________________
३०
श्रीविद्यानंदिस्वामिविरचिता
दृष्टनिमित्तेश्वरेच्छाऽभिव्यक्तिः सिद्धयेत् । एतेन पदार्थातरनिमित्ताऽपीश्वरे. च्छाऽभिव्यक्तिरपास्ता । स्यान्मतं महेश्वरेच्छाऽनभिव्यक्तैव कार्यजन्मनि निमित्तं, कर्मनिबंधनाया एