर्मविशेषानुत्पत्तेर्ज्ञानाद्यतिशयलक्षणैश्वर्यायोगादनीश्वरत्वप्रसंगात् । सत्त्वप्रकर्षयोगित्वे च कस्यचित्सदामुक्तस्यानुपायसिद्धस्य साधकप्रमाणाभावादिति" निरीश्वरसांख्यवादिनः प्रचक्षते । तेषां कपिलोऽपि तीर्थकरत्वेनाभिप्रेतः प्रकृतेनैवेश्वरस्य मोक्षमार्गोपदेशित्वनिराकरणेनैव प्रतिव्यूढः प्रतिपत्तव्यः, स्वतस्तस्यापि ज्ञानादीतरत्वाविशेषात्सर्वज्ञत्वायोगात् । सर्वार्थज्ञानसंसर्गात्तस्यसर्वज्ञत्वपरिकल्पनमपि न युक्तमाकाशादेरपि सर्वज्ञत्वप्रसंगात् तथाविधज्ञानपरिणामाश्रयप्रधानसंसर्गस्याविशेषात् । तदविशेषेऽपि कपिल एव
Page #88
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
सर्वज्ञश्चेतनत्वान्न पुनराकाशादिरित्यपि न युज्यते । तेषां ( कपिलानांमते ) मुक्तात्मनश्चेनत्वेऽपि ज्ञानसंसर्गतः सर्वज्ञत्वानभ्युपगमात् । सबीजसमाधिसंप्रज्ञातयोगकालेऽपि सर्वज्ञत्वविरोधात् । स्यान्मतं, न मुक्तस्य ज्ञानसंसर्गः संभवति तस्य संप्रज्ञातयोगकाले एव विनाशात् । " तदा द्रष्टुः ( पुरुषस्य ) स्वरूपेऽवस्थानमिति " वचनात् । मुक्तस्य तु संस्कारविशेषस्यापि विनाशात् । असंप्रज्ञातस्यैव संस्कारविशेषतावचनात् । चरितार्थेन ज्ञानादिपरिणामशन्येन प्रधानेन संसर्गमात्रेऽपि तन्मुक्तात्मानं प्रति तस्य नष्टत्वात् संसार्यात्मानमेव प्रत्यनष्टत्ववचनात् । न कपिलस्य चेतनस्य स्वरूपस्य ज्ञानसंसर्गात्सर्वज्ञत्वाभावसाधने मुक्तात्मोदाहरणं तत्र ज्ञानसंसर्गस्यासंभवादिति । तदप्यसारं । प्रधानस्य सर्वगतस्यानंतस्य संसर्गविशेषानुपपत्तेः । कपिलेन सह तस्य संसर्गे सर्वात्मना संसर्गप्रसंगात् कस्यचिन्मुक्तिविरोधान्मुक्तात्मनो वा प्रधानेनासंसर्गे कपिलस्यापि तेनासंसर्गप्रसक्तेः । अन्यथा विरुद्धधर्माध्यासात्प्रधानभेदोपपत्तेः । ननु च प्रधानमेकं निरवयवं सर्वगतं न केनचिदात्मना संस्पृष्टमपरेणासंस्पृष्टमिति विरुद्धधर्माऽध्यासीष्यते येन तद्भेदोपपत्तेः । किं तर्हि ? सर्वदा सर्वात्मसंसर्गि केवलं मुक्तात्मानं प्रतिनष्टमपीतरात्मानं प्रत्यनष्टं निवृत्ताधिकारत्वात् प्रवृत्ताधिकारत्वाच्चेति चेन्न विरुद्धधर्माध्यासस्य तदवस्थत्वात् प्रधानस्यभेदानिवृत्तेः । नोकमेव निवृत्ताधिकारित्वप्रवृत्ताधिकारत्वयोर्युगपदधिकरणंयुक्तं नष्टत्वानष्टत्वयोरिव विरोधात् । विषय. भेदान्न तयोर्विरोधः कश्चित्क्वचित् पितृत्वपुत्रत्वधर्मवत् तयोरेकविषययोरेव विरोधात् । निवृत्ताधिकारत्वं हि मुक्तपुरुषविषयं प्रवृत्ताधिकारत्वं पुनरमुक्तपुरुषविषयमिति भिन्न पुरुषापेक्षया भिन्नविषयत्वं । नष्टत्वानष्टत्वधर्मयोरपि मुक्तात्मानमेव प्रति विरोधः स्यादमुकात्मानं प्रत्येव वा न
Page #89
--------------------------------------------------------------------------
________________
८४
श्रीविद्यानंदिस्वामिविरचिता
चैव मुक्तात्मापेक्षया प्रधानस्य नष्टधर्मत्ववचनात् अमुक्तापेक्षया चानष्टत्वप्रतिज्ञानादिति कश्चित्सोऽपि न विरुद्धधर्माध्यासान्मुच्यते प्रधानस्यैकरूपत्वात् येनैव हि रूपेण प्रधानं मुक्तात्मानं प्रतिचरिताधिकार नष्टं च प्रतिज्ञायते तेनैवानवसिताधिकारमनष्टममुक्तात्मानं प्रतीति कथं न विरोधः प्रसिद्धयेत् । यदि पुनः रूपांतरेण तथेष्यते तदा न प्रधानमेकरूपं स्यात् रूपद्वयस्य सिद्धेः । तथाचैकमनेकरूपं प्रधानं सिध्येत् सर्वमनेकांतात्मकं वस्तु साधयेत् । स्यादाकूतं न परमार्थतः प्रधानं विरुद्धयोधर्मयोरधिकरणं तयोः शब्दज्ञानानुपातिना वस्तुशून्येन विकल्पेनाध्यारोपितत्वात्पारमार्थिकत्वे धर्मयोरपि धर्मातरपरिकल्पनायामनवस्थानात् । सुदूरमपि गत्वा कस्यचिदारोपितधर्माभ्युपगमे प्रधानस्याप्यारोपितावेव नष्टत्वानष्टत्वधर्मों स्यातामवसितानवसिताधिकारत्वधर्मी च तदपेक्षानिमित्तं स्वरूपद्वयं च ततोनैकमनेकरूपं प्रधानं सिध्येत् यतः सर्व वस्त्वेकानेकात्मकं साधयेदिति । तदपि न विचारसहं । मुक्तामुक्तत्वयोरपि पुंसामपारमार्थिकत्वप्रसंगात् । सत्यमेतत् न तत्त्वतः पुरुषस्य मुक्तत्वं संसारित्वं वा धर्मोऽस्ति प्रधानस्यैव संसारित्वप्रसिद्धेः । तस्यैव च मुक्तिकारणतत्त्वज्ञानवैराग्यपरिणामान्मुक्तत्वोपपत्तेः । तदेवं मुक्तेः पूर्व निःश्रेयसमार्गस्योपदेशकं प्रधानमिति परमतमनूद्य दूषयन्नाह ।
प्रधानं ज्ञत्वतो मोक्षमार्गस्याऽस्तूपदेशकं । तस्यैव विश्ववेदित्वाद्धेतृत्वात्कर्मभूभृतां ॥ ७९ ॥ इत्यसंभाव्यमेवास्याऽचेतनत्वात्पटादिवत् । तदसंभवतो नूनमन्यथा निष्फलः पुमान् ॥ ८० ॥ भोक्ताऽऽत्मा चेत्स एवास्तु कर्ता तदविरोधतः। विरोधे तु तयोर्मोक्तुः स्याद्भुजौ कर्तृता कथं ॥ ८१ ॥
Page #90
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
प्रधानं मोक्षमार्गस्य प्रणेतृ स्तूयते पुमान् । मुमुक्षुभिरितिबूयात्कोऽन्योऽकिंचित्करात्मनः ॥८॥
"प्रधानमेवास्तु मोक्षमार्गस्योपदेशकं ज्ञत्वात् । यस्तु न मोक्षमार्गस्योपदेशकः स न ज्ञो दृष्टो यथा घटादिः मुक्तात्माच, ज्ञं च प्रधानं तस्मान्मोक्षमार्गस्योपदेशकं । न च कपिलादिपुरुषसंसर्गभाजः प्रधानस्य ज्ञत्वमसिद्धं विश्ववेदित्वात् । यस्तु न ज्ञः स न विश्ववेदी यथा घटादिः । विश्ववेदि च प्रधानं ततो ज्ञमेव च, विश्ववेदि च तत्सिद्धं सकलकर्मभूभृद्भतृत्वात् । तथाहि-कपिलात्मना संस्पृष्टं प्रधानं विश्ववेदि कर्मराशिविनाशित्वात् । यत्तु न विश्ववेदि तन्न कर्मराशिविनाशीष्टं दृष्टं वा यथा व्योमादि । कर्मराशिविनाशि च प्रधानं तस्माद्विश्ववेदि । न वाऽस्य कर्मराशिविनाशित्वमसिद्धं रजस्तमोविवर्ताशुद्धकर्मनिकरस्य संप्रज्ञातयोगबलात्प्रध्वंससिद्धेः सत्त्वप्रकर्षाच्च संप्रज्ञातयोगघटनात् । तत्र सर्वज्ञवादिनां विवादाभावात् इति सांख्यानां दर्शनं " तदप्यसंभाव्यमेव । स्वयमेव प्रधानस्याचेतनत्वाभ्युपगमात् । तथाहि-न प्रधानं कर्मराशिविनाशि स्वयमचेतनत्वात् । यत्स्वयमचेतनं तन्न कर्मराशिविनाशि दृष्टं यथा वस्त्रादि । स्वयमचेतनं च प्रधानं तस्मान्न कर्मराशिविनाशि । चेतनसंसर्गात्प्रधानस्य चेतनत्वोपगमादसिद्धसाधनमिति चेन्न, स्वयमिति विशेषणात् । स्वयं हि प्रधानमचेतनमेव चेतनसंसर्गात्तपचारादेव तच्चेतनमुच्यते स्वरूपतः पुरुषस्यैव चेतनत्वोपगमात् ५ चैतन्यं पुरुषस्य स्वरूपमिति" वचनात् । ततः सिद्धमेवेदं साधनं कर्मराशिविनाशित्वाभावं साधयति तस्माच्च विश्ववेदित्वाभावः कर्मराशिविनाशित्वाभागे कस्यचिद्विश्ववेदित्वविरोधात् । ततश्च न प्रधानस्य ज्ञत्वं स्वयमचेतनस्य ज्ञत्वानुपलब्धेः। नचाज्ञस्य मोक्षमार्गस्योपदेशकत्वं संभाव्यत इति प्रधानस्य
Page #91
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिताmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm सर्वमसंभाव्यमेव स्वयमचेतनस्य संप्रज्ञातसमाधेरपि दुर्घटस्वात् । बुद्धिसत्त्वप्रकर्षस्यासंभवाद्रजस्तमोमलावरणविगमस्यापि दुरुपपादत्वात् । यदि पुनरचेतनस्यापि प्रधानस्य विपर्ययाद्वंधसिद्धेःसंसारित्वं तत्वज्ञानात्कर्ममलावरणविगमेसति समाधिविशेषाद्विवेकख्यातेः सर्वज्ञस्वं मोक्षमार्गोपदेशित्वं जीवन्मुक्तदशायां विवेकख्यातेरपि निरोधे निजिसमाधेर्मुक्तत्वमिति कापिला मन्यते तदाऽयं पुरुषः परिकल्प्यमानो निष्फल एव स्यात् प्रधाननैव संसारमोक्षतत्कारणपरिणामतापर्याप्तत्वात् । ननु च सिद्धेऽपि प्रधाने संसारादिपरिणामानां कर्तरि भोग्ये, भोक्ता पुरुषः कल्पनीय एव भोग्यस्य भोक्तारमंतरेणानुपपत्तेरिति न मंतव्यं । तस्यैव भोक्तुरात्मनः कर्तृत्वसिद्धेः प्रधानस्य कर्तुः परिकल्पनानर्थक्यात् । नहि कर्तृत्वभोक्तत्वयोः कश्चिद्विरोधोऽस्ति भोक्तु जिक्रियायामपि कर्तृत्वविरोधानुषंगात् । तथाच कर्तरि भोक्तृत्वानुपपत्तेोक्तेति न व्यपदिश्यते । स्यान्मतं भोक्तेति कर्तरि शब्दयोगात्पुरुषस्य न वास्तवं कर्तृत्वं शब्दज्ञानानुपातिनः कर्तृत्वविकल्पस्य वस्तुशून्यत्वादिति । तदप्यसंबद्धं । भोक्तत्वादिधर्माणामपि पुरुषस्यावास्तवत्वापत्तेः । तथोपगमाञ्चेतयत इति चेतनः पुरुषो न वस्तुतः सिद्धयेत् चेतनशब्दज्ञानानुपातिनो विकल्पस्य वस्तुशून्यत्वात् कर्तृत्वभोक्तत्वादिशब्दज्ञानानुपातिविकल्पवत् । सकलशब्दविकल्पगोचरातिक्रांतत्वाचितिशक्तेः पुरुषस्यावक्तव्यत्वमिति चेन्न । तस्यावक्तव्यशब्देनापि वचनविरोधात् । तथाप्यवचने कथं परप्रत्यायनमिति संप्रधार्य, कार्यप्रज्ञप्तेरपि शब्दाविषयत्वेन प्रवृत्त्ययोगात् । स्वयं च तथाविधं पुरुषं सकलवाग्गोचरातीतमकिंचित्करं कुतः प्रतिपद्येत । स्वसंवेदनादिति चेन्न । तस्य ज्ञानशन्ये पुंस्यसंभवात् , स्वरूपस्य च स्वयं संचेतनायां पुरुषेण प्रतिज्ञायमानायां बुद्धयध्यवसितमर्थ पुरुषश्चे
Page #92
--------------------------------------------------------------------------
________________
आप्तपरीक्षा |
तयते इति व्याहन्यते स्वरूपस्य बुद्धयध्यनवसितस्यापि तेन संवेदनात् । यथा च बुद्ध्यध्यनवसिंतमात्मानमात्मा संचेतयते तथा बहिरर्थमपि संचेतयतां किमनया बुद्ध्या निष्कारणमुपकल्पितया स्वार्थसंवेदकेन पुरुषेण तत्कृत्यस्य कृतत्वात् । यदि पुनरर्थसंवेदनस्य कादाचित्कत्वाद्बुद्ध्यध्यवसायस्तत्रापेक्ष्यते तस्य स्वकारण बुद्धिकादाचित्कतया कादाचित्कस्यार्थसंवेदनस्य कादाचित्कताहेतुत्वसिद्धेः । बुद्धयध्यवसायानपेक्षायां पुंसोऽर्थसंवेदने शश्वदर्थसंवेदनप्रसंगादिति मन्यध्वं तदासंवेदिनः पुरुषस्यापि संचेतना कादाचित्का किमपेक्षास्यात् अर्थसंवेदनापेक्षयेति चेत् किमिदानीमर्थसंवेदनं पुरुषादन्यदभिधीयते ? तथाभिधाने स्वरूपसंवेदनमपि पुंसोऽन्यत्प्राप्तं तस्य कादाचित्कतया शाश्वतिकस्वाभावात्। तादृशस्वरुप संवेदनादात्मनोऽनन्यत्वे ज्ञानादेवानन्यत्वमिष्यतां । ज्ञानस्यानित्यत्वात् ततोऽनन्यत्वे पुरुषस्यानित्यत्वप्रसंग इतिचेत्, स्वरूपसंवेदनादप्यनित्यत्वादात्मनोऽनन्यत्वे कथंचिदनित्यत्वप्रसंगो दुःपरिहार एव । स्वरूपसंवेदनस्य नित्यत्वेऽर्थसंवेदनस्यापि नित्यता स्यादेव परापेक्षातस्तस्यानित्यत्वे स्वरूपसंवेदनस्याप्यनित्यत्वमस्तु, न चात्मनः कथंचिदनित्यत्वमयुक्तं । सर्वथानित्यत्वे प्रमाणविरोधात्, सोयं सांख्यः पुरुषं कादाचित्कार्थसंचेतनात्मकमपि निरतिशयं नित्यमाचक्षाणो ज्ञानात्कादाचित्काद नन्यत्वमनित्यत्वभयान्न प्रतिपद्यत इति किमपि महाद्भुतं । प्रधानस्य चानित्यत्वाव्यक्तादनर्थीतरभूतस्य नित्यतां प्रतीयन् पुरुषस्यापि ज्ञानादशाश्वतादनर्थीतरभूतस्य नित्यत्वमुपैतु सर्वथा विशेषाभावात् केवलं ज्ञानपरिणामाश्रयस्य प्रधानस्यादृष्टस्यापि परिकल्पनायां ज्ञानात्मकस्य च पुरुषस्य स्वार्थव्यवसायिनो दृष्टस्य हानिः पापीयसी स्यात् । दृष्टहानिरदृष्टपरिकल्पना च पापीयसीति सकलप्रेक्षावतामभ्यु
Page #93
--------------------------------------------------------------------------
________________
८८
श्रीविद्यानंदिस्वामिविरचिता
पगमनीयत्वात् । ततस्तां परिजिहीर्षता पुरुषएव ज्ञानदर्शनोपयोगलक्षणः कश्चित्प्रक्षीणकर्मा सकलतत्वसाक्षात्कारी मोक्षमार्गस्य प्रणेता पुण्यशरीरः पुण्यातिशयोदये सति सन्निहितोक्तपरिग्राहकविनेयमुख्यः प्रतिपत्तन्यस्तस्यैव मुमुक्षुभिः प्रेक्षावद्भिः स्तुत्यतोपपत्तेः प्रधानं तु मोक्षमार्गस्य प्रणेतृ ततोऽर्थातरभूत एवात्मा मुमुक्षुभिः स्तूयते इत्यकिंचित्करात्मवायेव ब्रयान्न ततोऽन्य इत्यलं प्रसंगेन । योऽप्याह माभूत्कपिलो निर्वाणस्य प्रणेता महेश्वरवत् तस्य विचार्यमाणस्य तथा व्यवस्थापयितुमशक्तेः सुगतस्तु निर्वाणमार्गोपदेशकोऽस्तु सकलबाधकप्रमाणाभावादिति तमपि निराकर्तुमुपक्रमते।
सुगतोऽपि न निर्वाणमार्गस्य प्रतिपादकः। विश्वतत्त्वज्ञतापायात्तत्वतः कपिलादिवत् ॥ ८३॥
योयस्तत्वतो विश्वतत्वज्ञताऽपेतः स स न निर्वाणमार्गस्य प्रतिपादको यथाकपिलादिस्तथा च सुगत इत्येवं नासिद्धं साधनं तत्त्वतो विश्वतत्त्वज्ञताऽपेतत्वस्य सुगते धर्मिणि सद्भावात् । स हि विश्वतत्त्वान्यतीतानागतवर्तमानानि साक्षात्कुर्वस्तहेतुकोऽभ्युपगंतव्यः तेषां सुगतज्ञानहेतुत्वाभावे सुगतज्ञानविषयत्वविरोधात्, नाकारणं विषय इति स्वयमभिधानात् । तथाऽतीतानां तत्कारणत्वेऽपि न वर्तमानामामर्थानां सुगतज्ञानकारणत्वं समसमयभाविनां कार्यकारणभावाभावादन्वयव्यतिरेकानुविधानायोगात् । नह्यननुकृतान्वयव्यतिरेकोऽर्थः कस्यचित्कारणमिति युक्तं वक्तुं, नाननुकृतान्वयव्यतिरेकं कारणमिति प्रतीतेः । तथा भविष्यतां चार्थानां न सुगतज्ञानकरणता युक्ता यतस्तद्विषयं सुगतज्ञानं स्यादिति विश्वतत्वज्ञताऽपेतत्वं सुगतस्य सिद्धमेव, तथा परमार्थतः स्वरूपमात्रावलंबित्वात् सर्वविज्ञानानां सुगतज्ञानस्यापि स्वरूपमात्रविषयत्वमेवोररीकर्तव्यं तस्य
Page #94
--------------------------------------------------------------------------
________________
आप्तपरीक्षा। बहिरर्थविषयत्वे स्वार्थासंवेदकत्वात् सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षमिति वचनं विरोधमध्यासीत् बहिराकारतयोत्पद्यमानत्वात् । सुगतज्ञानस्य बहिरर्थविषयत्वोपचारकल्पनायां न परमार्थतो बहिरर्थविषयं सुगतज्ञानमतस्तत्वत इति विशेषणमपि नासिद्धं साधनस्य । नापि विरुद्धं विपक्षएव वृत्तेरभावात् कपिलादौ सपक्षेऽपि सद्भावात् । ननु तत्वतोविश्वतत्वज्ञताऽपेतेन मोक्षर्मागस्य प्रतिपादकेन दिग्नागाचार्यादिना साधनस्य व्यभिचार इति चेन्न । तस्यापि पक्षीकृतत्वात् । सुगतग्रहणेन सुगतमतानुसारिणां सर्वेषां गृहीतत्वात् । तर्हि स्याद्वादिनाऽनुत्पन्नकेवलज्ञानेन तत्वतो विश्वतत्वज्ञताऽपेतेन सूत्रकारादिना निर्वाणमार्गस्योपदेशकेनानैकांतिकं साधनमिति चेन्न । तस्यापि सर्वज्ञप्रतिपादितनिर्वाणमार्गोपैदेशित्वेन तदनुवाद कत्वात् प्रतिपादकत्वसिद्धेः । साक्षात्तत्वतो विश्वतत्त्वज्ञ एव हि निर्वाणमार्गस्य प्रवक्ता, गणधरदेवादयस्तु सूत्रकारपर्यंतास्तदनुवक्तारएव गुरुपूर्वक्रमाविच्छेदादिति स्याद्वादिनां दर्शनं ततो न तैरनेकांतिको हेतुर्यतः सुगतस्य निर्वाणमार्गस्योपदेशित्वाभावं न साधयेत् । स्यान्मतं न सुगतज्ञानं विश्वतत्त्वेभ्यः समुत्पन्नं तदाकारतां चापन्नं तदध्यवसायि च तत्साक्षात्कारि सौगतैरमिधीयते । “भिन्नकालं कथं ग्राह्यमितिचेदग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञास्तदाकारार्पणक्षम" मित्यनेन तदुत्पत्तिताद्रूप्ययोग्राह्यत्वलक्षणत्वेन व्यवहारिणः प्रत्यभिधानात् “ यत्रैव जनयेदेनों तत्रैवास्य प्रमाणते" त्यनेनच तदध्यवसायित्वस्य प्रत्यक्षलक्षणत्वेन वचनमपि न सुगतप्रत्यक्षापेक्षया, व्यवहारिजनापेक्षयैव तस्य व्याख्यानात् सुगतप्रत्यक्षे स्वसंवेदनप्रत्यक्ष इव तल्लक्षणस्यासंभवात् । यथैव हि स्वसंवेदनप्रत्यक्षं स्वस्मादनुत्पद्यमानमपि स्वाकारममनुकुर्वाणं __ १ चित्तानां समूहः संततिरितियावत् । २ सविकल्पबुद्धिं ।
Page #95
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
स्वस्मिन् व्यवसायमजनयत् प्रत्यक्षमिष्यते कल्पनापोढाभ्रांतत्वलक्षणसद्भावात्, तथा योगिप्रत्यक्षमपि वर्तमानातीतानागततत्त्वेभ्यः स्वयमनुत्पद्यमानं तदाकारमननुकुर्वत् तद्व्यवसायमजनयत् प्रत्यक्षं तल्लक्षणयोगित्वात्प्रतिपद्यते । कथमन्यथा सकलार्थविषयं विधूतकल्पनाजालं च सुगतप्रत्यक्षं सिद्धयेत् । तस्य भावनाप्रकर्षपर्यंतजत्वाच्च न समस्तार्थनत्वं युक्तं ' भावना प्रकर्षपर्यंतजं च योगिज्ञान' मिति वचनात् । मावना हि द्विविधा श्रुतमयी चिंतामयी च । तत्र श्रुतमयी श्रयमाणेभ्यः परार्थानुमानवाक्येभ्यः समुत्पद्यमानेन श्रुतशब्दवाच्यतामास्कंदता निर्वृत्ता परं प्रकर्ष प्रतिपद्यमाना स्वार्थानुमानलक्षणया चिंतया निवृत्तां चिंतामयीं भावनामारभते सा च प्रकृष्यमाणा परं प्रकर्षपर्यंत संप्राप्ता योगिप्रत्यक्ष जनयति ततस्तत्वतो विश्वतत्वज्ञतासिद्धेः सुगतस्य न तदपेतत्वं सिद्धयति यतो निर्वाणमार्गस्य प्रतिपादकः सुगतो न भवेरिति । तदपि न विचारक्षम, भावनाया विकल्पात्मिकायाः श्रुतमय्याश्चिंतामय्याश्वावस्तुविषयाया वस्तुविषयस्य योगिज्ञानस्य जन्मविरोधात् कुतश्चिदतत्त्व विषयाद्विकल्पज्ञानात्तत्वविषयस्य ज्ञानस्यानुपलब्धेः । कामशोकभयोन्मादचोरस्वप्नायुपप्लुतज्ञानेभ्यः कामिनीमृतेष्टजनशत्रुसंघातानियतार्थगोचराणां पुरतोऽवस्थितानामिव दर्शनस्याप्यभूतार्थविषयतया तत्वविषयत्वाभावात् । तथा चाभ्यधायि " कामशोकभयोन्मादचोरस्वप्नायुपप्लुताः। अभूतानपि पश्यंति पुरतोऽवस्थितानिव " इति । ननु च कामादिभावनाज्ञानादभूतानामपि कामिन्यादीनां पुरतोऽवस्थितानामिव स्पष्टं साक्षाद्द. र्शनमुपलभ्यते किमंग पुनः श्रुतानुमानभावनाज्ञानात्परमप्रकर्षप्राप्ताच्चतुरार्यसत्यानां परमार्थसतां दुःखसमुदायनिरोधमार्गाणां योगिनः साक्षादर्शनं
१ दुःखं दुःखं, स्वलक्षणं स्वलक्षणम् , क्षणिकं क्षणिकम् , शून्यं शून्यम् इति चतुरार्यसत्यानाम् ।
Page #96
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
न भवतीत्ययमर्थोऽस्यश्लोकस्य सौगतैर्विवक्षितः । स्पष्टज्ञानस्य भावना-.. प्रकर्षोत्पत्तौ कामिन्यादिषु भावनाप्रकर्षस्य तद्विषयस्पष्टज्ञानजनकस्य, दृष्टांततया प्रतिपादनात् । न च श्रुतानुमानभावनाज्ञानमतत्वविषयं ततस्तत्वस्य प्राप्यत्वात् । श्रुतं हि परार्थानुमानं त्रिरूपलिंगप्रकाशकं वचनं चिंता च स्वार्थानुमानं साध्याविनाभावि त्रिरूपलिंगज्ञानं तस्य विषयो द्वेधा प्राप्यश्वालंबनीयश्च, तत्रालंब्यमानस्य साध्यसामान्यस्य तद्विषयस्यावस्तुत्वादतत्वविषयत्वेऽपि प्राप्यस्वलक्षणापेक्षया तत्वविषयत्वं व्यवस्थाप्यते, वस्तुविषयं प्रामाण्यं द्वयोरपि प्रत्यक्षानुमानयोरिति वचनात् । यथैव हि प्रत्यक्षादर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यत इत्यर्थक्रियाकारि स्वलक्षणवस्तुविषयं प्रत्यक्षं प्रतीयते तथा परार्थानुमानात्स्वार्थानुमानाच्चाथै परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यत इत्यर्थ- . क्रियाकारि चतुरार्यसत्यवस्तुविषयमनुमानमास्थीयत इत्युभयोः प्राप्यवस्तुविषयं प्रामाण्यं सिद्धं प्रत्यक्षस्येवानुमानस्यार्थासंभवे संभवाभावसाधनात् । तदुक्तं " अर्थस्यासंभवेऽभावात्प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वय " मिति । तदेवं श्रुतानुमानभावनाज्ञाना- . प्रकर्षपर्यतप्राप्ताच्चतुरार्यसत्यज्ञानस्य स्पष्टतमस्योत्पत्तेरविरोधात् सुगतस्य विश्वतत्वज्ञता प्रसिद्धैव परमवैतृष्ण्यवत् । संपूर्ण गतः सुगत इति निर्वचनात् सुकलशवत् । सुशब्दस्य संपूर्णवाचित्वात संपूर्ण हि साक्षाचतुरार्यसत्यज्ञानं संप्राप्तः सुगत इष्यते । तथा शोभनं गतः सुगत इति सुशब्दस्य शोभनार्थत्वात् सुरूपकन्यावत् निरुच्यते । शोभनो ह्यविद्यातृष्णाशन्यो ज्ञानसंतानस्तस्याशोभनाभ्यामविद्यातृष्णाभ्यां व्यावृत-- त्वात्संप्राप्तः सुगत इति निरास्रवचित्तसंतानस्य सुगतत्ववर्णनात् । तथा सुष्ठु गतः मुगत इति पुनरनावृत्यागत इत्युच्यते । सुशब्दस्य पुनरना--
Page #97
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
वृत्यर्थत्वात् सुनष्टज्वरवत् । पुनरविद्यातृष्णाक्रांतचित्तसंतानावृत्तेरभावात् निरास्त्रवज्ञानचित्तसंतानसद्भावाच्च “तिष्ठंत्येव पराधीना येषां तु महती कृपति ” वचनात् । कृपा हि त्रिविधा सत्त्वालंबना पुत्रकलत्रादिषु । धर्मालंबना संघादिषु । निरालंबना संपुष्टसंदष्टमंडूकोद्धरणादिषु । तत्र महती निरालंबना कृपा सुगतानां सत्त्वधर्मानपेक्षत्वादिति ते तिष्ठत्येव न कदाचिन्निवाति धर्मदेशनया जगदुपकारनिरतत्वाजगतश्चानंतत्वात् 'बुद्धो भवेयं जगते हिताये' ति भावनया बुद्धत्वसंवर्तकस्य धर्मविशेषस्योत्पत्तेधर्मदेशनाविरोधाभावाद्विवक्षामंतरेणापि विधूतकल्पनाजालस्य बुद्धस्य मोक्षमार्गोपदेशिन्यावाचो धर्मविशेषादेव प्रवृत्तेः स एव निर्वाणमार्गस्य प्रतिपादकः समवतिष्ठते विश्वतत्त्वज्ञत्त्वात् कात्यतो वितृष्णत्वाचेति केचिदाचक्षते सौत्रांतिकमतानुसारिणः सौगतास्तेषां तत्वव्यवस्थामेव न संभावयामः किं पुनर्विश्वतत्वज्ञः सुगतः स च निर्वाणमार्गस्य प्रतिपादक इत्यसंभाव्यमानं प्रमाणविरुद्ध प्रतिपद्येमहि । तथाहि-प्रतिक्षणविनश्वरा बहिराः परमाणवः प्रत्यक्षतो नानुभता नानुभूयंते स्थिरस्थूलसाधारणाकारस्य प्रत्यक्षबुद्धौ घटादेरर्थस्य प्रतिभासनात् । यदि पुनरत्याः सन्नाऽसंस्पृष्टरूपाः परमाणवः प्रत्यक्षबुद्धौ प्रतिभासते प्रत्यक्षपृष्ठभाविनी तु कल्पनासंवृत्तिः स्थिरस्थूलसाधारणाकारमात्मन्यविद्यमानमारोपयतीति सांवृतालंबनाः पंच विज्ञानकाया इति निगद्यते तदा निरंशानां क्षणिकपरमाणूनां का नामाऽत्यासन्नतेति विचार्य । व्यवधानाभाव इति चेत् तर्हि सजातीयस्य विजातीयस्य च व्यवधायकस्याभावात्तेषां व्यवधानाभावः संसर्ग एवोक्तः स्यात् स च सर्वात्मना न संभवत्येवैकपरमाणुमात्रप्रचयप्रसंगात् । नाप्येकदेशेन दिग्भागभेदेन षड्भिः परमाणुभिरेकस्य परमाणोः १ रूप, वेदना, विज्ञान, संज्ञा, संस्कार इति ।
Page #98
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
संसृष्टमानस्य षडंशतापत्तेः, ततएवासंसृष्टाः परमाणवः प्रत्यक्षेणालं. ब्यंत इति चेत् कथमत्यासन्नास्ते विरोधाद्दविष्ठदेशव्यवधानाभावादत्यासनास्त इति चेन्न, समीपदेशव्यवधानोपगमप्रसंगात् । तथा च समीपदेशव्यवधायकं वस्तु व्यवधीयमानपरमाणुभ्यां संसृष्टं व्यवहितं वा स्यात् गत्यंतराभावात् । न तावत्संसृष्टं तत्संसर्गस्य सर्वात्मनैकदेशेन वा विरोधात् । नापि व्यवहितं व्यवधायकांतरपरिकल्पनानुषंगात् व्यवधायकांतरमपि व्यवधीयमानाभ्यां संसृष्टं व्यवहितं चेति पुनः पर्यनुयोगेऽनवस्थानादिति कात्यासन्नाऽसंसृष्टरूपाः परमाणवो बहिः संभवेयुः ये प्रत्यक्षविषयाः स्युस्तेषां प्रत्यक्षाविषयत्वे न कालिंगं स्वभावलिंगं वा परमाण्वात्मकं प्रत्यक्षतः सिध्येत् परमाण्वात्मकसाध्यवत् क्वचित्तदसिद्धौ च न कार्यकारणयोर्व्याप्यव्यापकयोर्वा तद्भावः सिध्येत् प्रत्यक्षानुपलंभव्यतिरेकेण तत्साधनासंभवात् तदसिद्धौ च न स्वार्थानुमानमुदियात् तस्य लिंगदर्शनसंबंधस्मरणाभ्यामेवोदयप्रसिद्धेः । तदभावे तद्नुपपत्तेः । स्वार्थानुमानानुपपत्तौ च न परार्थानुमानरूपं श्रुतमिति व श्रुतमयी चिंतामयी च भावना स्यात् यतस्तत्प्रकर्षपर्यंत योगिप्रत्यक्षमुररीक्रियते तता न विश्वतत्वज्ञता सुगतस्य तत्वतोऽस्ति येन संपूर्ण गतः सुगतः शोभनंगतः सुगतः सुष्टु गत इति सुशब्दस्य संपूर्णाद्यर्थत्रयमुदाहृत्य सुगतशब्दस्य निर्वचनत्रयमुपवर्ण्यते । सकलाविद्यातृष्णा प्रहाणाञ्च सर्वार्थज्ञानवैतृष्ण्यसिद्धेः सुगतस्य जगद्धितषिणः प्रमाणभूतस्य सर्वदावस्थितस्य विधूतकल्पनाजालस्यापि धर्मावशेषाद्विनेयजनसंमतत्वोपदेशप्रणयनं न संभाव्यते सौत्रांतिकमते विचार्यमाणस्य परमार्थतोऽर्थस्य व्यवस्थापनायोगादिति सूक्तं सुगतोऽपि निर्वाणमार्गस्य न प्रतिपादकस्तत्वतो विश्वतत्वज्ञतापायात्कपिलादिवदिति । येऽपि ज्ञानपरमाणव एव प्रतिक्षणविशरारवः परमार्थ संतो ने
Page #99
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
बहिरर्थपरमाणवः प्रमाणाभावादवयव्यादिवदिति योगाचारमतानुसारिणः प्रतिपद्यते तेषामपि न संवित्परमाणवः स्वसंवेदनप्रत्यक्षतः प्रसिद्धास्तत्र तेषामनवभासनादंतरात्मन एव सुखदुःखाद्यनेकविवर्तव्यापिनः प्रतिभासनात् । तथा परप्रतिभासोऽनाद्यविद्यावासनाबलात्समुपजायमानो भ्रांतएवेति चेन्न, बाधकप्रमाणाभावात् । नन्वेकः पुरुषः क्रममुवः सुखादिपर्यायान् सहभुवश्च गुणान् किमेकेन स्वभावेन व्याप्नोत्यनेकेन वा ? न तावदेकेन तेषामेकरूपतापत्तेः । नाप्यनेकेन तस्याप्यनेकस्वभावत्वात् भेदप्रसंगादेकत्वविरोधादित्यपि न बाधकं वेद्यवेदकाकारैकज्ञानेन तस्यापसारितत्वात् संवेदनं ह्येकं वेद्यवेदकाकारौ स्वसंवित्स्वभावेनैकेन व्याप्नोति न च तयोरेकरूपता, संविद्रूपेणैकरूपतैवेति चेत् तात्मा सुखदुःखज्ञा नादम् िस्वभावेनैकेनात्मत्वेन व्याप्नोति तेषामात्मरूपतयैकत्वाविरोधात् कथमेवं सुखादिभिन्नाकारः प्रतिभास इतिचेद्वद्यादिभिन्नाकारः प्रतिमासः कथमेकत्र संवेदने स्यादिति समः पर्यनुयोगः ।वेद्यादिवासनाभेदादितिचेत् सुखादिपर्यायपरिणामभेदादेकत्रात्मनि सुखादिभिन्नाकारः प्रतिभासः किं न भवेत् । वेद्याद्याकारप्रतिमासभेदेऽप्यकं संवेदनमशक्यविवेचनत्वादिति वदन्नपि सुखाद्यनेकाकारप्रतिभासेऽप्येक एवात्मा शश्वदशक्यविवेचनत्वादिति वदंतं कथं प्रत्याचक्षीत यथैव हि संवेदनस्यैकस्य वेद्याद्याकाराः संवेदनांतरं नेतुमशक्यत्वादशक्यविवेचनाः संवेदनमेकं तथात्मनः सुखाद्याकाराः शश्वदात्मांतरं नेतुमशक्यत्वादशक्यविवेचनाः कथमेक एवात्मा न भवेत् । यद्यथा प्रतिभासते तत्तथैव व्यवहर्तव्यं यथा वेद्याद्याकारात्मकैकसंवेदनरूपतया प्रतिभासमानं संवेदनं तथा च सुखज्ञानाद्यनेकाकारैकात्मरूपतया प्रतिभासमानश्चात्मा तस्मात्तथा व्यवहर्तव्य इति नातः सुखाद्यनेकाकारात्मा प्रतिभासमानो निराकर्तुं शक्यते । यदि तु वेद्यवेद
Page #100
--------------------------------------------------------------------------
________________
मा प्रतिभासाभावासानसंवित्परमाणुरूपाणादिति न
आप्तपरीक्षा। काकारयोीतत्वात्तद्विविक्तमेव संवेदनमात्रं परमार्थसदिति निगद्यते तदा तत्प्रचयरूपमेकपरमाणुरूपं वा ? न तावत्प्रचयरूपं बहिरर्थपरमाणूनामिव संवेदनपरमाणूनामपि प्रचयस्य विचार्यमाणस्यासंभवात् । नाप्येकपरमाणुरूपं सकृदपि तस्य प्रतिभासाभावाहिरबैंकपरमाणुवत् । ततोऽपि न संवित्परमाणुरूपोऽपि सुगतः सकलसंतानसंवित्परमाणुरूपाणि चतुरार्यसत्यानि दुःखादीनि परमार्थतः संवेदयते वेद्यवेदकभावप्रसंगादिति न तत्वतो विश्वतत्वज्ञः स्यात्, येनासौ निर्वाणमार्गस्य प्रतिपादकः समनुमन्यते । स्यान्मतं संवृत्त्या वेद्यवेदकभावस्य सद्भावात्सुगतो विश्वतत्त्वानां ज्ञाता श्रेयोमार्गस्य चोपदेष्टा स्तूयते तत्त्वतस्तदसंभवादिति तदप्यज्ञचोष्टतमिति निवेदयति
" संवृत्या विश्वतत्वज्ञः श्रेयोमार्गोपदेश्यपि । बुद्धो वन्द्यो न तु स्वप्नस्ताहगित्यज्ञचेष्टितं " ॥४॥
ननु च संवृतत्वाविशेषऽपि सुगतस्वप्नसंवेदनयोः सुगतएव वंद्यस्तस्य भूतस्वभावत्वाद्विपर्ययैरबाध्यमानत्वादर्थक्रियाहेतुत्वाच्च नतु स्वप्नसंवेदनं वयं तस्य संवृत्त्यापि बाध्यमानत्वात् भूतार्थत्वाभावादर्थक्रियाहेतुत्वाभावाच्चेति चेन्न भूतत्वसांवृतत्वयोर्विप्रतिषेधात् । भूतं हि सत्यं सांवृतमसत्यं तयोः कथमेकत्र सकृत्संभवः । संवृतिसत्यंभूतमितिचेन्न, तस्य विपर्ययैरबाध्यमानत्वायोगात् स्वप्नसंवेदनादविशेषात् । ननु च संवृतिरपि द्वेधा सादिरनादिश्च । सादिः स्वप्नसंवेदनादिः सा बाध्यते, सुगतसंवेदनाऽनादिः सा न बाध्यते संवृतित्वाविशेषेऽपीति चेन्न, संसारस्याबाध्यत्व प्रसंगात् सह्यनादिरेवानाद्यविद्यावासनाहेतुत्वात् प्रबाध्यते मुक्तिकारणसाम
र्थ्यात् । अन्यथा कस्यचित् संसाराभावाप्रसिद्धेः । संवृत्या सुगतस्य वंद्यत्वे च परमार्थतः किंनाम वंद्यं स्यात् संवेदनाद्वैतमिति चेन्न तस्य
Page #101
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
९६
स्वतोऽन्यतो वा प्रतिपत्त्यभावादित्याहयत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत् । सिद्धयेत्स्वतोऽन्यतो वापि प्रमाणात्स्वेष्टहानितः ॥ ८५ ॥ ताद्ध संवेदनाद्वैतं न तावत्स्वतः सिध्यति पुरुषाद्वैतवत् । स्वरूपस्य स्वतोगतेरभावात्। अन्यथा कस्यचित्तत्र विप्रतिपत्तेरयोगात् पुरुषाद्वैतस्यापि प्रसिद्धेरिष्टहानिप्रसंगाच्च । ननु च पुरुषाद्वैतं न स्वतोऽवसीयते तस्य नित्यस्य सकलकालकलापव्यापितया सर्वगतस्य च सकलदेशप्रतिष्ठिततया वाऽनुभवाभावादिति चेन्न । संवेदनाद्वैतस्यापि क्षणिकस्यैकक्षणस्थायितया निरंशस्यैकपरमाणुरूपतया सकृदप्यनुभवाभावाविशेषात् । यदि पुनरन्यतः प्रमाणासंवेदनाद्वैतसिद्धिः स्यात् तदापि स्वेष्टहानिरवश्यंभाविनी साध्यसाधनयोरम्युपगमे द्वैतसिद्धिप्रसंगात् । यथा चानुमानात्संवेदनाद्वैतं साध्यते । यत्संवेद्यते तत्संवेदनमेव यथा संवेदनस्वरूप संवेद्यन्ते च नीलसुखादीनि । तथा पुरुषाद्वैतमपि वेदांतवादिभिः साध्यते । प्रतिभासएवेदं सर्वं प्रतिभासमानत्वात्, यद्यत्प्रतिभासमानं तत्तत्प्रतिभासएव यथा प्रतिभासस्वरूपं प्रतिभासमानं चेदं जगत्तस्मात्प्रतिभास एवेत्यनुमानात् । नह्यत्रजगतः प्रतिभासमानत्वम सिद्धं साक्षादसाक्षाच्च तस्याऽप्रतिभासमानत्वे सकलशब्दविकल्प वाग्गोचरातिक्रांततया वक्तुमशक्तेः प्रतिभासश्च चिद्रूपएव अचिद्रूपस्य प्रतिभासत्वविरोधात् । चिन्मात्रं च पुरुषाद्वैतं तस्य च देशकालाकारतो विच्छेदानुपलक्षणत्वात् नित्यत्वं सर्वगतत्वं साकारत्वं च व्यवतिष्ठते । नहि स कश्चित्कालोऽस्ति यश्चिन्मात्रप्रतिभासशून्यः प्रतिभासविशेषस्यैव विच्छेदान्नीलसुखादिप्रतिभासविशेषवत् । सह्येकदा प्रतिभासमानोऽन्यदा न प्रतिभासते प्रतिभासांतरेण विच्छेदात्प्रतिभासमात्रं तु सकलप्रतिभासविशेषकालेऽप्यस्तीति न कालतो विच्छिन्नं, नापि देशतः क्वचिदेशे प्रतिभास
Page #102
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
विशेषस्य देशांतरप्रतिभासविशेषेण विच्छेदेऽपि प्रतिभासमात्रस्याविच्छेदादिति न देशविच्छन्नं प्रतिभासमात्र नाप्याकारविच्छिन्नं केनचिदाकारेण प्रतिभासविशेषस्यैवाकारांतरप्रतिभासविशेषेण विच्छेदोपलब्धेः प्रतिभासमात्रस्य सर्वाकारप्रतिभासविशेषेषु सद्भावादाकारेणाप्यविच्छिन्नं तत्, प्रतिभासविशेषाश्च देशकालाकारैर्विच्छिद्यमानाः यदि न प्रतिभासंते तदा न तद्वयवस्थाऽतिप्रसंगात् प्रतिभासन्ते चेत्प्रतिभासमात्रांतःप्रविष्टा एव प्रतिभासस्वरूपवत् । नहि प्रतिभासमानं किंचित्प्रतिभासमात्रांतःप्रविष्टं नोपलब्धं येनानैकांतिकं प्रतिभासमानत्वं स्यात् तथा देशकालाकारभेदाश्च परैरभ्युपगम्यमाना यदि न प्रतिभासंते कथमभ्युपगमाहीः स्वयमप्रतिभासमानस्यापि कस्यचिदभ्युपगमेऽतिप्रसंगानिवृत्तेः, प्रतिभासमानास्तु तेऽपि प्रतिभासमात्रांतःप्रविष्टा एवेति कथं तैः प्रतिभासमात्रस्य विच्छेदः स्वरूपेणास्वरूपेण स्वस्य विच्छेदानुपपत्तेः सन्नपि देशकालाकारैर्विच्छेदः प्रतिभासमात्रस्य प्रतिभासते न वा ? प्रतिभासते चेत्प्रतिभासस्वरूपमेव तस्य च विच्छेद इति नामकरणे न किंचिदनिष्टं । न प्रतिभासतेचेत्कथमस्ति न प्रतिभासते चास्तिवेतिविप्रतिषेधात् । ननु च देशकालस्वभावविप्रकृष्टाः कथंचिदप्रतिभासमाना अपि संतः सद्भिबांधकाभावादिष्यंत एवेति चेन्न, तेषामपि शब्दज्ञानेनानुमानज्ञानेन वा प्रतिभासमानत्वात् । तत्राप्यप्रतिभासमानानां सर्वथाऽस्तित्वव्यवस्थानुपपत्तेः । नन्वेवं शब्दविकल्पज्ञाने प्रतिभासमानाः परस्परविरुद्धार्थप्रवादाः शशविषाणादयश्च नष्टानुत्पन्नाश्च रावणशंखचक्रवर्त्यादयः कथमपाक्रियते तेषामनपाकरणे कथं पुरुषाद्वैतसिद्धिरिति चेन्न । तेषामपि प्रतिभासमात्रांतःप्रविष्टत्वसाधनात् । एतेन यदुच्यते कैश्चित् “ अद्वैतैकांतपक्षेऽपि दृष्टोभेदो विरुध्यते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते । कर्म
Page #103
--------------------------------------------------------------------------
________________
૨૮
श्रीविद्यानंदिस्वामिविरचिता
द्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याविद्याद्वयं न स्याद्वंधमोक्षद्वयं तथेति " तदपि प्रत्याख्यातं, क्रियाणां कारकाणां च दृष्टस्य भेदस्य प्रतिभासमानस्य पुण्यपापकर्मद्वैतस्य तत्फलद्वैतस्य च सुखदुःखलक्षणस्य लोकद्वैतस्येह परलोकविकल्पस्य विद्याविद्याद्वैतस्य च सत्येतरज्ञानभेदस्य बंधमोक्षद्वयस्य च पारतंत्र्यस्वभावस्य प्रतिभासमात्रांतः प्रविष्टत्वाद्विरोधकत्वासिद्धेः स्वयमप्रतिभासमानस्य च विरोधकत्वं दुरुपपादं स्वष्टतत्त्वस्यापि सर्वेषामप्रतिभासमानेन विरोधकेन विरोधापत्तेर्न किंचित्तत्वमविरुद्धं स्यात् यदप्यभ्यधायि “ हेतोरद्वैतसिद्धिश्चेद्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वाङ्मात्रतो न किं " इति । तदपि न पुरुषाद्वैतवादिनः प्रतिक्षेपकं प्रतिभासमानत्वस्य हेतोः सर्वस्य प्रतिभासमात्रांतः प्रविष्टत्वसाधनस्य स्वयं प्रतिभासे प्रतिभासमात्रांतः प्रविष्टत्वसिद्धेद्वैतसिद्धिनिबंधनत्वाभावात् । हेतुना विना चोपनिषद्वाक्यमात्रात्पुरुषाद्वैतसिद्धौ न वाङ्मात्रादद्वैतसिद्धिः प्रसज्यते न चोपनिषद्वाक्यमपि परमपुरुषादन्यदेव तस्य प्रतिभासमानस्य परमपुरुष स्वभावत्वसिद्धेः। यदपि कैश्चिन्निगद्यते पुरुषाद्वैतस्यानुमानात्प्रसिद्ध पक्षहेतुदृष्टांतानामवश्यंभावात् तैर्विनाऽनुमानस्यानुदयात्कुतः पुरुषाद्वैतं सिध्येत् ? पक्षादिभेदस्य सिद्धेरिति तदपि न युक्तिमत् । पक्षादीनामपि प्रतिभासमानानां प्रतिभासांतः प्रविष्टानां प्रतिभासमात्राबाधकत्वादनुमानवत् । तेषामप्रतिभासमानानां तु सद्भावाप्रसिद्धेः कुतः पुरुषाद्वैतविरोधित्वं । यदप्युच्यते कैश्चित्पुरुषाद्वैतं तत्त्वं परेण प्रमान प्रतीयमानं प्रमेयं तत्त्वं तत्परिच्छित्तिश्च प्रमितिः प्रमाता च यदि विद्यते तदा कथं पुरुषाद्वैतं प्रमाणप्रमेयप्रमातृप्रमितीनां तात्विकीनां सद्भावात्तत्वचतुष्टयप्रसिद्धिरिति । तदपि न विचारक्षमं | प्रमाणादिचतुष्टयस्यापि प्रतिभासमानस्य प्रतिभासमात्रात्मनः परमब्रह्मणो बहिर्भावाभावात् तदब
Page #104
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
mmrammar.maare
हिभूर्तस्य द्वितीयत्वायोगात् । एतेन षोडशपदार्थप्रतीत्या प्रागभावादिप्रतीत्या च पुरुषाद्वैतं बाध्यत इति वदन्निवारितः । तैरपि प्रतिभासमानैर्द्रच्यादिपदार्थरिव प्रतिभासमात्रादवहिभूतैः पुरुषाद्वैतस्य बाधनायोगात्।स्वयमप्रतिभासमानस्तु सद्भावव्यवस्थामप्रतिपद्यमानैस्तस्य बाधने शशविषाणादिभिरपि स्वेष्टपदार्थनियमस्य बाधनप्रसंगात् । एतेन सांख्यादिपरिकल्पितैरपि प्रकृत्यादितत्वैः पुरुषाद्वैतं न बाध्यते इति निगदितं बोद्धव्यं । न चात्र पुरुषाद्वैते यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टौ योगांगानि योगो वा संप्रज्ञातोऽसंप्रज्ञातश्च योगफलं च विभूतिकैवल्यलक्षणं विरुध्यते प्रतिभासमात्रात्तबहिर्भावाभावात् प्रतिभासमानत्वेन तथाभावप्रसिद्धेः । येऽप्याहुः प्रतिभासमानस्यापि वस्तुनः प्रतिभासाद्भेदप्रसिद्धेः न प्रतिभासांतःप्रविष्टत्वं प्रतिभासो हि ज्ञानं स्वयं न प्रतिभासते स्वात्मनि क्रियाविरोधात्तस्य ज्ञानांतरवेद्यत्वसिद्धेर्नापि तद्विषयभतं वस्तु स्वयं प्रतिभासमानं तस्य ज्ञेयत्वात् । ज्ञानेनैव प्रतिभासत्वसिद्धेरिति स्वयं प्रतिभासमानत्वं साधनमसिद्धं न कस्यचित्प्रतिभासांतःप्रविष्टत्वं साधयेत् । परतःप्रतिभासमानत्वं तु विरुद्धं प्रतिभासबहिर्भावसाधनत्वादिति तेऽपि स्वदर्शनपक्षपातिन एव ज्ञानस्य स्वयमप्रतिभासने ज्ञानांतरादपि प्रतिभासनविरोधात् प्रतिभासत इति प्रतिभासैकतया स्वातंत्र्येण प्रतीतिविरोधात् प्रतिभास्यत इत्येवं प्रत्ययप्रसंगात् तस्य परेण ज्ञानेन प्रतिभासमानत्वात्, परस्य ज्ञानस्य च ज्ञानांतरप्रतिभासने प्रतिभासतइति संप्रत्ययो न स्यात् संवेदनांतरेण प्रतिभास्यत्वात् । तथा चानवस्थानान्न किंचित्संवेदनं व्यवतिष्ठते । नच ज्ञानं प्रतिभासत इति प्रतीतिभ्रीता वाधकाभावात् । स्वात्मनि क्रियाविरोधो बाधक इति चेत्का पुनः स्वात्मनि क्रिया विरुध्यते ज्ञप्तिरुत्पत्तिा ? न तावत्प्रथमकल्पना स्वात्मनि
Page #105
--------------------------------------------------------------------------
________________
१००
श्रीविद्यानंदिस्वामिविरचिता
ज्ञप्तेविरोधाभावात् स्वयं प्रकाशनं हि ज्ञप्तिः । तच्च सूर्यालोकनादौ स्वात्मनि प्रतीयत एव, ‘सूर्यालोकः प्रकाशते' 'प्रदीपः प्रकाशते' इति प्रतीतेः । द्वितीयकल्पना तु न बाधकारिणी, स्वात्मन्युत्पत्तिलक्षणायाः क्रियायाः परैरनभ्युपगमात् । न हि किंचित्स्वस्मादुत्पद्यते इति प्रेक्षावंतोऽनुमन्यते । संवेदनं स्वस्मादुत्पद्यत इति तु दूरोत्सारितमेव । ततः कथं स्वात्मनि क्रियाविरोधो वाधकःस्यात् ? न च सर्वा क्रिया वस्तुनः स्वात्मनि विरुध्यत इति प्रतीतिरस्ति तिष्ठत्यास्ते भवतीति धात्वर्थलक्षणायाः क्रियायाः स्वात्मन्येव प्रतीतेः । तिष्ठत्यादेर्धातोरकर्मकत्वात्कर्मणि क्रियानुत्पत्तेः स्वात्मन्येव कर्तरि स्थानादि क्रियेतिचेत्तर्हि भासते तद्धातोरकर्मकत्वात्कर्मणि क्रियाविरोधात् कर्तर्येवं प्रतिभासनक्रियाऽस्तु ज्ञानं प्रतिभासत इति प्रतीतेः । सिद्धे च ज्ञानस्य स्वयं प्रतिभासमानत्वे सकलस्य वस्तुनः स्वतः प्रतिभासमानत्वं सिद्धमेव । सुखं प्रतिभासते रूपं प्रतिभासत इत्यंतर्बहिर्वस्तुनः स्वातंत्र्येण कर्तृतामनुभवतः प्रतिभासनक्रियाधिकरणस्य प्रतिभासमानस्य निराकर्तुमशक्तेः । ततो नासिद्धं साधनं यतः पुरुषाद्वैतं न साधयेत् । नापि विरुद्धं परतः प्रतिभासमानत्वाप्रतीतेः, कस्यचित्प्रतिभासाद्वर्हिर्भावासाधनात् । एतेन परोक्षज्ञानवादिनः संवेदनस्य स्वयं प्रतिभासमानत्वमसिद्धमाचक्षाणाः सकल ज्ञेयस्य ज्ञानस्य च ज्ञानात्प्रतिभासमानत्वात्साधनस्य विरुद्धतामभिदधानाः प्रतिध्वस्ताः ज्ञानं प्रकाशते बहिर्वस्तु प्रकाशत इति प्रतीत्या स्वयं प्रतिभासमानत्वस्य साधनस्य व्यवस्थापनात् । ये त्वात्मा स्वयं प्रकाशते फलज्ञानं चेत्या-- वेदयति तेषामात्मनि फलज्ञाने वा स्वयं प्रतिभासमानत्वं सिद्धं सर्वस्य वस्तुनः प्रतिभासमानत्वं साधयत्येव । तथाहि-विवादाध्यासितं वस्तु स्वयं प्रतिभासते प्रतिभासमानत्वात् । यद्यत्प्रतिभासमानं तत्तत्स्वयं प्रतिभासते
Page #106
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
१०१
यथा भट्टमतानुसारिणामात्मा प्रभाकरमतानुसारिणां वा फलज्ञानं । प्रतिभासमानं चांतर्बहिर्वस्तु ज्ञानज्ञेयरूपं विवादाध्यासितं तस्मात्स्वयं प्रतिभासते । न तावदत्र प्रतिभासमानत्वमसिद्धं सर्वस्य वस्तुनः सर्वथाऽप्यप्रतिभासमानस्य सद्भावविरोधात् । साक्षादसाक्षाच्च प्रतिभासमानस्य तु सिद्धं प्रतिभासमानत्वं ततो भवत्येव साध्यसिद्धिः साध्याविनाभावनियमनिश्चयादिति निरवचं पुरुषाद्वैतसाधनं संवेदनाद्वैतवादिनोऽभीष्टहानये भवत्येव । नहि कार्यकारणग्राह्यग्राहकवाच्यवाचकसाध्यसाधकबाध्यबाधकविशेषणविशेष्यभावनिराकरणात् संवेदनाद्वैतं व्यवस्थापयितुं शक्य कार्यकारणभावादीनां प्रतिभासमानत्वात् प्रतिभासमात्रांतःप्रविष्टानां निराकर्तुमशक्तेः, स्वयमप्रतिभासमानानां तु संभवाभावात्संवृत्यापि व्यवहारविरोधात् सकलविकल्पवाग्गोचरातिक्रांततापत्तेः । संवेदनमात्रं चैकक्षणस्थायि यदि किंचित्कार्य न कुर्यात्तदा वस्त्वेव न स्यात् , वस्तुनोऽर्थक्रियाकारित्वलक्षणत्वात् । करोति चेत्कार्यकारणभावः सिध्येत् । तस्य हेतुमत्वेच स एवकार्यकारणभावः कारणरहितत्वे तु नित्यतापत्तिः संवेदनस्य, सतोऽकारणवतो नित्यत्वप्रसिद्धेरिति प्रतिभासमात्मनः पुरुषतत्वस्यैव सिद्धिः स्यात् । किंच क्षणिकसंवेदनमात्रस्य ग्राह्यग्राहकवैधुर्य यदि केनचित्प्रमाणेन गृह्यते तदा ग्राह्यग्राहकभावः कथं निराक्रियेत । न गृह्यते चेत्कुतो ग्राह्यग्राहकवैधुर्यसिद्धिः ? स्वरूपसंवेदनादेवेति चेत्तर्हि संवेदनाद्वैतस्य स्वरूपसंवेदनं ग्राहकं ग्राह्यग्राहकवैधुर्य तु ग्राह्यमिति स एव ग्राह्यग्राहकभावः । स्यान्मतं “ नान्योऽनुभाव्योबुद्धयाऽस्ति तस्यानानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते" इति वचनान्न बुद्धेः किंचिद्ग्राह्यमस्ति नापि बुद्धिः कस्यचिद्ग्राह्या स्वरूपेऽपि ग्राह्यग्राहकभावाभावात् ‘स्वरूपस्य स्वतोगति' रित्येतस्यापि
Page #107
--------------------------------------------------------------------------
________________
१०२
श्रीविद्यानंदिस्वामिविरचिता
संवृत्याभिधानात् परमार्थतस्तु बुद्धिः स्वयं प्रकाशते चकास्तीत्येवोच्यते न पुनः स्वरूपं गृह्णाति ग्राह्यग्राहकवैधुर्य च स्वरूपादव्यतिरिक्तं गृह्णाति जानातीत्यभिधीयते निरंशसंवेदनाद्वैते तथाभिधानविरोधादिति । तदपि न पुरुषाद्वैतवादिनः प्रतिकूलं स्वयं प्रकाशमानस्य संवेदनस्यैव परमपुरुषत्वात् । नहि तत्संवेदनं पूर्वापरकालव्यवच्छिन्नं संतानांतरबहिरर्थव्यावृत्तं च प्रतिभासते यतः पूर्वापरक्षणसंतानांतरबहिरानामभावः सिद्धयेत्। तेषां संवेदनेनाग्रहणादभाव इतिचेत् स्वसंवेदनस्यापि संवेदनांतरेणाग्रहणादभावोऽस्तु । तस्य स्वयं प्रकाशनान्नाभाव इतिचेत् पूर्वोत्तरस्वसंवित्क्षणानां संतानांतरसंवेदनानांच बहिरर्थानामिव स्वयं प्रकाशमानानां कथमभावः साध्यते । कथं तेषां स्वयं प्रकाशमानत्वं ज्ञायत इतिचेत् स्वयमप्रकाशमानत्वं तेषां कथं साध्यत इति समानः पर्यनुयोगः । स्वसंवेदन स्वरूपस्य प्रकाशमानत्वमेव तेषामप्रकाशमानत्वमितिचेत्तर्हि तेषां प्रकाशमानत्वमेव स्वसंवेदनस्यैवाप्रकाशमानत्वं किं न स्यात् ? स्वसंवेदनस्य स्वयमप्रकाशमानत्वे परैः प्रकाशमानत्वाभावः साधयितुमशक्यः प्रतिषेधस्य विधेर्विषयत्वात् सर्वत्र सर्वदा सर्वथाऽप्यसतः प्रतिषेधविरोधात् इतिचेत्तर्हि स्वसंवेदनात्परेषां प्रकाशमानत्वाभावे कथं तत्प्रतिषेधः साध्यत इति समानश्चर्चः । विकल्पप्रतिभासिनां तेषां स्वसंवेदनावभासित्वं प्रतिषिध्यत इतिचेन्न विकल्पावभासित्वादेव स्वयं प्रकाशमानत्वसिद्धेः । तथाहि-यद्यद्विकल्पप्रतिभासि तत्तत्स्वयं प्रकाशते यथा विकल्पस्वरूपं तथा च स्वसंवेदनपूर्वोत्तरक्षणाः संतानांतरसंवेदनानि बहिरर्थाश्चेति स्वयं प्रकाशमानत्वसिद्धिः । शशविषाणादिभिर्विनष्टानुत्पन्नैश्च भावैर्विकल्पावभासिभिर्व्यभिचार इति चेन्न तेषामपि प्रतिभासमात्रांतर्भूतानां स्वयं प्रकाशमानत्वसिद्धेः अन्यथा विकल्पावभासित्वायोगात् । सोऽयं सौगतः सकलदेशका
Page #108
--------------------------------------------------------------------------
________________
१०३
आप्तपरीक्षा ।
लविप्रकृष्टानप्यर्थान् विकल्पबुद्धौ प्रतिभासमानान् स्वयमभ्युपगमयन् स्वयंप्रकाशमानत्वं नाभ्युपैतीति किमपि महाद्भुतं ? तथाभ्युपगमे च सर्वस्य प्रतिभासमात्रांतः प्रविष्टत्वसिद्धेः पुरुषाद्वैतसिद्धिरेव स्यात् नपुनस्तद्वहिर्भूतसंवेदनाद्वैतसिद्धिः। माभून्निरंशसंवेदनाद्वैतं चित्राद्वैतं तुस्यात् चित्राद्वैतस्य व्यवस्थापनात् । कालत्रयत्रिलोकवर्ति पदार्थाकारासंविच्चित्राप्येका शश्वदशक्यविवेचनत्वात् सर्वस्य वादिनस्तत एवक्वचिदेकत्वव्यवस्थापनात् अन्यथा कस्यचिदेकत्वेनाभिमतस्याप्येकत्वासिद्धिरितिचेन्न एवमपि परमब्रह्मण एव प्रसिद्धेः सकलदेशकालाकारव्यापिनः संविन्मात्रस्यैव परम - ह्मत्ववचनात् । नचैकक्षणस्थायिनी चित्रासंवित् चित्राद्वैतमिति साधयितुं शक्यते तस्याः कार्यकारणभूतचित्र संविन्नांतरीयत्वाच्चित्रद्वैतप्रसंगात्तत्कार्यकारणचित्रसंविदोऽनभ्युपगमे सदहेतुकत्वान्नित्यत्वसिद्धेः कथं न चित्राद्वैतमेव ब्रह्माद्वैतमिति न संवेदनाद्वैतवच्चित्राद्वैतमपि सौगतस्य व्यवतिष्ठते सर्वथा शून्यं तु तत्वमसंवेद्यमानं न व्यवतिष्ठते । संवेद्यमानं तु सर्वत्र सर्वथा सर्वदा परमब्रह्मणो नातिरिच्यते तत्राक्षेपसमाधानानां परमब्रह्मसाधनानुकूलत्वात् । ततो न सुगतस्तत्वतः संवृत्या वा विश्वतत्वज्ञः संभवतीति न निर्वाणमार्गस्य प्रतिपादकः स्यात् । "परमपुरुष एव विश्वतत्वज्ञः श्रेयोमार्गस्य प्रणेता व्यवतिष्ठतां तस्योक्तन्यायेन साधनात् इत्यपरः " सोऽपि न विचारसहः । पुरुषोत्तमस्यापि यथा प्रतिपादनं विचार्यमाणस्या योगात् । प्रतिभासमात्रं चिद्रूपं परमब्रह्मोक्तं तच्च यथा पारमार्थिकं देशकालाकाराणां भेदेऽपि व्यभिचाराभावात् तत्प्रतिभासविशेषाणामेव व्यभिचारादव्यभिचारित्वलक्षणत्वात्तस्येति तच्च विचार्यते । यदेतत्प्रतिभासमात्रं तत् सकलप्रतिभासविशेषरहितं तत्सहितं वा स्यात् ? प्रथमपक्षे तदसिद्धमेव सकलप्रतिभासविशेषरहितस्य प्रतिभासमात्रस्यानुभवाभावात् । केन
Page #109
--------------------------------------------------------------------------
________________
१०४
श्रीविद्यानंदिस्वामिविरचिता
चित्प्रतिभासविशेषेण सहितस्यैव तस्य प्रतिभासनात्क्वचित्प्रतिभासविशेषस्याभावेऽपि पुनरन्यत्र भावात्कदाचिदभावेऽपि चान्यदा सद्भावात्केनचिदाकारविशेषेण तदसंभवेऽपि चाकारांतरेण संभवाद्देशकालाकारविशेषापेक्षत्वात् तत्प्रतिभासविशेषाणां तथा व्यभिचाराभावादव्यभिचारित्वसिद्धेः तत्वलक्षणानतिकमान्न तत्वबहिर्भावो युक्तः । तथाहि-यद्यथैवाव्यभिचारि. तत्तथैव तत्वं तथा प्रतिभासमात्रं प्रतिभासमात्रतयैवाव्यभिचारि तथैव तत्वं । अनियतदेशकालाकारतयैवाव्यभिचारी च प्रतिभासविशेष इति प्रतिभासमात्रवत्प्रतिभासविशेषस्यापि वस्तुत्वसिद्धेः। नहि यो यद्देशतया प्रतिभासविशेषः स तद्देशतां व्यभिचरति, अन्यथा भ्रांतत्वप्रसंगात् शाखादेशतया चंद्रप्रतिभासवत् । नापि यो यत्कालतया प्रतिभासविशेषः स तत्कालतां व्यभिचरति, तद्वयभिचारिणोऽसत्यत्वव्यवस्थानान्निशि मध्यंदिनतया स्वप्नप्रतिमास. विशेषवत् । नापि यो यदाकारतया प्रतिभासविशेषः स तदाकारतां विसंवदति तद्विसंवादिनो मिथ्याज्ञानत्वसिद्धेः कामलाद्युपहतचक्षुषः शुक्ले शंखे पीताकारताप्रतिभामविशेषवत् । न च वितथैर्देशकालाकारव्यभि. चारिभिः प्रतिभासविशेषैः सदृशा एव देशकालाकाराव्यभिचारिणः प्रतिभासविशेषाः प्रतिलक्षयितुं युज्यते यत इदं वेदांतवादिनां वचनं शोभेत " आदावते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः संतोऽवितथा एव लक्षिताः" इति तेषामवितथानामादावंते चासत्वेऽपि वर्तमाने सत्त्वप्रसिद्धेबर्बाधकप्रमाणाभावात् । नहि यथा स्वप्नादिभ्रांतप्रतिभासविशेषेषु तत्कालेऽपि बाधकं प्रमाणमुदेति तथा जाग्रदशायामभ्रांतप्रतिभासविशेषेषु, तत्र साधकप्रमाणस्यैव सद्भावात् । सम्यङ्मया तदा दृष्टोऽर्थोऽर्थक्रियाकारित्वात् तस्य मिथ्यात्वेऽर्थक्रियाकारित्वविरोधात् इंद्रजालादिपरिदृष्टार्थवदिति। नच भ्रांतेतरव्यवस्थायां चांडालादयोऽपि विप्रतिपद्यते तथा चोक्त
Page #110
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
१०५
मकलंकदेवैः " इंद्रजालादिषु भ्रांतमीरयंति न चापरं । अपि चांडालगोपालवाललोलविलोचना" इति । किंच तत्प्रतिभासमात्र सामान्यरूपं द्रव्यरूपं वा ? प्रथमपक्षे सत्तामात्रमेव स्यात् , तस्यैव परसामान्यरूपतया प्रतिष्ठानात् । तस्य स्वयं प्रतिभासमानत्वे प्रतिभासमात्रमेव तत्वमन्यथा तदव्यवस्थितेरितिचेन्न सत्सदित्यन्वयज्ञानविषयत्वात् सत्तासामान्यस्य व्यवस्थितेः स्वयं प्रतिभासमानत्वासिद्धेः । सत्ता प्रतिभासत इति तु विषये विषयिधर्मस्योपचारात् प्रतिभासनं हि विषयिणो ज्ञानस्य धर्मः स विषये सत्तासामान्येऽध्यारोप्यते तदध्यारोपनिमित्तं तु प्रतिभासनक्रियाधिकरणत्वं । यथैव हि संवित्प्रतिभासते इति कर्तृस्था प्रतिभासनक्रिया तथा तद्विषयस्थाप्युपचर्यते सकर्मकस्य धातोः कर्तृकर्मस्थक्रियार्थत्वात् यथौदनं पचतीति पचनक्रिया पाचकस्था पाच्यमानस्था च प्रतीयते तद्वदकर्मकस्य धातोः कर्तृस्थक्रियामात्रार्थत्वात् परमार्थतः कर्मस्थक्रियाऽसंभवात्कर्तृस्था क्रिया कर्मण्युपचर्यते । ननु च सति मुख्ये स्वयं प्रतिभासमाने कस्यचित् प्रमाणतः सिद्धे परत्र तद्विषये तदुपचारकल्पना युक्ता यथाऽग्नौ दाहपाकाद्यर्थक्रियाकारिणि तद्धर्मदर्शनान्माणवके तदुपचारकल्पनाऽग्निर्माणवक इति। न च किंचित्संवेदनं स्वयं प्रतिभासमानं सिद्धं संवेदनांतरसंवेद्यत्वात् । संवेदनस्य क्वचिदवस्थानाभावात् । सुदूरमपि गत्वा कस्यचित्संवेदनस्य स्वयं प्रतिमासमानस्यानभ्युपगमात् कथं तद्धर्मस्योपचारस्तद्विषये घटेतेति कश्चित् । सोऽपि ज्ञानांतरवेद्यज्ञानवादिनमुपालभतां परोक्षज्ञानवादिनं वा ? ननु च परोक्षज्ञानवादी भट्टस्तावन्नोपालंभार्हः स्वयंप्रतिभासमानस्यात्मन स्तेनाभ्युपगमात् तद्धर्मस्य प्रतिभासनस्य विषयेषूपचारघटनात् घटः प्रतिभासते, घटादयः प्रतिभासत इति घटपटादिप्रतिभासनान्यथानुपपत्या च करणभूतस्य परोक्षस्यापि ज्ञानस्य प्रतिपत्तेरविरोधात् रूपप्रति
Page #111
--------------------------------------------------------------------------
________________
१०६
श्रीविद्यानंदिस्वामिविरचिता
मासनाच्चक्षुःप्रतिपत्तिवत् । तथा करणज्ञानमात्मानं चाप्रत्यक्षं वदन् प्राभाकरोऽपि नोपालंभमर्हति फलज्ञानस्य स्वयं प्रतिभासमानस्य तेन प्रतिज्ञानात् तद्धर्मस्य विषयेषूपचारस्य सिद्धेः । फलज्ञानं च कर्तृकरणाभ्यां विना नोपपद्यत इति । तदेव कर्तारं करणज्ञानं चाप्रत्यक्षमपि व्यवस्थापयति यथा रूपे प्रतिभासनक्रिया फलरूपा चक्षुष्मंतं चक्षुश्च प्रत्यापयतीति केचिन्मन्यते तेषामपि भट्टमतानुसारिणामात्मनः स्वरूपपरिच्छेदेऽर्थपरिच्छेदस्यापि सिद्धेः । स्वार्थपरिच्छेदकपुरुषप्रसिद्धौ ततोऽन्यस्य परोक्षज्ञानस्य कल्पना न कंचिदर्थं पुष्णाति, प्रभाकरमतानुसारिणां फलज्ञानस्य स्वार्थपरिच्छित्तिरूपस्य प्रसिद्धौ करणज्ञानकल्पनावत् । कर्तुः करणमंतरेण क्रियायां व्यापारानुपपत्तेः परोक्षज्ञानस्य करणस्य कल्पनानानार्थकेति चेन्न मनसश्चक्षुरादश्चांतर्बहिःपरिच्छित्तौ करणस्य सद्भावात् ततो बहिर्भूतस्य करणांतरस्य कल्पनायामनवस्थाप्रसंगात् ततःस्वार्थपरिच्छेदकस्य पुंसः फलज्ञानस्य वा स्वार्थपरिच्छित्तिस्वभावस्य प्रसिद्धौ स्याद्वादिदर्शनस्यैव प्रसिद्धेः । स्वयं प्रतिभासमानस्यात्मनो ज्ञानस्य वा धर्मः क्वचित्तद्विषये कथंचिदुपचर्य्यत इति सत्तासामान्यं प्रतिभासते प्रतिभासविषयो भवतीत्युच्यते न चैवं प्रतिभासमात्रे तस्यानुप्रवेशः सिध्येत् परमार्थतः संवेदनस्यैव स्वयं प्रतिभासमानत्वात् । स्यान्मतं न सत्तासामान्यं प्रतिभासमात्रं तस्य द्रव्यादिमात्रव्यापकत्वात् सामान्यादिषु प्रागभावादिषु चाभावात् किं तर्हि सकलभावाभावव्यापकं प्रतिभाससामान्य प्रतिभासमात्रमभिधीयते इति । तदपि न. सम्यक् प्रतिभाससामान्यस्य प्रतिभासविशेषनांतरीयकत्वात्प्रतिभासाद्वैतविरोधात् , संतोऽपि प्रतिभासविशेषाः सत्यतां न प्रतिपद्यते संवादकत्वाभावात्स्वप्नादिप्रतिभासविशेषवदिति चेन्न प्रतिभाससामान्यस्याप्यसत्यत्वप्रसंगात् शक्यं हि वक्तुं प्रति
Page #112
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
१०७
प्रतिभाससामान्य
तस्य सर्वत्र
तदितिचेन्न
भाससामान्यमसत्यं विसंवादकत्वात् स्वप्नादिप्रतिमाससामान्यवदिति । न हि स्वप्नादिप्रतिभासविशेषा एव विसंवादिनो न पुनः प्रतिभाससामान्य सद्व्यापकमिति वक्तुं युक्तं, शशविषाणगगनकुसुमकूर्मरोमादीनामसत्वेऽपि तद्व्यापकसामान्यस्य सत्त्वप्रसंगात् । कथमसतां व्यापकं किचिंत्सत्स्यादितिचेत्कथमसत्यानां प्रतिभासविशेषाणां व्यापकं प्रतिभाससामान्यं सत्य. मिति समो वितर्कः । तस्य सर्वत्र सर्वदा सर्वथा वाऽविच्छेदात् सत्यं तदितिचेन्न एवं देशकालाकारविशिष्टस्यैव तस्य सत्यत्वसिद्धेः । सर्वदेशविशेषरहितस्य सर्वकालविशेषरहितस्य च सर्वाकारविशेषरहितस्यैव सर्वत्र सर्वथा सर्वदेति विशेषयितुमशक्तेः । तथा च प्रतिभाससामान्य सकलदेशकालाकारविशेषविशिष्टमभ्युपगच्छन्नेव वेदांतवादी स्वयमेकद्रव्यमनंतपर्यायं पारमार्थिकमितिप्रतिपत्तुमर्हति प्रमाणबलायातत्वात् , तदेवास्तु परमपुरुषस्यैव बोधमयप्रकाशविशदस्य मोहान्धकारापहस्यांतयामिनः सुनितित्वात् तत्र संशयानां प्रतिघातात्सकललोकोद्योतनसमर्थस्य तेजोनिधेरैशुमालिनोऽपि तस्मिन् सत्येव प्रतिभासनात्, असति चाप्रतिभासनादिति कश्चित् तदुक्तं " यो लोकान् ज्वलयत्यनल्पमहिमा सोऽप्येष तेजोनिधिर्यस्मिन्सत्यवभाति नासति पुनर्देवोंऽशुमाली स्वयं । तस्मिन्बोधमयप्रकाशविशदे मोहांधकारापहे येऽन्तर्यामिनि पूरुषे प्रतिहताः संशेरते ते हताः " इति । तदपि न पुरषाद्वैतव्यवस्थापनपरमाभासते तस्यांऽतयामिनः पुरुषस्य बोधमयप्रकाशविशदस्यैव बोध्यमयप्रकाश्यस्यासंभवानुपपत्तेः । यदि पुनः सर्व बोध्यं बोधमयमेव प्रकाशमानत्वाबोधस्वात्मवदिति मन्यते तदा बोधस्यापि बोध्यमयत्वापत्तिरिति पुरुषाद्वैतमिच्छतो बोध्याद्वैतसिद्धिः।। बोधाभावे कथं बोध्यसिद्धिरिति चेद्बोध्याभावेऽपि बोधसिद्धिः कथं है बोध्यनांतरीयकत्वाद्बोधस्य । स्वप्नेंद्रनालादिषु बोध्याभावेऽपि बोधसिद्धेर्न
Page #113
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
- बोध्यनांतरीयको बोध इति चेन्न तत्रापि बोध्यसामान्यसद्भाव एव बोधोपपत्तेः । न हि संशयस्वप्नादिबोधोऽपि बोध्यसामान्यं व्यभिचरति बोध्यविशेषस्यैव तस्य व्यभिचाराद्धांतत्वसिद्धेः । न च सर्वस्य बोध्यस्य स्वयंप्रकाशमात्रं सिद्धं स्वयं प्रकाशमानबोधविषयतया तस्य तथोपचारास्वयं प्रकाशमानांशुमालिप्रभाभारविषयभूतानां लोकानां प्रकाशमानोपचार - वत् ततो यथा लोकानां प्रकाश्यानामभावे न तानंशुमाली ज्वलयितुमलं तथा बोध्यानां नीलसुखादीनामभावे न बोधमयप्रकाशविशदों ऽतर्यामी तान् प्रकाशयितुमश इति प्रतिपत्तव्यं । तथाचांतः प्रकाशमानानं पर्यायैकपुरुषद्रव्यवत्, बहिः प्रकाश्यानतपर्यायैकाचेतनद्रव्यमपि प्रतिज्ञातव्यमिति चेतनाचेतनद्रव्यद्वैत सिद्धेः न पुरुषाद्वैतसिद्धिः संवेदनाद्वैतसिद्धिवत् । चेतनद्रव्यस्य च सामान्यादेशादेकत्वेऽपि विशेषादेशादनेकत्वं संसारिमुक्तविकल्पात् । सर्वथैकत्वे सकृत्तद्विरोधात् । अचेतनद्रव्यस्य सर्वथैकत्वे मूर्त मूर्तद्रव्यविरोधवत् । मूर्तिमदचेतनद्रव्यं हि पुद्गलद्रव्यमने कभेदं परमाणुस्कंधविकल्पात् पृथिव्यादिविकल्पाच्च धर्माधर्माकाशकालविकल्पममूर्तिमद्द्रव्यं चतुर्धा चतुर्विधकार्यविशेषानुमेयमिति द्रव्यस्य षड्विवस्य प्रमाणबलात्तत्वार्थालंकारेः समर्थनात् । तत्पर्यायाणां चातीतानागतवर्तमानानंतार्थव्यंजनविकल्पानां सामान्यतः सुनिश्चितासंभवद्बाधकप्रमाणात्परमागमात्प्रसिद्धेः । साक्षात्केवलज्ञानविषयत्वाच्च न द्रव्यैकांतसिद्धिः पर्यायैकांतसिद्धिर्वा । नचैतेषां सर्वद्रव्यपर्यायाणां केवलज्ञानं प्रतिभासमानानामपि प्रतिभासमात्रांतः प्रवेशः सिध्येत् विषयविषयिभेदाभावे सर्वाभावप्रसंगात् निर्विषयस्य प्रतिभासस्यासंभवान्निः प्रतिभासस्य विषयस्य वाऽव्यवस्थानात् । ततश्चाद्वैतैकांते कारकाणां कर्मादीनां क्रियाणां परिस्पंदलक्षणानां “धात्वर्थ लक्षणानां च दृष्ट भेदो विरुध्यत एव तस्य प्रतिभासमानस्यापि
१०८
Page #114
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
प्रतिभासमात्रांतःप्रवेशाभावात् । स्वयं प्रतिभासमानज्ञानविषयतया प्रतिभासमानतोपचारात् स्वयंप्रतिभास्यमानत्वेन व्यवस्थानात् । न च प्रतिभासमात्रमेव तद्भेदप्रतिभासं जनयति तस्य ततः प्रविष्टस्य जन्यत्वविरो-धात् । प्रतिभासमात्रस्य च जनकत्वायोगात् । नैकं स्वस्मात्प्रजायत इत्यपि सूक्तं । तथा कर्मद्वैतस्य - फलद्वैतस्य लोकद्वैतस्य च विद्याविद्याद्वयवद्वंधमोक्षद्वयवच्च प्रतिभासमानप्रमाणविषयतया व्यवस्थितेः प्रतिभासमानस्यापि प्रमेयतया व्यवस्थितेः प्रतिभासमात्रांतःप्रवेशानुपपत्तेरभावापादनं वेदांतवादिनामनिष्टं । सूक्तमेव समंतभद्रस्वामिभिः तथा, हेतोरद्वैतसिद्धिः यदि प्रतिभासमात्रव्यतिरेकिणः प्रतिभासमानादपि यदीष्यते तदा हेतुसाध्ययोर्द्वैतं स्यादित्यपि सूक्तमेव पक्षहेतुदृष्टांतानां कुतश्चित्प्रतिभासमाना- . नामपि प्रतिभासमात्रानुप्रवेशासंभवात् । एतेन हेतुना विनोपनिषद्वाक्यविशेषात्पुरुषाद्वैत सिद्धौ वाङ्मात्रात्कर्मकांड प्रतिपादकवाक्याद्वैतसिद्धिरपि किं न भवेत् । तस्योपनिषद्वाक्यस्य परमब्रह्मणोऽतः प्रवेशासिद्धेः । एतेन वैशेषिकादिभिः प्रतिज्ञातपदार्थभेदप्रतीत्या पुरुषाद्वैतं बाध्यत एव तद्भेदस्य प्रत्ययविशेषात्प्रतिभासमानस्यापि प्रतिभासमात्रात्मकत्वासिद्धेः । कुतः परमपुरुष एव विश्वतत्त्वानां ज्ञाता मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । तदेवमीश्वरकपिलसुगतब्रह्मणां विश्वतत्वज्ञतापायान्निर्वाणमार्गप्रणयनानुपपत्तेर्यस्य विश्वतत्त्वज्ञता कर्मभूभृतां भेत्तृता मोक्षमार्गप्रणेतृता च प्रमाणबलात्सिद्धा ।
१०९
सोऽर्हन्नेव मुनींद्राणां वंद्यः समवतिष्ठते ।
तत्सद्भावे प्रमाणस्य निर्बाधस्य विनिश्वयात् ॥ ८६ ॥ किं पुनस्तत्प्रमाणमित्याह -
Page #115
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
aaisaरिततत्त्वानि प्रत्यक्षाण्यर्हतोऽजसा । प्रमेयत्वाद्यमास्मादृक् प्रत्यक्षार्थाः सुनिश्चिताः ॥८७॥ कानि पुनरंतरिततत्त्वानि, देशाद्यंतरिततस्त्वानां सत्त्वे प्रमाणाभावात् । नह्यस्मदादिप्रत्यक्षं तत्र प्रमाणं देशकालस्वभावाव्यवहितवस्तुविषयत्वात् । सत्संप्रयोगे पुरुषस्येंद्रियाणां यद्बुद्धिजन्म तत्प्रत्यक्षमिति वचनात् । नाप्यनुमानं तत्र प्रमाणं तदविनाभाविनो लिंगस्याभावात् । नाप्यागमस्तदस्तित्वे प्रमाणं, तस्यापौरुषेयस्य स्वरूपे एव प्रामाण्यसंभवात् । पौरुषेयस्यासर्वज्ञप्रणीतस्य प्रामाण्यासंभवात् । पौरुषेयस्य सर्वज्ञप्रणीतस्य तु सर्वज्ञसाधनात्पूर्वमसिद्धेः । नाप्यर्थापत्तिः देशाद्यंतरिततत्वैर्विनाऽनुपपद्यमानस्य कस्यचिदर्थस्य प्रमाणषट्कप्रसिद्धस्यासंभवात् । नचोपमानमंतरिततत्त्वास्तित्वे प्रमाणं, तत्सदृशस्य कस्यचिदुपमानभूतस्यार्थस्यासिद्धेरुपमेयभूतांतरिततत्त्ववत् । तदुपलंभकप्रमाणपंचकाभावे च कुर्तोऽतरित - तत्त्वानि सिध्येयुर्यतो धर्म्यसिद्धिर्न भवेत् ? धर्मिणश्चासिद्धौ हेतुराश्रयासिद्ध इति केचित् तेऽत्र न परीक्षकाः । केषांचित्स्फटिकाद्यंतरितार्थानामस्मदादिप्रत्यक्षतोऽस्तित्वसिद्धेः परेषां कुड्यादिदेशव्यवहितानामग्न्यादीनां तदविनाभाविनो धूमादिलिंगादनुमानात् कालांतरितानामपि भवि - ष्यतां वृष्ट्यादीनांविशिष्टमेघोन्नतिदर्शनादस्तित्वसिद्धेः । अतीतानां पावकादीनां भस्मादिविशेषदर्शनात्प्रसिद्धेः । स्वभावांतरितानां तु करणशक्त्यादीनामर्थापत्त्यास्तित्वसिद्धेः । धर्मिणामंतरिततत्त्वानां प्रसिद्धत्वाद्धेतोश्वाश्रयासिद्धत्वानुपपत्तेः । नन्वेवं धर्मिसिद्धावपि हेतोश्चाश्रयासिद्धत्वाभावेऽपि पक्षोऽप्रसिद्ध विशेषणः स्यात्, अर्हत्प्रत्यक्षत्वस्य साध्यधर्मस्य क्वचिदप्रसिद्धेरिति न मंतव्यं पुरुषविशेषस्यार्हतः संबद्धवर्तमानार्थेषु प्रत्यक्षत्वप्रवृत्तेरविरोधादर्हत्प्रत्यक्षस्य विशेषणस्य सिद्धौ
११०
Page #116
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
१११
विरोधाभावात् । तद्विरोधे क्वचिज्जैमिन्यादिप्रत्यक्षविरोधापत्तेः । ननु च संवृत्त्यांतरिततत्वान्यर्हतः प्रत्यक्षाणीति साधने सिद्धसाधनमेव निपुणप्रज्ञे तथोपचारप्रवृत्तेर निवारणादित्यपि नाशंकनीयमंजसेति वचनात् । परमार्थ - तो ह्यंतरिततत्त्वानि प्रत्यक्षाण्यर्हतः साध्यते न पुनरुपचारतो यतः सिद्धसाधनमनुमन्यते । तथापि हेतोर्विपक्षवृत्तेरनैकांतिकत्वमित्याशंकायामिदमाह -
हेतोर्न व्यभिचारोऽत्र दूरार्थैमंदरादिभिः । सूक्ष्मैर्वा परमाण्वाद्यैस्तेषां पक्षीकृतत्वतः ॥ ८८ ॥ नहि कानिचिद्देशांतरितानि कालांतरितानि वा तत्वानि पक्षबहिर्भूतानि संति यतस्तत्र वर्तमानः प्रमेयत्वादिति हेतुर्व्यभिचारी स्यात् तादृशां सर्वेषां पक्षीकरणात् । तथाहि
तत्त्वान्यंतरितानीह देशकालस्वभावतः ।
धर्मादीनि हि साध्यते प्रत्यक्षाणि जिनेशिनः ॥ ८९ ॥ यथैवहि धर्माधर्मतत्त्वानि कानिचिद्देशांतरितानि देशांतरित पुरुषाश्रयस्वात् । कानिचित्कालांतरितानि कालांतरितप्राणिगणाधिकरणत्वात् । कानिचित्स्वभावांतरितानि देशकालाव्यवहितानामपि तेषां स्वभावतोऽतींद्रियत्वात् । तथा हिमवन्मंदरमकराकरादीन्यपि देशांतरितानि नष्टानुत्पन्नानं तपर्यायतत्त्वानि च कालांतरितानि, स्वभावांतरितानि च परमाण्वादीनि, जिनेश्वरस्य प्रत्यक्षाणि साध्यते न च पक्षीकृतैरेव व्यभिचारोद्भावनं युक्तं सर्वस्यानुमानस्य व्यभिचारित्वप्रसंगात् । ननु माभूद्व्यभिचारी हेतुः दृष्टांतस्तु साध्यविकल इत्याशंकामपहर्तुमाह -
न चास्माहरूसमक्षाणामेव महत्समक्षता । न सिध्येदिति मंतव्यमविवादाद्वयोरपि ॥ ९० ॥
Page #117
--------------------------------------------------------------------------
________________
११२ श्रीविद्यानंदिस्वामिविरचिता
येह्यस्मादृशां प्रत्यक्षाः संबद्धा वर्तमानाश्वार्थास्ते कथमर्हतः पुरुषविशेषस्य प्रत्यक्षाः न स्युस्तद्देशकालवर्तिनः पुरुषांतरस्यापि तदप्रत्यक्षत्वप्रसंगात् ततो न स्याद्वादिन इव सर्वज्ञाभाववादिनोऽप्यत्र विवदंते । वादिप्रतिवादिनोरविवादाच्च साध्यसाधनधर्मयोदृष्टांते च न साध्यवैकल्यं साधनवैकल्यं वा यतोऽनन्वयहेतुःस्यात् । नन्वतींद्रियप्रत्यक्षतोंऽतरिततत्त्वानि प्रत्यक्षाण्यर्हतः साध्यंते किंचेंद्रियप्रत्यक्षत इति संप्रधार्यम् । प्रथमपक्षे साध्यविकलो दृष्टांतः स्यात् । अस्मादृप्रत्यक्षाणामर्थानामतीं. द्रियप्रत्यक्षतोऽहत्प्रत्यक्षत्वासिद्धेः । द्वितीयपक्षे प्रमाणबाधितः पक्षः, इंद्रियप्रत्यक्षतो धर्माधर्मादीनामंतरिततत्वानामहत्प्रत्यक्षत्वस्य प्रमाणबाधितत्वात् । तथाहि-नार्हदिंद्रियप्रत्यक्षं धर्मादीन्यंतरिततत्वानि साक्षात्कर्तुं समर्थमिंद्रियप्रत्यक्षत्वादस्मदादींद्रियप्रत्यक्षवत् इत्यनुमानं पक्षस्य बाधक। न चात्र हेतोः सांजनचक्षुःप्रत्यक्षेणानैकांतिकत्वं, तस्यापि धर्माधर्मादिसाक्षात्कारित्वाभावात् । नापीश्वरेंद्रियप्रत्यक्षेण तस्यासिद्धत्वात्स्याद्वादिनामिव मीमांसकानामपि तदप्रसिद्धेरितिच न चोद्यं, प्रत्यक्षसामान्यतोऽहत्प्रत्यक्षत्वसाधनात् । सिद्धेचांतरिततत्वानां सामान्यतोऽहत्प्रत्यक्षत्वे धर्मादिसाक्षात्कारिणः प्रत्यक्षस्य सामर्थ्यादतींद्रियप्रत्यक्षत्वसिद्धेः । तथा दृष्टांतस्य साध्यवैकल्यदोषानवकाशात् कथमन्यथाभिप्रेतानुमानेऽप्ययं दोषो न भवेत् । तथाहि-नित्यःशब्दःप्रत्यभिज्ञायमानत्वात्पुरुषवदिति । अत्र कूटस्थनित्यत्वं साध्यते कालांतरस्थायिनित्यत्वं वा ? प्रथमकल्पनायामप्रसिद्धविशेषणः पक्षः कूटस्थनित्यत्वस्य क्वचिदन्यत्राप्रसिद्धेस्तत्र प्रत्यभिज्ञानस्यैवासंभवात् पूर्वापरपरिणामशून्यत्वात्प्रत्यभिज्ञानस्य पूर्वोत्तरपरिणामव्यापिन्येकत्र वस्तुनि सद्भावात् । पुरुषे च कूटस्थनित्यत्वत्य साध्यस्याभावात्ततस्य सातिशयत्वात् साध्यशून्यो दृष्टांतः । द्वितीयकल्पनायां
Page #118
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
तु स्वमतविरोधः, शब्दे कालांतरस्थायिनित्यत्वस्यानभ्युपगमात् । यदि. पुनर्नित्यत्वसामान्यं साध्यते सातिशयेतरनित्यत्वविशेषस्य साधयितुमनुपक्रांतत्वादिति मतं तदांतरिततत्त्वानां प्रत्यक्षसामान्यतोऽर्हत्प्रत्यक्षतायां साध्यायां न किंचिद्दोषमुत्पश्यामः इति नाप्रसिद्धविशेषणः पक्षः साध्यशून्यो वा दृष्टांतः प्रसज्यते। सांप्रतं हेतोः स्वरूपासिद्धत्वं प्रतिषेधयन्नाह
नचासिद्धं प्रमेयत्वं कात्स्य॑तो भागतोऽपि वा । सर्वथाप्यप्रमेयस्य पदार्थस्याव्यवस्थितेः॥ ९१ ॥ यदि षड्भिः प्रमाणैःस्यात्सर्वज्ञः केन वार्यते । इति ब्रुवन्नशेषार्थप्रमेयत्वमिहेच्छति ॥ ९२॥ चोदनातश्च निःशेषपदार्थज्ञानसंभवे । सिद्धमंतरितार्थानां प्रमेयत्वं समक्षवत् ॥ ९३ ॥
सोऽयं मीमांसकः प्रमाणबलात्सर्वस्यार्थस्य व्यवस्थामभ्युपयन् षड्भिः प्रमाणैः समस्तार्थज्ञानं वाऽनिवारयन् चोदनातो हि भूतं भवंतं भविष्यंत सूक्ष्म व्यवहितं विप्रकृष्टमित्येवं जातीयकमर्थमवगमयितुमलमिति स्वयं प्रतिपद्यमानः सूक्ष्मांतरितदूरार्थानां प्रमेयत्वमस्मत्प्रत्यक्षार्थानामिव कथमपह्नवीत यतः साकल्येन प्रमेयत्वं पक्षाव्यापकमसिद्धं ब्रूयात् । ननु च च प्रमातर्यात्मनि, करणे च ज्ञाने, फले च प्रभितिक्रियालक्षणे, प्रमेयत्वासंभवात् कर्मतामापन्नेष्वेवार्थेषु प्रमेयेषु भावाद्भागासिद्धं साधनं पक्षाव्यापकत्वादिति चेन्नैतदेवं प्रमातुरात्मनः सर्वथाप्यप्रमेयत्वे प्रत्यक्षत इवानुमानादपि प्रमीयमाणत्वाभावप्रसंगात्, प्रत्यक्षेण हि कर्मतयाऽऽत्मा न प्रतीयते इति प्रभाकरदर्शनं न पुनः सर्वेणापि प्रमाणेन, तव्यवस्थापनविरोधात् । करणज्ञान च प्रत्यक्षतः कर्मत्वेनाप्रतीयमानमपि घटाद्यर्थपरिच्छित्त्यन्यथानुपपत्त्यानुमीयमानं न सर्वथाप्यप्रमेयं ज्ञातेत्वनुमानादवगच्छति
Page #119
--------------------------------------------------------------------------
________________
११४
श्रीविद्यानंदिस्वामिविरचिता
बुद्धिमिति भाष्यकारशबरवचनविरोधात् फलज्ञानं च प्रमितिलक्षणं स्वसंवेदनप्रत्यक्षमिच्छतः कार्यानुमेयं च कथमप्रमेयं सिद्धयेत् । एतेन करणज्ञानस्य फलज्ञानस्य च परोक्षत्वमिच्छतोऽपि भट्टस्यानुमेयत्वं सिद्धं बोद्धव्यं । घटाद्यर्थप्राकट्येनानुमीयमानस्य सर्वस्य ज्ञानस्य कथंचित्प्रमे यत्वसिद्धः । ततो नांतरिततत्वेषु धर्मिषु प्रमेयत्वं साधनमसिद्धं वादिन इव प्रतिवादिनापि कथंचित्तत्र प्रमेयत्वप्रसिद्धेः । संदिग्धव्यतिरेकमप्येतन्न भवतीत्याह
यन्नार्हतःसमक्षं तन्नप्रमेयं बहिर्गतः। मिथ्यैकान्तो यथेत्येवं व्यतिरेकोऽपि निश्चितः॥ ९४॥ मिथ्र्यकांतज्ञानानि हि निःशेषाण्यपि परमागमानुमानाभ्यामस्मदादीनां प्रमेयाणि च प्रत्यक्षाणि चाहत इति न विपक्षतां भजते तद्विषयास्तु परैरभिमन्यमानाः सर्वथैकांता निरन्वयक्षणिकत्वादयो नाहत्प्रत्यक्षा इति ते विपक्षा एव नच ते कुतश्चित्प्रमाणात्प्रमीयंत इति न प्रमेयास्तेषामसत्त्वात् । ततो ये नार्हतः प्रत्यक्षास्ते न प्रमेया यथा सर्वथैकांतज्ञानविषया इति साध्यव्यावृत्तौ साधनव्यावृत्तिनिश्चयानिश्चितव्यतिरेकं प्रमेयत्वं समर्थितं ततो भवत्येव साध्यसिद्धिरित्याह
सुनिश्चितान्वयाद्धेतोः प्रसिद्धव्यतिरेकतः। ज्ञाताईन् विश्वतत्त्वानामेवं सिध्येदबाधितः ॥९५॥
"ननु च सूक्ष्मांतरितदूरार्थानां विश्वतत्त्वानां साक्षात्कर्ताऽर्हन्न सिद्धयत्येवास्माद्नुमानात् , पक्षस्य प्रमाणबाधित्वाद्धेतोश्च बाधितविषयत्वात् । तथाहि-देशकालस्वभावांतरितार्था धर्माधर्मादयोऽर्हतः प्रत्यक्षा इति पक्षः स चानुमानेन बाध्यते, धर्मादयो न कस्यचित्प्रत्यक्षाः शश्वदत्यंतपरोक्षत्वात् ये तु कस्यचि प्रत्यक्षास्ते नात्यंतपरोक्षाः यथा घटादयोऽर्थाः
Page #120
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
११५
अत्यंतपरोक्षाश्च धर्मादयस्तस्मान्न कस्यचित्प्रयक्षा इति । न तावदत्यं. तपरोक्षत्वं धर्मादीनामसिद्धं कदाचित्क्वचित्कथञ्चित्कस्यचित्प्रत्यक्षत्वासिद्धे. सर्वस्य प्रत्यक्षस्य तद्विषयत्वाभावात् । तथाहि-विवादाध्यासितं प्रत्यक्ष न धर्माद्यर्थविषयं प्रत्यक्षशब्दवाच्यत्वाद्यदित्थं तदित्थं यथास्मदादिप्रत्यक्षं प्रत्यक्षशब्दवाच्यं च विवादाध्यासितं तत्प्रत्यक्षं तस्मान्न धर्माद्यर्थविषयं इत्यनुमानेन धर्माद्यर्थविषयस्य प्रत्यक्षस्य निराकरणात् , न चेदमस्मदादिप्रत्यक्षागोचरविप्रकृष्टार्थग्राहिगृद्धवराहपिपीलिकादिचक्षुःश्रोत्रघ्राणः प्रत्यक्षैर्व्यभिचारि साधनं तेषामपि धर्मादिसूक्ष्माद्यर्थाविषयत्वादस्मदादिप्रत्यक्षविषयसनातीयार्थग्रहणानतिकमात्स्वविषयस्यैवेंद्रियेण ग्रहणादिद्रियांतरविषयस्यापरिच्छित्तेः । ननु च प्रज्ञामेधास्मृतिश्रुत्यूहापोहप्रबोधशक्तीनां प्रतिपुरुषमतिशयदर्शनात्कस्यचित्सातिशयं प्रत्यक्षं सिध्यत्परां काष्ठामापद्यमानं धर्मादिसक्ष्माद्यर्थसाक्षात्कारि संभाव्यतएव इत्यपि न मंतव्यं, प्रज्ञामेधादिभिः पुरुषाणां स्तोकस्तोकांतरत्वेन सातिशयत्वदर्शनात्, कस्यचिदतींद्रियार्थदर्शनानुपलब्धः । तदुक्तं भट्टेन “ येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकांतरत्वेन न त्वतींद्रियदर्शनादिति " । ननु च कश्चित्प्रज्ञावान्पुरुषः शास्त्रविषयान् सक्ष्मानर्थानुपलब्धुं प्रभुरुपलभ्यते तद्वत्प्रत्यक्षतोऽपि धर्मादिसूक्ष्मानर्थान् साक्षा स्कर्तु क्षमः किमिति न संभाव्यते ? ज्ञानातिशयानां नियमायतुमशक्तेरित्यपि न चेतसि विधेयं, तस्य स्वजात्यनतिक्रमेणैव सातिशयोपपत्तेः । नहि सातिशयं व्याकरणमतिदूरमपि जानानो नक्षत्रग्रहचक्रा तिचारादिनिर्णयेन ज्योतिःशास्त्रविदोऽतिशेते, तद्वुद्धेः शब्दापशब्दयोरेव प्रकर्षापषत्तेः वैयाकरणांतरातिशायनस्यैव संभवात् । ज्योतिर्विदोऽपि चंद्रार्कग्रहणादिषु निर्णयेन प्रकर्ष प्रतिपद्यमानस्यापि न भवत्यादिशब्द
Page #121
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
naruwwmmmmmmm
साधुत्वज्ञानातिशयेन वैयाकरणातिशायित्वमुत्प्रेक्षते । तथा वेदेतिहासादिज्ञानातिशयवतोऽपि कस्यचिन्न स्वर्गदेवताधर्माधर्मसाक्षात्करणमुपपद्यते, एतदभ्यधायि “ एकशास्त्रपरिज्ञाने दृश्यतेऽतिशयो महान् । नतु शास्त्रांतरज्ञानं तन्मात्रेणैव लभ्यते । ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये । ज्योर्तिविच्च प्रकृष्टोऽपि चंद्रार्कग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति । तथावेदेतिहासादिज्ञानातिशयवानपि । न स्वर्गदेवताऽपूर्वप्रत्यक्षीकरणे क्षम" इति । एतेन यदुक्तं सर्वज्ञवादिना “ ज्ञानं क्वचित्परां काष्ठां प्रतिपद्यते प्रकृष्यमाणत्वात् यद्यत्प्रकृष्यमाणं तत्तत्क्वचित्परांकाष्ठां प्रतिपद्यमानं दृष्टं यथा परिमाणमापरमाणोः प्रकृष्यमाणं नभसि, प्रकृष्यमाणं च ज्ञानं तस्मात्वचित्परां काष्ठां प्रतिपद्यते इति " तदपि प्रत्याख्यातं, ज्ञानं हि धर्मित्वेनोपादीयमानं प्रत्यक्षज्ञानं, शास्त्रार्थज्ञानमनुमानादिज्ञानं वा भवेद्गत्यंतराभावात् । तत्रंद्रियप्रत्यक्ष प्रतिप्राणिविशेष प्रकृष्यमाणमपि स्वविषयानतिकमेणैव परां काष्ठां प्रतिपद्यते गृद्धवराहादींद्रियप्रत्यक्षज्ञानवत् न पुनरतींद्रियार्थविषयत्वेनेति प्रतिपादनात् । शास्त्रार्थज्ञानमपि व्याकरणादि विषयं प्रकृष्यमाणं परां काष्ठामुपव्रजन्न शास्त्रांतरविषयतया धर्मादिसाक्षात्कारितया वा तामास्तिध्नुते । तथाऽनुमानादिज्ञानमपि प्रकृष्ममाणमनुमेयादिविषयतया परांकाष्ठामास्कंदेत् न पुनस्तद्विषयसाक्षात्कारितया । एतेन ज्ञानसामान्यं धर्मि क्वचित्परमप्रकर्षामियर्ति प्रकृष्यमाणत्वात् परमाणुवदिति वदन्नपि निरस्तः । प्रत्यक्षादिज्ञानव्यक्तिष्वन्यतमज्ञानव्यक्तेरेव परमप्रकर्षगमनसिद्धेस्तव्यतिरेकेण ज्ञानसामान्यस्य प्रकर्षगमनानुपपत्तेस्तस्य निरतिशयत्वात् । यदपि केनचिदभिधीयते श्रुतज्ञानमनुमानज्ञानं वाऽभ्यस्यमानमभ्याससात्मीभावे तदर्थसाक्षात्कारितया परां
Page #122
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
११७
दशामासादयति तदपि स्वकीयमनोरथमात्र, क्वचिदभ्याससहस्रेणापि ज्ञानस्य स्वविषयपरिच्छित्तौ विषयांतरपरच्छित्तेरनुपपत्तेः । नहि गगनतलोत्प्लवनमभ्यस्यतोऽपि कस्यचित्पुरुषस्य योजनशतसहस्रोत्प्लवनं लोकांतोत्प्लवनं वा संभाव्यते तस्य दशहस्तांतरोत्प्लवनमात्रदर्शनात्तदप्युक्तं " दशहस्तांतरं व्योम्नि यो नामोत्प्लुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि "। इत्यत्राभिधीयते यत्तावदुक्तं विवादाध्यासितं च प्रत्यक्षं न धादि सक्ष्माद्यर्थविषयं प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवदिति तत्र किमिदं प्रत्यक्ष, सत्संप्रयोगे पुरुषस्येंद्रियाणां बुद्धिजन्मप्रत्यक्षमिति चेत्तर्हि विवादाध्यासितस्य प्रत्यक्षस्यैतत्प्रत्यक्षविलक्षणत्वात् प्रत्यक्षशब्दवाच्यत्वेऽपि न धर्मादिसूक्ष्माद्यविषयत्वाभावःसिध्यति यादृशं हींद्रियप्रत्यक्षप्रत्यक्षशब्दवाच्यं धर्माद्यर्थासाक्षात्कारि दृष्टं तादृशमेव देशांतरे कालांतरे च विवादाध्यासितं प्रत्यक्ष तथा साधयितुं युक्तं तथाविधप्रत्यक्षस्यैव धर्माद्यविषयत्वस्य साधने प्रत्यक्षशब्दवाच्यस्य हेतोर्गमकत्वोपपत्तेः तस्यतेनाविनाभावनियमनिश्चयात् न पुनस्तद्विलक्षणस्याहत्प्रत्यक्षस्य धर्मादिसूक्ष्माद्यर्थविषयत्वाभावः साधयितुं शक्यस्तस्य तदगमकत्वादविनाभावनियमनिश्चयानुपपत्तेः शब्दसाम्येऽप्यर्थभेदात्, कथमन्यथा विषाणिनी वाग् गोशब्दवाच्यत्वात्पशुवदित्यनुमानं गमकं न स्यात् । यदि पुनर्गोशब्दवाच्यत्वस्याविशेषेऽपि पशोरेव विषाणित्वं ततः सिध्यति तत्रैव तत्साधने तस्य गमकत्वान्न पुनर्वागादौ तस्य तद्विलक्षणत्वादितिमतं तदा प्रत्यक्षशब्दवाच्यत्वाविशेषेऽपि नाहत्प्रत्यक्षस्य सूक्ष्माद्यर्थविषयत्वासिद्धिरर्थभेदात् । अक्ष्णोति व्याप्नोति जानातीत्यक्षः आत्मा तमेव प्रतिगतं प्रत्यक्षमिति हि भिन्नार्थमेवेंद्रियप्रत्यक्षात् तस्याशेषार्थगोचरत्वात् मुख्यप्रत्यक्षत्वसिद्धेः । तथाहि-विवादाध्यासितमहत्प्रत्यक्षं मुख्यं निःशेषद्रव्य
Page #123
--------------------------------------------------------------------------
________________
११८
श्रीविद्यानंदिस्वामिविरचिता
..............................."
पर्यायविषयत्वात् यत्तु न मुख्यं तन्न तथा यथाऽस्मदादिप्रत्यक्षं, सर्वद्रव्यपर्यायविषयं चाहत्प्रत्यक्षं तस्मान्मुख्यं । नचेदमसिद्धं साधनं। तथाहिसर्वद्रव्यपर्यायविषयमहत्प्रत्यक्ष क्रमातिक्रांतत्वात् क्रमातिक्रांतं तन्मनोऽक्षानपेक्षत्वान्मनोऽक्षानपेक्षतत्सकलकलंकविकलत्वात् सकलाप्रशमाज्ञानादर्शनावीर्यलक्षणकलंकविकलं तत् , प्रक्षीणकारणमोहज्ञानदर्शनावरणवीयोतरायत्वात् । यन्नेत्थं तन्नैवं यथाऽस्मदादिप्रत्यक्षं । इत्थं च तत्तस्मादेवमिति हेतुसिद्धिः । ननु च प्रक्षीणमोहादिचतुष्टयत्वं कुतोऽर्हतः सिद्धं ? तत्कारणप्रतिपक्षप्रकर्षदर्शनात् । तथाहि-मोहादिचतुष्टयं क्वचिदत्यंत प्रक्षीयते तत्कारणप्रतिपक्षप्रकर्षसद्भावात् । यत्र यत्कारणप्रतिपक्षप्रकर्षसद्भावस्तत्र तदत्यंत प्रक्षीयमाणं दृष्टं यथा चक्षुषि तिमिरं तथाच केवलिनि मोहा दिचतुष्टयस्य कारणप्रतिपक्षप्रकर्षसद्भावः तस्मादत्यंत प्रक्षीयते । किं पुनः कारणं मोहादिचतुष्टयस्येति चेदुच्यते । मिथ्यादर्शनमिथ्याज्ञानमिथ्याचारित्रत्रयं, तस्य सद्भाव एव भावात् । यस्य यद्भाव एव भावस्तस्य तत्कारणं यथा श्लेष्मविशेषस्तिमिरस्य, मिथ्यादर्शनादित्रयसद्भाव एव भावश्च मोहादिचतुष्टयस्य तस्मात्तत्कारणं । कः पुनस्तस्य प्रतिपक्ष इति चेत् सम्यग्दर्शनादित्रयं, तत्प्रकर्षे तदपकर्षदर्शनात् । यस्य प्रकर्षे यदपकर्षस्तस्य स प्रतिपक्षो यथा शीतस्याग्निः । सम्यग्दशनादित्रयप्रकर्षेऽपकर्षश्च मिथ्यादर्शनादित्रयस्य तस्मात्तस्य प्रतिपक्षः । कुतः पुनस्तत्प्रतिपक्षस्य सम्यग्दर्शनादित्रयस्य प्रकर्षपर्यंतगमनं ? प्रकृष्यमाणत्वात् यत्प्रकृष्यमाण तत्वचित्प्रकर्षपर्यंतं गच्छति यथा परिमाणमापरमाणोः प्रकृष्यमाणं नभसि, प्रकृष्यमाणं च सम्यग्दर्शनादित्रयं तस्मात्वचित्प्रकर्षपर्यंतं गच्छति, यत्र यत्प्रकर्षगमनं तत्र तत्प्रतिपक्षमिथ्यादर्शनादित्रयमत्यंतं प्रक्षीयते, यत्र यत्प्रक्षयः तत्र तत्कार्यस्य मोहादिकर्मचतुष्टयात्यंतिकः क्षय इति तत्
Page #124
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
११९
mmmmmmmmmm कार्याप्रशमादिकलंकचतुष्टयवैकल्यात्सिद्धं सकलकलंकविकलस्वमहत्प्रत्यक्षस्य मनोऽक्षनिरपेक्षत्वं साधयति । तच्चाक्रमवत्वं तदपि सर्वद्रव्यपर्यायविषयत्वं ततो मुख्यं तत्प्रत्यक्ष प्रसिद्धं । सांव्यवहारिकं तु मनोऽक्षापेक्ष वैशद्यस्य देशतः सद्भावात् इति न प्रत्यक्षशब्दवाच्यत्वसाधर्म्यमात्रात् धर्मादिसूक्ष्माद्याविषयत्वं विवादाध्यासितस्य प्रत्यक्षस्य सिध्यति यतः पक्षस्यानुमानबाधितत्वात्कालात्ययापदिष्टो हेतुः स्यात् । तदेवं निरवद्याद्धेतोर्विश्वतत्त्वानां ज्ञाताऽर्हन्नेवावतिष्ठते सकलबाधकप्रमाणरः हितत्वाच्च तथाहि
प्रत्यक्षमपरिच्छिदत्त्रिकालं भुवनत्रयं । रहितं विश्वतत्व नहि तद्बाधकं भवेत् ॥ ९६ ॥ नानुमानोपमानार्थापत्त्यागमबलादपि। विश्वज्ञाभावसंसिद्धिस्तेषां सद्विषयत्वतः ॥ ९७॥ नाहन्निःशेषतत्वज्ञो वक्तृत्वपुरुषत्वतः। ब्रह्मादिवदिति प्रोक्तमनुमानं न बाधकं ।। ९८॥ हेतोरस्य विपक्षेण विरोधाभावनिश्चयात् । वतृत्वादेप्रकर्षेऽपि ज्ञानानिहाससिद्धितः ॥ ९९ ॥ नोपमानमशेषाणां नृणामनुपलंभतः । उपमानोपमेयानां तद्बाधकमसंभवात् ॥ १०॥ नार्थापत्तिरसर्वज्ञं जगत्साधयितुं क्षमा । क्षीणत्वादन्यथाभावाभावात्तत्तदबाधिका ॥१०१॥ नागमोऽपौरुषेयोस्ति सर्वज्ञाभावसाधनः । तस्य कार्ये प्रमाणत्वादन्यथाऽनिष्टसिद्धितः ॥१०२॥
Page #125
--------------------------------------------------------------------------
________________
१२०
श्रीविद्यामंदिस्वामिविरचिता
पौरुषेयोऽप्यसर्वज्ञप्रणीतो नास्य बाधकः । तत्र तस्याप्रमाणत्वाद्धर्मादाविव तत्त्वतः ॥१०३॥ अभावोऽपि प्रमाणं ते निषेध्याधारवेदने । निषेध्यस्मरणे च स्यान्नास्तिता ज्ञानमंजक्षा ॥१०४॥ नचाशेषजगज्ज्ञानं कुतश्चिदुपपद्यते । नापि सर्वज्ञसंवित्तिः पूर्वं तत्स्मरणं कुतः॥ १०५॥ येनाशेषजगत्यस्य सर्वज्ञस्य निषेधनं । परोपगमतस्तस्य निषेधे स्वेष्टबाधनं ॥ १०६ ॥ मिथ्यैकांतनिषेधस्तु युक्तोऽनेकांतसिद्धितः। नासर्वज्ञजगत्सिद्धेः सर्वज्ञप्रतिषेधनं ॥ १०७॥ एवं सिद्धः सुनिर्णीतासंभवद्बाधकत्वतः । सुखवद्विश्वतत्त्वज्ञः सोर्हन्नेव भवानिह ॥ १०८ ॥ स कर्मभूभृतां भेत्ता तद्विपक्षप्रकर्षतः। यथा शीतस्य भेत्तेहकश्चिदुष्णप्रकर्षतः ॥१०९ ॥ यस्य धर्मादिसूक्ष्माद्यर्थाः प्रत्यक्षा भगवतोऽर्हतः सर्वज्ञस्यानुमानसामर्थ्यात्तस्य बाधकं प्रमाणं प्रत्यक्षादीनामन्यतमं भवेत् , गत्यंतराभावात् । तत्र न तावदस्मदादिप्रत्यक्षं सर्वत्र सर्वदा सर्वज्ञस्य बाधकं तेन त्रिकालभुवनत्रयस्य सर्वज्ञरहितस्यापरिच्छेदात् तत्परिच्छेदे तस्यास्मदादिप्रत्यक्ष. त्वविरोधात् । नापि योगिप्रत्यक्षं तद्बाधकं तस्य तत्साधकत्वात्सर्वज्ञाभाववादिनां तदनभ्युपगमाच्च । नाप्यनुमानोपमानार्थापत्त्यागमानां साम
र्थ्यात्सर्वज्ञस्याभावसिद्धिः तेषां सद्विषयत्वात् प्रत्यक्षवत् । " स्यान्मतं नाहनिःशेषतत्त्ववेदी वक्तृत्वात्पुरुषत्वात् ब्रह्मादिवदित्याद्यनुमानात्सर्वज्ञत्वनिराकृतिः सिध्यत्येव सर्वज्ञविरुद्धस्यासर्वज्ञस्य कार्य
Page #126
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
१२१
वचनं हि तदभ्युपगम्यमानं स्वकारणं किंचिज्ज्ञत्वं साधयति तच्च सिध्यत्स्वविरुद्धं निःशेषज्ञानं निवर्तयतीति विरुद्धकार्योपलब्धिः शीताभावे साध्ये धूमवद्विरुद्धव्याप्तोपलब्धिर्वा सर्वज्ञत्वेन हि विरुद्धमप्तर्वज्ञत्वं तेन च व्याप्तं वक्तृत्वमिति । एतेन पुरुषत्वोपलब्धिविरुद्धव्याप्तोपलब्धिरुक्ता सर्वज्ञत्वेन हि विरुद्धमसर्वज्ञत्वं तेन च व्याप्तं पुरुषत्वमिति । तथाच सर्वज्ञो यदि वक्ताऽभ्युपगम्यते यदि वा पुरुषस्तथापि वक्तृत्वपुरुषात्त्वाभ्यां तदभावः सिध्यतीति केचिदाचक्षते?" तदेतदप्यनुमानद्वितयं त्रितयं वा परैः प्रोक्तं न सर्वज्ञस्य बाधकमविनाभावनियमनिश्चयस्यासंभवात् । हेतोर्विपक्षे बाधकप्रमाणाभावादसर्वज्ञे हि साध्ये तद्विपक्षःसर्वज्ञ एव तत्र च प्रकृतस्य हेतोर्न बाधकमस्ति । विरोधो बाधक इति चेन्न सर्वज्ञस्य वक्तृत्वेन विरोधासिद्धेः । तस्य तेन विरोधो हि सामान्यतो विशेषतो वा स्यात् ? न तावत्सामान्यतो वक्तृत्वेन सर्वज्ञत्व विरुध्यते, ज्ञानप्रकर्षे वक्तृत्वस्यापकर्षप्रसंगात् । यद्धि येन विरुद्धं तत्प्रकर्षे तस्यापकों दृष्टो यथा पावकस्य प्रकर्षे तद्विरोधिनो हिमस्य । नच ज्ञानप्रकर्षे वक्तृत्वस्यापकों दृष्टस्तस्मान्न तत्तद्विरुद्धं वक्ता च स्यात्सर्वज्ञश्च स्यादिति संदिग्धविपक्षव्यावृत्तिको हेतुर्न सर्वज्ञाभावं साधयेत् । यदि पुनर्वक्तृत्वविशेषेण सर्वज्ञस्य विरोधोऽभिधीयते, तदा हेतुरसिद्धएव । नहि परमात्मनो युक्तिशास्त्रविरुद्धो वक्तत्वविशेषः संभवति य सर्वज्ञविरोधी, तस्य युक्तिशास्राविरुद्धार्थवक्तृत्वनिश्चयात् । नच युक्तिशास्त्राविरोधिवक्तृत्वं ज्ञानातिशयमंतरेण दृष्टं ततः सकलार्थविषयं वक्तृत्वं युक्तिशास्त्राविरोधि सिद्धयत्सकलार्थवेदित्वमेव साधयेत् इति वक्तृत्वविशेषो विरुद्धो हेतुः, साध्यविपरीतसाधनात् । तथा पुरुषत्वमपि सामान्यतः सर्वज्ञाभावसाधनायोपादीयमानं संदिग्ध
Page #127
--------------------------------------------------------------------------
________________
श्रीविद्यानंदिस्वामिविरचिता
विपक्षव्यावृत्तिकमेव साध्यं न साधयेत् विपक्षेण विरोधासिद्धेः पुरुषश्च स्यात्कश्चित्सर्वज्ञश्वेति । नहि ज्ञानातिशयेन तत्पुरुषत्वं विरुध्यते कस्यचित्सातिशयज्ञानस्य महापुरुषत्वसिद्धेः । पुरुषत्वविशेषो हेतुश्चेत् स यद्यज्ञानादिदोषदूषित पुरुषत्वमुच्यते तदा हेतुरसिद्धः परमेष्ठिनि तथाविधिपुरुषत्वासंभवात् । अथ निर्दोषपुरुषत्वविशेषो हेतुस्तदा विरुद्धः साध्यविपर्ययसाधनात् सकलाज्ञानादिदोषविकलपुरुषत्वं हि परमात्मनि सिध्यत् सकलज्ञानादिगुण प्रकर्षपर्यंतगमनमेव साधयेत् तस्य तेन व्याप्तत्वादिति नानुमानं सर्वज्ञस्य बाधकं बुध्यामहे । नाप्युपमानं तस्योपमानोपमेयग्रहणपूर्वकत्वात् । प्रसिद्धे हि गोगवययोरुपमानोपमेयभूतयोः सादृश्ये दृश्यमानाद्गोर्गवये विज्ञानमुपमानं सादृश्योपाध्युपमेय - विषयत्वात् । तथोक्तम् - " दृश्यमानाद्यदन्यत्र विज्ञानमुपजायते । सादृश्येोपाधितः कैश्चिदुपमानमिति स्मृतं "। न चोपमानभूतानामस्मदादीनामुपमेयभूतानां चासर्वज्ञत्वेन साध्यानां पुरुषविशेषाणां साक्षात्करणं संभवति । नच तेष्वसाक्षात्करणेषु तत्सादृश्यं प्रसिध्यति । न चाप्रसिद्धतत्सादृश्यः सर्वज्ञाभाववादी सर्वेऽप्यसर्वज्ञाः पुरुषाः कालांतरदेशांतरवर्तिनो यथास्मदादय इत्युपमानं कर्तुमुत्सहते जात्यंध इव दुग्धस्य बकोपमानं तत्साक्षात्करणे वा स एव सर्वज्ञ इति कथमुपमानं तदभावसाधनायालं । तथार्थापत्तिरपि न सर्वज्ञरहितं जगत्सर्वदा साधयितं क्षमा क्षीणत्वात्तस्याः साध्याविनाभावनियमाभावात् । सर्वज्ञेन रहितं जगत्तत्कृतधर्माद्युपदेशासंभवान्यथानुपपत्तेरित्यर्थापत्तिरपि न साधीयसी, सर्वज्ञकृतधर्माद्यपदेशासंभवस्यार्थापत्त्युत्थापकस्यार्थस्य प्रत्यक्षाद्यन्यतमप्रमाणेन विज्ञातुमशक्तेः । नन्वपौरुषेयाद्वेदादेव धर्माद्युपदेशसिद्धेः धर्मे चोदनैव प्रमाणमिति वचनान्न धर्मादिसाक्षात्कारी कश्चित्पुरुषः संभवति
१२२
Page #128
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
१२३ यतोऽसौ धर्माद्युपदेशकारी स्यात् । ततः सिद्ध एव सर्वज्ञकृतधर्माधुपदेशासंभव इति चेन्न, वेदादपौरुषेयाद्धर्माद्युपदेशनिश्चयायोगात् । सहि वेदः केनचिद्वयाख्यातो धर्मस्य प्रतिपादकः स्यादव्याख्यातो वा ? प्रथमपक्षे तद्व्याख्याता रागादिमान् विरागो वा ? रागादिमांश्चेन्नतद्वयाख्यानाद्वेदार्थ-- निश्चयस्तदसत्यत्वस्य संभवात् । व्याख्याता हि रागाद्वेषादज्ञानाद्वा वितथार्थमपि व्याचक्षाणो दृष्ट इति वेदार्थ वितथमपि व्याचक्षीत, अवितथमपि व्याचक्षीत, नियामकाभावात् । गुरुपूर्वक्रमायाती वेदार्थवेदी महाजनो नियामक इति चेन्न तस्यापि रागादिमत्वे यथार्थवेदित्वनिर्णयानुपपत्तः गुरुपूर्वक्रमायातस्य वितथार्थस्यापि वेदे संभाव्यमानत्वादुपनिषद्वाक्यार्थवदीश्वराद्यर्थवद्वा । नहि स गुरुपूर्वक्रमायातो न भवति वेदार्थो वा न चावितथः प्रतिपद्यते मीमांसकैस्तद्वदग्निष्टोमेन यजेत स्वर्गकाम इत्यादि वेदवाक्यस्याप्यर्थः कथं वितथः पुरुषव्याख्यानान्न शक्येत वक्तुं । यदि पुनीतरागद्वेषमोहो वेदस्य व्याख्याता प्रतिज्ञायते तदा स एव पुरुषविशेषः सर्वज्ञा. किमिति न क्षम्यते । “वेदानुष्ठानपरायण एव वीतरागद्वेषः पुरुषोऽभ्युपगम्यते वेदार्थव्याख्यानविषय एव रागद्वेषाभावात् न पुनीतसकलविषय-. रागद्वेषःकश्चित् कस्यचित्वचिद्विषये वीतरागद्वेषस्यापि विषयांतरे रागद्वेषदर्शनात्तथावेदार्थविषय एव वीतमोहपुरुषस्तव्याख्याताऽभ्यनुज्ञायते न सकलविषये, कस्यचित्क्वचित्सातिशयज्ञानसद्भावेऽपि विषयांतरेषु अज्ञानदर्शनात् न च सकलविषयरागद्वेषप्रक्षयो ज्ञानप्रकर्षों वा वेदार्थं व्याचक्षाणस्योपयोगी यो हि यद्वयाचष्टे तस्य तद्विषयरागद्वेषाज्ञानाभावःप्रेक्षावद्भिरन्विष्यते रागादिमतोविप्रलंभसंभवात् न पुनः सर्वविषये, कस्यचिच्छास्त्रांतरे यथार्थव्याख्याननिर्णयविरोधात् तथापि तदन्वेषणे च सर्वज्ञवीतराग एव सर्वस्य शास्त्रस्य व्याख्याताभ्युपगंतव्य इत्यसर्वज्ञशास्त्रन्याख्यानव्य
सकानात्तथावेदार्थविषय विचिद्विषये वातशाभावात् न पुन पुरुषोऽभ्युप
Page #129
--------------------------------------------------------------------------
________________
१२४
श्रीविद्यानंदिस्वामिविरचिता
वहारो निखिलजनप्रसिद्धोऽपि न भवेत् । नचैदंयुगीनशास्त्रव्याख्याता कश्चित्प्रक्षीणाशेषरागद्वेषः सर्वज्ञः प्रतीयते इति नियतविषयशास्त्रार्थपरिज्ञानं तद्विषयरागद्वेषरहितत्वं च यथार्थव्याख्याननिबंधनं तद्वयाख्यातुरभ्युपगंतव्यं तच्च वेदार्थव्याचक्षाणस्यापि ब्रह्मप्रजापतिमनुप्रमुखनैमिन्यादेर्विद्यते एव तस्य वेदार्थविषयाज्ञानरागद्वेषविकलत्वादन्यथा तद्व्याख्यानस्य शिष्टपरम्परया परिग्रहविरोधात्ततो वेदस्य व्याख्याता तदर्थज्ञ एव न पुनः सर्वज्ञः तद्विषयरागद्वेषरहित एव न पुनः सकलविषयरागद्वेषशून्यो यतः सर्वज्ञा वीतरागश्च पुरुषविशेषः क्षम्यते” इति केचित्तेऽपि न मीमांसका, सकलसमयव्याख्यानस्य यथार्थभावानुषंगात् । स्यान्मतं समयांतराणां व्याख्यानं न यथार्थ बाधकप्रमाणसद्भावात् प्रसिद्धमिथ्योपदेशव्याख्यानवत् इति तदपि न विचारक्षम, वेदव्याख्यानस्यापि बाधकसद्भावात् । यथैव हि सुगतकपिलादिसमयांतराणां परस्परविरुद्धार्थाभिधायित्वं बाधकं तथा भावनानियोगविधिधात्वर्थादिवेदवाक्यार्थव्याख्यानानामपि तत्प्रसिद्धमेव । न चैतेषां मध्ये भावनामात्रस्य नियोगमात्रस्य वा वेदवाक्यार्थस्यान्ययोगव्यवच्छेदेन निर्णयःकर्तुं शक्यते सर्वथा विशेषाभावात् तत्राक्षेपसमाधानानां समानत्वादिति देवागमालंकृतौ तत्त्वार्थालंकारे विद्यानन्दमहोदये च विस्तरतो निर्णीतं प्रतिपत्तव्यं ततो न केनचित्पुरुषेण व्याख्याताद्वेदाद्धर्माधुपदेशः समवतिष्ठते । नाप्यव्याख्यातात्, तस्य स्वयं स्वार्थप्रतिपादकत्वेन तदर्थविप्रतिपत्यभावप्रसगात् । दृश्यते च तदर्थविप्रतिपत्तिर्वेदवादिनामिति न वेदाद्धर्माद्युपदेशस्य संभवः पुरुषविशेषादेव सर्वज्ञवीतरागात्तस्य संभवात्ततो न धर्माद्युपदेशासंभवः पुरुषविशेषस्य सिद्धेः यः सर्वज्ञरहितं जगत्साधयेदिति कुतोऽर्थापत्तिः सर्वज्ञस्य बाधिका । यदि पुनरागमः सर्वज्ञस्य बाधकः तदाप्यसावपौरुषेयः
१ भाट्टाः । २ प्राभाकराः । ३ वेदान्तिनः ।
Page #130
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
१२५
पौरुषेयो वा ? न तावदपौरुषेयस्तस्य कार्यादर्थादन्यत्र परैः प्रामाण्यानष्टरन्यथानिष्टसिद्धिप्रसंगात्। नापि पौरुषेयस्तस्यासर्वज्ञपुरुषप्रणीतस्य प्रामाण्यानुपपत्तेः सर्वज्ञप्रणीतस्य तु परेषामसिद्धेरन्यथा सर्वज्ञसिद्धेः ततस्तदभावायोगादिति न प्रभाकरमतानुसारिणां प्रत्यक्षादिप्रमाणानामन्यतममपि प्रमाणं सर्वज्ञाभावसाधनायालं यतः सर्वज्ञबाधकमभिधीयते । भट्टमतानुसारिणामपि सर्वज्ञस्याभावसाधनमभावप्रमाणं नोपपद्यत एव ताद्ध सदुपलंभप्रमाणपंचकनिवृत्तिरूपं साच सर्वज्ञविषयसदुपलंभकप्रमाणपंचकनिवृत्तिरात्मनोऽ. परिणामो वा विज्ञानं वान्यवस्तुनि स्याद्गत्यंतराभावात् । न तावत्सर्वज्ञविषयप्रत्यक्षादिप्रमाणरूपेणात्मनोऽपरिणामः सर्वज्ञस्याभावसाधकः सत्यपि सर्वज्ञे तत्संभवात् तद्विषयस्य ज्ञानस्यासंभवात्तस्यातींद्रियत्वात्परचेतोवृत्तिविशेषवत् । नापि निषेध्यात्सर्वज्ञादन्यवस्तुनि विज्ञानं, तदेकज्ञानसंसार्गणः कस्यचिद्वस्तुनोऽभावात् घटेकज्ञानसंसर्गिभूतलवत् । न हि यथा घटभूतलयोश्चाक्षुषेकज्ञानसंसर्गात् केवलभतले प्रतिषेध्या घटादन्यत्र वस्तुनि विज्ञानं घटामावव्यवहारं साधयति तथा प्रतिषेध्यात्सर्वज्ञादन्यत्र वस्तुनि विज्ञानं तदभावसाधनसमर्थ संभवति सर्वज्ञस्यातींद्रियत्वात्तद्विषयज्ञानस्यासंभवात्तदेकज्ञानसंसर्गिणोऽस्मदादिप्रत्यक्षस्य कस्यचिद्वस्तुनोऽनभ्युपगमादनुमानायेकज्ञानेन सर्वज्ञतदन्यवस्तुनोः संसर्गात्सर्व कज्ञानसंसर्गिणि क्वचिदनुमेयेऽर्थेऽनुमानज्ञानं संभवत्येवेति चेन्न तथा क्वचित्सर्वज्ञस्य सिद्धिप्रसंगात् । सर्वत्र सर्वदा सर्वस्य सर्वज्ञस्याभावे कस्यचिद्वस्तुनस्तेनैकज्ञानसंसर्गायोगात्तदन्यवस्तुविज्ञानलक्षणादभावप्रमाणात्सर्वज्ञाभावसाधनविरोधात् । किंच गृहीत्वा निषेध्याधारवस्तुसद्भावं स्मृत्वा च तत्प्रतियोगिनं निषेध्यमर्थं नास्तीति ज्ञानं मानसमक्षानपेक्षं जायत इति येषां दर्शनं तेषां निषेध्यसर्वज्ञाधारभूतं त्रिकालं भुवनत्रयं च कुतश्चित्प्रमाणाद्ग्राह्यं तत्प्रतियोगी च प्रति
Page #131
--------------------------------------------------------------------------
________________
श्राविद्यानंदिस्वामिविरचिता
षेध्यः सर्वज्ञः स्मर्त्तव्य एवान्याथा तत्र नास्तिताज्ञानस्य मानसस्यानुपपत्तेर्नच निषेध्याधारत्रिकालजगत्रयसद्भावग्रहणं कुतश्चित्प्रमाणान्मीमांसकस्यास्ति । नापि प्रतिषेध्यसर्वज्ञस्य स्मरणं तस्य प्रागननुभूतत्वात्पूर्व तदनुभवे वा क्वचित्सर्वत्र सर्वदा सर्वज्ञाभावसाधनविरोधात् । ननु च पराभ्युपगमात्सर्वज्ञः सिद्धस्तदाधारभूतं च त्रिकालं भुवनत्रयं सिद्धं, तत्र श्रुतसर्वज्ञस्मरणनिमित्तं तदाधारवस्तुग्रहणनिमित्तं च सर्वज्ञे नास्तिताज्ञानं मानसमक्षानपेक्षं युक्तमेवेतिचेन्न, स्वेष्टवाधनप्रसंगात् । पराभ्युपगमस्य हि प्रमाणसिद्धत्वे तेन सिद्धं सर्वज्ञ प्रतिषेधतोऽभावप्रमाणस्य तद्वाधनप्रसंगात् ! तस्याप्रमाणत्वे न ततो निषेध्याधारवस्तुग्रहणं निषेध्यसर्वज्ञस्मरणं वा तथ्यं स्यात्तदभावे तत्र सर्वज्ञेऽभावप्रमाणं न प्रादुर्भवेदिति तदेव स्वेष्टवाधनं दुर्वारमायातं । नन्वेवं मिथ्यकांतस्य प्रतिषेधः स्याद्वादिभिः कथं विधीयते तस्य क्वचित्कथंचित्कदाचिदनुभवाभावे स्मरणासंभवात् तस्याननुस्मर्यमाणस्य प्रतिषेधायोगात्क्वचित्कदाचित्तदनुभवे वा सर्वथा तत्प्रतिषेधाविरोधात् पराभ्युपगमात्प्रसिद्धस्य मिथ्र्यकांतस्य स्मर्यमाणस्य प्रतिषेधेऽपि स पराभ्युगमः प्रमाणप्रमाणं वा ? यदि प्रमाणं तदा तेनैव मिथ्र्यकांतस्याभावसाधनाय प्रर्वतमानं प्रमाण बाध्यते इति स्याद्वादिनामपिस्वष्टबाधन, यदि पुनरप्रमाणं पराभ्युपगमस्तदापि ततः सिद्धस्य मिथ्यकांतस्य स्मर्यमाणस्य नास्तीतिज्ञानं प्रजायमानं मिथ्यैव स्यादिति तदेव स्वेष्टवाधनं परेषामिवेति न मंतव्यं, स्याद्वादिनामनेकांतसिद्धरेव मिथ्र्यकांतनिषेधनस्य व्यवस्थानात् । प्रमाणतः प्रसिद्ध हि बहिरंतर्वा वस्तुन्यनेकांतात्मनि तत्राध्यारोप्यमाणस्य मिथ्यैकांतस्य दर्शनमोहोदयाकुलितचेतसां बुद्धौ विपरीताभिनिवेशस्य प्रतिभासमानस्य प्रतिषेधः क्रियते प्रतिषेधव्यवहारो वा प्रवर्तते विप्रतिपन्नप्रत्यायनाय सन्नयोपन्यासात् । न चैवमसर्वज्ञजगत्सिद्धेरेव सर्वज्ञप्रतिषेधो
Page #132
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
१२७
युज्यते तस्याः कुतश्चित्प्रमाणादसंभवस्य समर्थनात्तदेवममावप्रमाणस्यापि सर्वज्ञवाधकस्य सदुपलंभकप्रमाणपंचकवदसंभवाद्देशांतरकालांतरपुरुषांतरापेक्षयाऽपि तद्वाधकशंकानवकाशासिद्धः सुनिर्णीतासंभवद्वाधकप्रमाणः सर्वज्ञः स्वसुखादिवत्सर्वत्र वस्तुसिद्धौ सुनिर्णीतासंभवद्वाधकप्रमाणत्वमंतरेणावासनिबंधनस्य कस्यचिदभावात् । स च विश्वतत्वानां ज्ञाताऽर्हन्नेव परमेश्वरादेविश्वतत्वज्ञतानिराकरणादेवावसीयते । स एव कर्मभूभृतां भेत्ता निश्चीयतेऽन्यथा तस्य विश्वतत्वज्ञतानुपपत्तेः । स्यादाकृतं कर्मणां कार्यकारणसंतानेन प्रर्वतमानानामनादित्वाद्विनाशहेतोरभावात्कथं कर्मभूभृतां भेत्ता विश्वतत्त्वज्ञोऽपि कश्चिन्द्यवस्थाप्यते इति तदप्यसत् , विपक्षप्रकर्षपर्यंतगमनात्कर्मणां संतानरूपतयानादित्वेऽपि प्रक्षयप्रसिद्धेः। नानादिसंततिरपि शीतस्पर्शः क्वचिद्विपक्षस्योष्णस्पर्शस्य प्रकर्षपर्यंतगमनान्निर्मूलं प्रलयमुपव्रजन्नोपलब्धो नापि कार्यकारणरूपतया बीजांकुरसंतानो वानादिरपि प्रतिपक्षभूतदहनान्निर्दग्धबीजो निर्दग्धांकुरो वा न प्रतीयत इति वक्तुं शक्यं, यतः कर्मभूभृतां संतानोऽनादिरपि क्वचित्प्रतिपक्षसात्मीभावान्न प्रक्षीयते । ततो यथा शीतस्योष्णस्पर्शप्रकर्षविशेषेण कश्चिद्भत्ता तथा कर्मभूभृतां तद्विपक्षप्रकर्षविशेषेण भेत्ता भगवान् विश्वतत्वज्ञ इति सुनिश्चितं नश्चेतः । कः पुनः कर्मभूभृतां विपक्ष इति चेदुच्यते । तेषामागामिनां तावद्विपक्षः संवरो मतः तपसा संचितानां तु निर्जरा कर्मभूभृतां ॥ ११०॥ द्विविधा हि कर्मभूभृतः केचिदागामिनः परे पूर्वभवसंतानसंचितास्तत्रागामिनां कर्मभूभृतां विपक्षस्तावत्संवरस्तस्मिन्सति तेषामनुत्पत्तेः । संवरो हि कर्मणामाश्रवनिरोधः, सचाश्रवो मिथ्यादर्शनाविरतिप्रमादकषाययोगविकल्पात्पंचविधस्तस्मिन् सति कर्मणामास्त्रवात् कर्मागमनहेतोरास्रव इति
Page #133
--------------------------------------------------------------------------
________________
१२८
श्रीविद्यानंदिस्वामिविरचिता
व्यपदेशात् कर्माण्यत्रवत्यागच्छंति यस्मादात्मनि स आस्रव इति निर्वचनात्सएव हि बंधहेतुर्विनिश्चितः प्राग्विशेषेण । मिथ्याज्ञानस्य मिथ्यादर्शनेंऽतर्भावात्, तन्निरोधः पुनः कान्यतो देशतो वा तत्र काय॑तो गुप्तिभिः सम्यग्योगनिग्रहलक्षणाभिर्विधीयते। समितिधर्मानुप्रेक्षापरीषहजयचारित्रैस्तु देशतस्तन्निरोधः सिद्धः सम्यग्योगनिग्रहस्तु साक्षादयोगकेवलिनश्चरमक्षणप्राप्तस्य प्रोच्यते तस्यैव सकलकर्मभूभृन्निरोधनिबंधनत्वसिद्धेः सम्यग्दर्शनादित्रयस्य चरमक्षणपरिप्राप्तस्य साक्षान्मोक्षहेतोस्तथाभिधानात् पूर्वत्र गुणस्थाने तदभावाद्योगसद्भावात्सयोगकेवलिक्षीणकषायोपशांतकषायगुणस्थाने ततोपि पूर्वत्र सूक्ष्मसांपरायानिवृत्तिवादरसांपराये चापूर्वकरणे चाप्रमत्ते च कषायविशिष्टयोगसद्भावात् । ततोपि पूर्वत्र प्रमत्तगुणस्थाने प्रमादकषायविशिष्टयोगनिर्णीते संयतासंयतसम्यग्दृष्टीगुणस्थाने अविरतप्रमादकषायविशिष्टयोगानां ततोपि पूर्वस्मिन् गुणस्थानत्रये कषायप्रमादाविरतमिथ्यादर्शनविशिष्टयोगसद्भावनिश्चयात् । योगो हि त्रिविधः कायादिभेदात् 'कायवाङ्मनःकर्म योगः, इति सूत्रकारवचनात् कायवर्गणालंबनोह्यात्मप्रदेशपरिस्पंदः काययोगो वाग्वर्गणालंबनो वाग्योगो मनोवर्गणालंबनो मनोयोगः 'स आस्त्रव, इति वचनात् मिथ्यादर्शनाविरतिप्रमादकषायाणामास्रवत्वं न स्यादिति न मंतव्यं योगस्य सकलाश्रवव्यापकत्वात्तद्ग्रहणादेव तेषां परिग्रहात्तन्निग्रहे तेषान्निग्रहप्रसिद्धेः योगनिग्रहे मिथ्यादर्शनादीनां निग्रहः सिद्ध एवायोगकवलिनि तदभावात्कषायनिग्रहे तत्पूर्वास्त्रवनिरोधवत्क्षीणकषाये, प्रमादनिग्रहे पूर्वानवनिरोधवदप्रमत्तादौ । सर्वाविरतिनिरोधे तत्पूर्वास्रवमिथ्यादर्शननिरोधवच्च प्रमत्ते संयतासंयते च । मिथ्यादर्शननिरोधे तत्पूर्वानवनिरोधवच्च सासादनादौ । पूर्वपूर्वानवनिरोधे ह्युत्तरास्रवनिरोधः साध्यएव न पुनरुत्तरास्रवनिरोधे पूर्वानवनिरोधस्तत्र तस्य सिद्धत्वात्का
Page #134
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
१२९
यादियोगनिरोधेऽप्येवं वक्तव्यं तत्राप्युत्तरयोगनिरोधे पूर्वयोगनिरोधस्यापश्यंभावात् काययोगनिरोधे हि तत्पूर्ववाङ्मानसनिरोधः सिद्ध एव वाग्योगनिरोधे च मनोयोगनिरोधः पूर्वयोगनिरोधे तत्तरयोगनिरोधो भाज्यत इति सकलयोगनिरोधलक्षणया परमगुप्त्या सकलास्रवनिरोधः परमसंवरःसिद्धः । समित्यादिभिः पुनरपरः संवरो देशतएवात्रवनिरोक सद्भावात्तत्र हि यो यदास्रवप्रतिपक्षः स तस्य संवर इति यथायोग्यमागमाविरोधेनाभिधानीयं कर्मागमनकारणस्यास्रवस्य निरोधे कर्मभूभृतामागामिनामनुत्पत्तिसिद्धेरन्यथा तेषामहेतुकत्वापत्तेः सर्वत्य संसारिणः सर्वकर्मागमनप्रसक्तेश्च ततः संवरो विपक्षः कर्मभूभृतामागामिनामिति स्थितं । संचितानां तु निर्जरा विपक्षा सा च द्विविधानुपक्रमोपक्रमिकी च । तत्र पूर्वा यथाकालं संसारिणः स्यात्, उपक्रमकी तु तपसा द्वादशविधेन साध्यते संवरवत्, यथैव हि तपसा संचितानां कर्मभूभृतां निर्जरा विधीयते तथाऽऽगामिनां संवरोपीति संचितानां कर्मणां निर्जरा विपक्षा प्रतिपाद्यते । अथैतस्य कर्मणां विपक्षस्य परमप्रकर्षः कुतः प्रसिद्धो यतस्तेषामात्यंतिकः क्षयः स्यादित्याह
तत्प्रकर्षः पुनः सिद्धः परमः परमात्मनि । तारतम्यविशेषस्य सिद्धेरुष्णप्रकर्षवत् ॥ १११॥
यस्य तारतम्यप्रकर्षस्तस्य क्वचित्परमः प्रकर्षः सिद्धयति यथोष्णस्य, तारतम्यप्रकर्षश्च कर्मणां विपक्षस्य संवरनिर्जरालक्षणस्यासंयतसम्यग्दृष्टयादिगुणस्थानविशेषेषु प्रमाणतो निश्चीयते तस्मात्परमात्मनि तस्य परमः प्रकर्षः सिद्धयतीत्यवगम्यते । दुःखादिप्रकर्षेण न्यभिचार इति चेन्न दुःखस्य सप्तमनरकभूमौ नारकाणां परमप्रकर्षसिद्धेः सर्वार्थसिद्धौ देवानां सांसारिकसुखपरमप्रकर्षवत् । एतेन क्रोधमानमायालोमानां तारतम्येन
Page #135
--------------------------------------------------------------------------
________________
१३०
श्रीविद्यानंदिस्वामिविरचिता
~~~~~
व्यभिचारशंका निरस्ता तेषामभन्येषु मिथ्यादृष्टिषु च परमप्रकर्षसिद्धेस्तत्प्रकर्षो हि परमोऽनंतानुबंधित्वलक्षणस्स च तत्र प्रसिद्धः क्रोधादीनामनंतानुबंधिनां तत्र सद्भावात् । ज्ञानहानिप्रकर्षण व्यभिचार इति चेन्न तस्यापि क्षायोपशमिकस्य हीयमानतया प्रकृष्यमाणस्य प्रसिद्धस्य केवलिनि परमप्रकर्षसिद्धेः क्षायिकस्य तु हानेरेवानुपलब्धेः कुतस्तत्प्रकर्षों येन व्यभिचारः शक्यते । के पुनः कर्मभूभृतो एषां विपक्षः परमप्रकर्षभाक् साध्यत इत्यारेकायामिदमाह
कर्माणि द्विविधान्यत्र द्रव्यभावविकल्पतः । द्रव्यकर्माणि जीवस्य पुद्गलात्मान्यनेकधा ॥ ११२॥ भावकर्माणि चैतन्यविवर्त्तात्मानि भांति नुः । क्रोधादीनि स्ववेद्यानि कथंचिच्चिदभेदतः ॥ ११३॥ तत्कंधराशयः प्रोक्ता भूभृतोऽत्र समाधितः । जीवाद्विश्लेषणं भेदः सतो नात्यंतसंक्षयः ॥ ११४ ॥
जीवं परतंत्रीकुर्वति स परतंत्रीक्रियते वा यैस्तानिकर्माणि, जीवेन वा मिथ्यादर्शनादिपरिणामैः क्रियंत इति कर्माणि तानि द्विप्रकाराण द्रव्यकर्माणि भावकर्माणि च तत्र द्रव्यकर्माणि ज्ञानावरणादीन्यष्टौ मूलप्रकृतिभेदात्तथाऽष्टचत्वारिंशदुत्तरशतमुत्तरप्रकृतिविकल्पात्तथोत्तरोत्तरप्रकृतिभेदाद नेकप्रकाराणि तानि च पुद्गलपरिणामात्मकानि जीवस्य पारतंत्र्यनिमित्तत्वान्निगडादिवत् । क्रोधादिभिर्व्यभिचार इति चेन्न तेषां जीवपरिणामानां पारतंत्र्यस्वरूपात्, पारतंत्र्यं हि जीवस्य क्रोधादिपरिणामो न पुनः पारतंत्र्यनिमित्तं । ननु च ज्ञानावरणदर्शनावरणमोहनीयांतरायाणामेवानंतज्ञानदर्शनसुखवीर्य्यलक्षणजीवस्वरूपघातित्वात्पारतंत्र्यनिमित्तत्वं न पुनर्नामगोत्रसद्वेद्यायुषां, तेषामात्मस्वरूपाघातित्वात्पारतंत्र्यनिमित्तत्वासिद्धेरिति
Page #136
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
१३१
पक्षाव्याप कोहेतुर्वनस्पतिचैतन्ये स्वापवदिति चेन्न तेषामपि जीवस्वरूपसिद्धत्वप्रतिबंधित्वात्पारतंत्र्यनिमित्तत्वोपपत्तेः । कथमेवं तेषामघातिकर्मत्वमिति - चेज्जीवन्मुक्तिलक्षणपरमाहत्य लक्ष्मीघातिकत्वाभावादिति ब्रूमहे ततो न पक्षाव्यापक हेतुः, नाप्यन्यथानुपपत्तिनियमनिश्चयविकलः पुद्गल परिणामात्मकसाध्यमंतरेण पारतंत्र्यनिमित्तत्वस्य साधनस्यानुपपत्तिनियमनिर्णयात्तानि च स्वकार्येण यथानामप्रतीयमानेनानुमीयंते, दृष्टकारणव्यभिचाराददृष्टकारणसिद्धेः । भावकर्माणि पुनश्चैतन्यपरिणामात्मकानि क्रोधाद्यात्मपरिणामानां क्रोधादिकर्मोदयनिमित्तानामौदयिकत्वेऽपि कथंचिदात्मनोऽनथांतरत्वाच्चिद्रूपत्वाविरोधात् ज्ञानरूपत्वं तु तेषां विप्रतिषिद्धं ज्ञानस्यौदयिकत्वाभावात् । ननुधर्माधर्मयोः कर्मरूपयोरात्मगुणत्वान्नौदयिकत्वं नापि पुद्गलपरिणामात्मकत्वमिति केचित्तेपि न युक्तिवादिनः कर्मणामात्मगुणत्वे तत्पारतंत्र्यनिमित्तत्वायोगात्सर्वदाऽऽत्मनो बंधानुपपत्तेर्मुक्तिप्रसंगात् । न हि यो यस्य गुणः स तस्य पारतंत्र्यनिमित्तं यथा पृथिव्यादेः रूपादिः, आत्मगुणश्च धर्माधर्मसंज्ञकं कर्म परैरभ्युपगम्यत इति न तदात्मनः पारतंत्र्यनिमित्तं स्यात् तत एव च ' प्रधानविवर्त्तः शुक्लं कृष्णं च कर्म, इत्यपि मिथ्या तस्यात्मपारतंत्र्यनिमित्तत्वाभावे कर्मत्वायोगादन्यथातिप्रसंगात् । प्रधानपारतंत्र्यनिमित्तत्वात्तस्य कर्मत्वमिति चेन्न प्रधानस्य तेन बंधोपगमे मोक्षोपगमे च पुरुष कल्पना वैयर्थ्यात् । बंधमोक्षफलानुभवनस्य पुरुषे प्रतिष्ठानान पुरुष कल्पनावैयर्थ्यामितिचेत्तदेतदसंबद्धाभिधानं प्रधानस्य बंधमोक्षौ, पुरुषस्तत्फलमनुभवतीति कृतनाशाकृताभ्यागमप्रसंगात्, प्रधानेन हि कृतौ बंधमोक्षौ न च तस्य तत्फलानुभवनामिति कृतनाशः पुरुषेण तु तौ न कृतौ तत्फलानुभवनं च तस्येत्यकृताभ्यागमः कथं परिहर्तुं शक्यः । पुरुषस्य चेतनत्वात्फलानुभवनं, न प्रधानस्याचेतनत्वादितिचेन्न मुक्तात्म
Page #137
--------------------------------------------------------------------------
________________
१३२
श्रीविद्यानंदिस्वामिविरचिता
wra.........
नोऽपि प्रधानकृतकमफलानुभवनानुषगात् । मुक्तस्य प्रधानसंसर्गाभावान्नतत्फलानुभवनमितिचेत्तर्हि संसारिणः प्रधानसंसर्गाद्वंधफलानुभवनं सिद्धं तथा च पुरुषस्यैव बंधः सिद्धः प्रधानेन संसर्गस्य बंधफलानुभवननिमित्तस्य बंधरूपत्वाढूधस्यैव संसर्ग इति नामकरणात् स चात्मनः प्रधानसंसर्गःकारणमंतरेण न संभवतीति पुरुषस्य मिथ्यादर्शनादिपरिणामस्तत्कारणमिति प्रत्येतव्यं । प्रधानपरिणामस्यैव तत्संसर्गकारणत्वे मुक्तात्मनोऽपि तत्संसर्गकारणत्वप्रसक्तेरिति मिथ्यादर्शनादीनि भावकाणि पुरुषपरिणामात्मकान्येव पुरुषस्य परिणामित्वोपपत्तेस्तस्यापरिणामित्वे वस्तुत्वविरोधानिरन्वयविनश्वरक्षणिकचित्तवत्। द्रव्यकर्माणि तु पुद्गलपरिणामात्मकान्येव प्रधानस्य पुद्गलपर्यायत्वात्पुद्गलस्यैव प्रधानमिति नाम करणात् । नच प्रधानस्य पुद्गलपरिणामात्मकत्वमसिद्धं पृथिव्यादिपरिणामात्मकत्वात्पुरुषस्यापुद्गलद्रव्यस्यतद्नुपलब्धिबुद्धयहंकारादिपरिणामात्मकत्वात् । नहि प्रधाने बुद्धयादिपरिणामो घटते, तथाहि-न प्रधानं बुद्धयादिपरिणामात्मकं पृथिव्यादिपरिणामात्मकत्वाद्यत्तु बुद्धयादिपरिणामात्मकं तन्न पृथिव्यादि परिणामात्मकं दृष्टं यथा पुरुषद्रव्यं तथा च प्रधानं तस्मान्न बुद्ध्यादिपरिणामात्मकं । पुरुषस्य बुद्धयादिपरिणामात्मकत्वासिद्धर्न वैधर्म्यदृष्टांततेति चेन्न तस्य तत्साधनात्तथाहि-बुद्धयादिपरिणामात्मकः पुरुषश्चेतनत्वाद्यस्तु न बुद्धयादिपरिणामात्मकः स न चेतनोदृष्टो यथा घटादिश्चेतनश्च पुरुषस्तस्माद्बुद्धयादिपरिणामात्मक इति सम्यगनुमानात्, तथाकाशपरिणामात्मकत्वमपि प्रधानस्य न घटते मूर्तिमत्पृथिव्यादिपरिणामात्मकस्यामूर्ताकाशपरिणामात्मकत्वविरोधाद्धटादिवत् । शब्दादि तन्मात्राणां तु पुद्गलद्रव्यपरिणामात्मकत्वमेव कर्मेंद्रियद्रव्यमनोवत् भावमनोबुद्धींद्रियाणां तु पुरुषपरिणामात्मकत्वसाधनान्न जीवपुद्गलद्रत्यव्यातिरिक्तं द्रव्यांतरमन्यत्र
Page #138
--------------------------------------------------------------------------
________________
आप्तपरीक्षा।
धर्माधर्माकाशकालद्रव्येभ्य इति न प्रधानं नाम तत्त्वांतरमस्ति सत्त्वरजस्तमसामपि द्रव्यभावरूपाणां पुद्गलद्रव्यपुरुषद्रव्यपरिणामत्वोपपत्तेरन्यथा तदघटनादिति द्रव्यकर्माणि पुद्गलात्मकान्येव सिद्धानि भावकर्मणां जीवपरिणामत्वसिद्धेस्तानि च द्रव्यकर्माणि पुद्गलस्कंधरूपाणि परमाणूनां कर्मत्वानुपपत्तेस्तेषां जीवस्वरूपप्रतिबंधकत्वाभावादिति कर्मस्कंधसिद्धिस्ते च कर्मस्कंधा बहव इति कर्मस्कंधराशयः सिद्धास्ते च भूभृत इव मूभत इति व्यपदिश्यते समाधिवचनात्तेषां कर्मभूभृतां भेदो विश्लेषणमेव न पुनरत्यंतसंक्षयः सतो द्रव्यस्यात्यंतविनाशानुपपत्तेः प्रसिद्धत्वात्तत एव कर्मभूभृतां भेत्ता भगवान् प्रोक्तो न पुनर्विनाशयितेति निरवद्यमिदं भेत्तारं कर्मभूभृतां ज्ञातारं विश्वतत्त्वानामिति विशेषणद्वितयं मोक्षमार्गस्य नेतारमितिविशेषणवत् । क:पुनर्मोक्ष इत्याह ।
स्वात्मलाभस्ततोमोक्षः कृत्स्नकर्मक्षयान्मतः। निर्जरासंवराभ्यां तु सर्वसद्वादिनामिह ॥ ११५॥
यत एवं ततः स्वात्मलाभो जीवस्य मोक्षः कृत्स्नानां कर्मणामागामिनां संचितानां च संवरनिर्जराभ्यां क्षयाद्विश्लेषात्सर्वसद्वादिनां मत इति सर्वेषामास्तिकानां मोक्षस्वरूपे विवादाभावं दर्शयति तेषामात्मस्वरूपे कर्मस्वरूपे च विवादात्स च प्रागेव निरस्तोऽनंतज्ञानादिचतुष्टयस्य सिद्धत्वस्य चात्मनः स्वरूपस्य प्रमाणसिद्धत्वान्नह्यचेतनत्वमात्मनः स्वरूपं तस्य ज्ञानसमवायित्वविरोधादाकाशादिवत्तत्कारणादृष्टविशेषासंभवाच्च तद्वत्तस्यांतःकरणसंयोगस्यापि दुर्घटत्वात् प्रतीयते च ज्ञानमात्मनि ततस्तस्य नाचैतन्यं स्वरूपं । ज्ञानस्य चैतन्यस्यानित्यत्वात्कथमात्मनो नित्यस्य तत्स्वरूपमितिचेन्नानंतस्य ज्ञानस्यानादेश्वानित्यत्वैकांताभावात् । ज्ञानस्य नित्यत्वे न कदाचिदज्ञानमात्मनः स्यादितिचेन्न तदावरणोदये तदविरो
Page #139
--------------------------------------------------------------------------
________________
१३४
श्रीविद्यानंदिस्वामिविरचिता
धात् । एतेन समस्तवस्तुविषयज्ञानप्रसंगोऽपि विनिवारितस्तद्धातिकर्मोदये सति संसारिणस्तदसंभवात्तत्क्षये तु केवलिनः सर्वद्रव्यपर्यायविषयस्य ज्ञानस्य प्रमाणतः प्रसिद्धेः सर्वज्ञत्वस्य साधनात् । चैतन्यमात्रमेवात्मनः स्वरूपमित्यनेन निरस्तं ज्ञानस्वभावरहितस्य चेतनत्वविरोधाद्गनादिवत् । प्रभास्वरमिदं चित्तमिति स्वसंवेदनमात्रं चित्तस्य स्वरूपं वदन्नपि सकलार्थविषयज्ञानसाधनान्निरस्तः स्वसंविन्मात्रेण वेदनेन सर्वार्थसाक्षात्करणविरोधात् । तदेवं प्रतिवादिपरिकल्पितात्मस्वरूपस्य प्रमाणबाधितत्त्वात्स्याद्वादिनिगदितमेवानंतज्ञानादिस्वरूपमात्मनो व्यवतिष्ठते ततस्तस्यैव लाभो मोक्षः सिद्धयेन पुनः स्वात्मप्रहाणमितिप्रतिपद्येमहि प्रमाणसिद्धत्वात्तथा कर्मस्वरूपे च विप्रतिपत्तिः कर्मवादिनां कल्पनाभेदात्साच पूर्वनिरस्तेत्यलं विवादेन । ननु च संवरनिर्जरामोक्षाणां भेदाभावः कर्माभावस्वरूपत्वाविशेषादितिचेन्न संवरस्यागामिकर्मानुत्पत्तिलक्षणत्वादास्रवनिरोधः संवर इति क्चनात् निर्जरायास्तु संचितकर्मविप्रमोक्षलक्षणत्वाद्देशतः कर्मविप्रमोक्षोनि रेति प्रतिपादनात्कृत्स्नकर्मविप्रमोक्षस्यैव मोक्षत्ववचनात्ततः संचितानागतद्रव्यभावकर्मणां विप्रमोक्षस्य संवरनिर्जरयोरभावात्ताभ्यां मोक्षस्य भेदः सिद्धः। ननु च नास्तिकान्प्रति मोक्षस्वरूपेऽपि विवाद इति चेन्न तेषामत्रानधिकारात्तदेवाह ।
नास्तिकानां च नैवास्ति प्रमाणं तन्निराकृतौ।। प्रलापमात्रकं तेषां नावधेयं महात्मनां ॥ ११६ ॥
येषां प्रत्यक्षमेव प्रमाणं नास्तिकानां ते कथं मोक्षनिराकरणाय प्रमाणांतरं वदेयुः स्वेष्टहानिप्रसंगात् पराभ्युपगतेन प्रमाणेन मोक्षाभावमाचक्षाणा मोक्षसद्भावमेव किन्नाचक्षते न चेद्विक्षिप्तमनसः परपर्यनुयोग
Page #140
--------------------------------------------------------------------------
________________
आप्तपरीक्षा। mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm परतया प्रलापमानं तु महात्मनां नावधेयं तेषामुपेक्षाहत्वात्ततानिर्विवाद एव मोक्षः प्रतिपत्तव्यः । कस्तर्हि मोक्षमार्ग इत्याह ।
मार्गो मोक्षस्य वै सम्यग्दर्शनादित्रयात्मकः।। विशेषेण प्रपत्तव्यो नान्यथा तद्विरोधतः ॥११७ ॥
मोक्षस्य हि मार्गः साक्षात्प्राप्त्युपायोविशेषेणप्रत्यायनीयोऽसाधारणकारणस्य तथाभावोपपत्तेर्न पुनः सामान्यतः साधारणकारणस्य द्रव्यक्षेत्रकालभवभावविशेषस्य सद्भावात्स च त्रयात्मक एव प्रतिपत्तव्यः । तथाहिसम्यग्दर्शनादित्रयात्मको मोक्षमार्गः साक्षान्मोक्षमार्गत्वावस्तु न सम्यग्दर्शनादित्रयात्मकः स न साक्षान्मोक्षमार्गो यथा ज्ञानमात्रादि, साक्षान्मोक्षमार्गश्च विवादाध्यासितस्तस्मात्सम्यग्दर्शनादित्रयात्मक इत्यत्र नाप्रसिद्धो धर्मी मोक्षमार्गमात्रस्य सकलमोक्षवादिनामविवादस्य धमित्वात्तत एव नाप्रसिद्धविशेष्यः पक्षो नाप्यप्रसिद्धविशेषणः सम्यग्दर्शनादित्रयात्मकत्वस्य व्याधिविमोक्षमार्गरसायनादौ प्रसिद्धत्वात् । नहि रसायनश्रद्धानमात्रं सम्यम्ज्ञानाचरणरहितं सकलामयविनाशनायालं, नापि रसायनज्ञानमात्रं श्रद्धानाचरणरहितं न च रसायनाचरणमात्रं श्रद्धान ज्ञानशन्यं तेषामन्यतमापाये सकलव्याधिविप्रमोक्षलक्षणस्य रसायनफलस्यासंभवात्तद्वत्सकलकर्ममहाव्याधिविप्रमोक्षोऽपि तत्वश्रद्धानज्ञानाचरणत्रयात्मकादेवोपायादनपायमुपपद्यते तदन्यतमापाये तदनुपपत्तेः । ननु चायं प्रतिज्ञार्थंकदेशासिद्धो हेतुः शब्दानित्यत्वे शब्दत्ववदिति न मंतव्यं प्रतिज्ञार्थकदेशत्वेन हेतोरसिद्धत्वायोमात् । प्रतिज्ञा हि धमिधर्मसमुदायलक्षणा तदेकदेशस्तु धर्मी धर्मो वा तत्र न धर्मी तावदप्रसिद्धः प्रसिद्धोधर्मीतिवचनात् । न चायं धर्मित्वविवक्षायामप्रसिद्ध इति वक्तुं युक्तं प्रमाणतस्तत्संप्रत्ययस्याविशेषात् । ननु मोक्षमार्गो धर्मी मोक्षमार्गत्वं हेतु
Page #141
--------------------------------------------------------------------------
________________
१३६
श्रीविद्यानंदिस्वामिविरचिता
स्तच्च न धर्मि, सामान्यरूपत्वात्साधनधर्मत्वेन प्रतिपादनादित्यपरः सोऽप्यनुकूलमाचरति साधनधर्मस्य धर्मिरूपत्वाभावे प्रतिज्ञार्थंकदेशत्वनिराकरणात् विशेष धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतो न दोष इति परैः स्वयमभिधानात्, प्रयत्नानंतरीयकः क्षणिकः शब्दः प्रयत्नानंतरीयकत्वादित्यादिवत् । कः पुनरत्र विशेषो धर्मी ? मोक्षमार्ग इति ब्रूमः कुतोऽस्यविशेषः ? स्वास्थ्यमार्गात् नह्यत्र मार्गसामान्यं धर्मि किं तर्हि मोक्षविशेषणो मार्गविशेषः। कथमेवं मोक्षमार्गत्वं सामान्य ? मोक्षमार्गाणामनेकव्यक्तिनिष्ठत्वाक्वचिन्मानसशारीरव्याधिविशेषाणां मोक्षमार्गः क्वचिद्रव्यभावसकल. कर्मणामिति मोक्षमार्गत्वं सामान्यं शब्दत्ववत् । शब्दत्वं हि यथा शब्दविशेषे वर्ण पदवाक्यात्मके विवादास्पदे तथा ततविततघनसुषिरशब्देऽपि श्रावणज्ञानजननसमर्थतया ( शब्दव्यपदेशं नातिकामति ) इति शब्दविशेष धमिणं कृत्वा शब्दत्वं सामान्यं हेतुं ब्रुबाणो न कंचिद्दोषमास्ति
नुते । तथानन्वयदोषस्याप्यभावात् तद्वन्मोक्षमार्गविशेषं धर्मिणमभिधाय मोक्षमार्गत्वं सामान्यं साधनमभिदधानो नोपालब्धव्यः । तथा साध्यधर्मोऽपि प्रतिज्ञार्थंकदेशो हेतुत्वेनोपादीयमानो न प्रतिज्ञार्थंकदेशत्वेनासिद्धस्तस्य धर्मिणा व्यभिचारात्प्रतिज्ञार्थंकदेशस्यापि धर्मिणोऽसिद्धत्वानुपपत्तेः किं तर्हि साध्यत्वेनासिद्ध इति न प्रतिज्ञार्थंकदेशो नामासिद्धो हेतुरस्ति विपक्षे बाधकप्रमाणाभावात् । अन्यथानुपपन्नत्वनियमानिश्चयादगमकोऽयं हेतुरितिचेन्न ज्ञानमात्रादौ विपक्षे मोक्षमार्गत्वस्य हेतोः प्रमाणबाधितत्वात् । सम्यग्दर्शनादित्रयात्मकत्वे हि मोक्षमार्गस्य साध्ये ज्ञानमात्रादिर्विपक्षस्तत्र च न मोक्षमार्गत्वं सिद्धं बाधकसद्भावात्तथाहिज्ञानमात्रं न कर्ममहाव्याधिमोक्षमार्गः श्रद्धानाचरणशन्यत्वात् शारीरमानसव्याधिविमोक्षकारणरसायनज्ञानमात्रवत् । नाप्याचरणमात्रं तत्कारणं
Page #142
--------------------------------------------------------------------------
________________
१३७
आप्तपरीक्षा। श्रद्धानज्ञानशन्यत्वात् रसायनाचरणमात्रवत् । नापि ज्ञानवैराग्ये तदुपायस्तत्वश्रद्धानविधुरत्वाद्रसायनज्ञानवैराग्यमात्रवदिति सिद्धोऽन्यथानुपपत्तिनियमः साधानस्य, ततो मोक्षमार्गस्य सम्यग्दर्शनादित्रयात्मकत्वसिद्धिः । ननु परंपरया मोक्षमार्गस्य सम्यग्दर्शनमात्रात्मकत्वसिद्धेळभिचारी हेतुरितिचेन्न साक्षादितिविशेषणात्साक्षान्मोक्षमार्गत्वं सम्यग्दर्शनादित्रयात्मकत्वं न व्यभिचरति क्षीणकषायचरमक्षणवर्तिपरमाहत्यलक्षणजीवन्मोक्षमार्ग इवेति सुप्रतीतं तथैवायोगकेवलिचरमक्षणवर्त्तिकृत्स्नकर्मक्षयलक्षणमोक्षमार्गः साक्षान्मोक्षमार्गत्वं सम्यग्दर्शनादित्रयात्मकत्वं न व्यभिचरति तपोविशेषस्य परमशुक्लध्यानलक्षणस्य सम्यक्चारित्रेऽतर्भावादितिविस्तरतस्तत्वार्थालंकारे युक्त्यागमाविरोधेन परीक्षितमवबोद्धव्यं । तदेवंविधस्य मोक्षमार्गस्य प्रणेता विश्वतत्त्वज्ञः साक्षात्परंपरया वेति शंकायामिदमाह ।
प्रणेता मोक्षमार्गस्याबाध्यमानस्य सर्वथा । साक्षाद्यएव स ज्ञेयो विश्वतत्वज्ञताश्रयः॥ ११८ ॥
न हि परंपरया मोक्षमार्गस्य प्रणेता गुरुपूर्वक्रमाविच्छेदादधिगततत्त्वार्थशास्त्रार्थोऽप्यस्मदादिभिः साक्षाद्विश्वतत्त्वज्ञतायाः समाश्रयः साध्यते प्रतीतिविरोधात्किं तर्हि साक्षान्मोक्षमार्गस्य सकलबाधकप्रमाणरहितस्य यःप्रणेता स एव विश्वतत्त्वज्ञताश्रयस्तत्वार्थसूत्रकारैरुमास्वामिप्रभृतिभिः प्रतिपाद्यते भगवद्भिः साक्षात्सर्वतत्वज्ञतामन्तरेण साक्षादबाधितमोक्षमार्गस्य प्रणयनानुपपत्तेरिति वंदे तद्गुणलब्धय इत्येतद्व्याख्यातुमनाः प्राह -
वीतनिःशेषदोषोऽतः प्रवंद्योऽर्हन् गुणांबुधिः। तद्गुणप्राप्तये सद्भिरिति संक्षेपतोऽन्वयः ॥ ११९ ॥
यतश्च यः साक्षान्मोक्षमार्गस्याबाधितस्य प्रणेता स एव विश्वतत्वानां ज्ञाता कर्मभूभृतां भेत्ताऽतएवार्हन् प्रवंधो मुनींद्रेस्तस्य वीतनिःशेषाज्ञानादिदोषत्वात्तस्यानंतज्ञानादिगुणांबुधित्वाच्च यो हि गुणांबुधिः स एव
Page #143
--------------------------------------------------------------------------
________________
१३८
श्रीविद्यानंदिस्वामिविरचिता
तद्गुणलब्धये सद्भिराचार्यैर्वेदनीयः स्यान्नान्य इति मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृतां ज्ञातारं विश्वतत्वानां भगवंतमहंत मेवान्ययोगव्यवच्छेदेन निर्णीतमहं वंदे तद्गुणलब्ध्यर्थमिति संक्षेपतः शास्त्रादौ परमेष्ठिगुणस्तोत्रस्य मुनिपुंगवैर्विधीयमानस्यान्वयः संप्रदायान्यवच्छेदलक्षणः पदार्थघटनालक्षणो वा लक्षणीयः प्रपंचतस्तदन्वयस्याक्षेपसमाधानलक्षणस्य
श्रीमत्स्वामिसमंतभद्वैर्देवागमाख्याप्तमीमांसायांप्रकाशनात्तत्त्वार्थविद्यानंदमहोदयालंकारेषु च तदन्वयस्य व्यवस्थापनादलं प्रसंगपरंपरया अत्र समासतस्तद्विनिश्चयात्कस्मात्पुनरेवंविधो भगवान् सकलपरीक्षालक्षितमोहक्षयः साक्षीकृतविश्वतत्त्वार्थो वंद्यते सद्भिरित्यावेद्यते ।
मोहाक्रांतान्न भवति गुरोर्मोक्षमार्गप्रणीति । नर्तेतस्याः सकलकलषध्वंसजा स्वात्मलब्धिः ॥ तस्यैवंद्यः परगुरुरिहक्षीणमोहस्त्वमर्हन् । साक्षात्कुर्वन्नमलकमिवाशेषतत्त्वानि नाथ ॥ १२० ॥ मोहस्तावदज्ञानं रागादिप्रपंचस्तेनाक्रांताद् गुरोर्मोक्षमार्गस्य यथोक्तस्य प्रणीतिर्नोपपद्यते यस्माद्रागद्वेषाज्ञानपरवशीकृतमानसस्य सम्यम्गुरुत्वेनाभिमन्यमानस्यापि यथार्थोपदेशित्वनिश्चयासंभवात् तस्य वितथार्थाभिधानशंकानतिक्रमात् दूरे मोक्षमार्गप्रणीतिर्यतश्च तस्या मोक्षमार्गप्रणीतेविना मोक्षमा भावनाप्रकर्षपर्यंतगमनेन सकलकर्मलक्षणकलुषप्रध्वंसजन्यानंतज्ञानादिलक्षणा स्वात्मलब्धिः परमनिर्वृत्तिः कस्यचिन्न घटते तस्मात्तस्यै स्वात्मलब्धये त्वमेवान् परमगुरुरिह शास्त्रादौ वंद्यः क्षीणमोहत्वात्करतल निहितस्फटिकमणिवत्साक्षात्कृताशेषतत्त्वार्थत्वाच्च । न ह्यक्षीणमोहः साक्षादशेषतस्वानि द्रष्टुं समर्थः कपिलादिवन्नापि साक्षादपरिज्ञाताशेषतत्त्वार्थो मोक्षमार्गप्रणीतये समर्थो न च तदसमर्थः परमगुरुर
Page #144
--------------------------------------------------------------------------
________________
आप्तपरीक्षा ।
भिधातुं शक्यस्तद्वदेवेति न मोहाक्रांतः परमनिःश्रेयसार्थिभिरभिवंदनीयः । कथमेवमाचार्य्यादयः प्रवंदनीयाः स्युरिति चेत् परमगुरुवचनानुसारितया तेषां प्रवर्त्तमानत्वाद्देशतो मोहरहितत्त्वाच्च तेषां वंदनीयत्वमिति प्रतिपद्यामहे तत एव परापरगुरुगुणस्तोत्रं शास्त्रादौ मुनींद्वैर्विहितमिति व्याख्यानमनुवर्तनीयं, पंचानामपि परमेष्ठिनां गुरुत्वोपपत्तेः कार्त्स्यतो देशतश्च क्षीणमोहत्वसिद्धेरशेषतत्त्वार्थज्ञानप्रसिद्धेश्च यथार्थाभिधायित्वनिश्चयाद्वितथार्थाभिधानशंकापायान्मोक्षमार्गप्रणीतौ गुरुत्वोपपत्तेस्तत्प्रसादादभ्युदयनिश्रेयससंप्राप्तेरवश्यंभावात्तदेवमाप्तपरीक्षेषा विहिता हितपरीक्षादक्षैर्विचक्षणैः पुनः पुनश्चेतसि परिमलनीयेत्याचक्ष्महे । न्यक्षेणाप्तपरीक्षाप्रतिपक्षं क्षपयितुं क्षमा साक्षात् । प्रेक्षावतामभीक्ष्णं विमोक्षलक्ष्मीक्षणाय संलक्ष्या ।। १२१ ॥ श्रीमत्तत्वार्थशास्त्राद्भुत सलिलनिधेरिद्धरत्नोद्भवस्य प्रोत्थानारंभकाले सकलमलभिदे शास्त्रकारैः कृतं यत् । स्तोत्रं तीर्थोपमानं प्रथितपृथुपथं स्वामिमीमांसितं तत् । विद्यानंदैः स्वशक्त्या कथमपि कथितं
सत्यवाक्यार्थसिद्धयै ॥ १२२ ॥
इति तत्त्वार्थशास्त्रादौ मुनींद्रस्तोत्रगोचरा । प्रणीताप्तपरीक्षेयं कुविवादनिवृत्तये ॥ १२३ ॥
१३९
विद्यानंदहिमाचलमुखपद्मविनिर्गता सुगंभीरा
आप्तपरीक्षाटीका गंगावच्चिरतरं जयतु ॥ १॥ भास्वद्भासिरदोषा कुमतिमतध्वांतभेदने पट्टी । आप्तपरीक्षालंकृतिराचंद्रार्क चिरंजयतु ॥ २ ॥ स यजतु विद्यानंदो रत्नत्रयभूरिभूषणस्सबलं । तत्त्वार्थार्णवतरणे सदुपायः प्रकटितो येन ॥ ३ ॥ इत्याप्तपरीक्षा समाप्ता ।
Page #145
--------------------------------------------------------------------------
Page #146
--------------------------------------------------------------------------
________________ 9999999999999999999999999999999999991 SEEEEEEEEEEEEeceCERKCECE06044 सब जगहके छपे हुए सब प्रकारके जैनशास्त्र और हिंदी-पुस्तकें मिलनेका पता:बिहारीलाल कठनेरा जैन, मालिक-जैनसाहित्यप्रसारक कार्यालय, हीराबाग, पोष्ट गिरगांव, बम्बई। NEESGEEEEEEEEEEEEEEEEEEEEGeeo PESeeEEEEEEEEEEEEEEEEEEEEeeeeEEEEEEEEEEEE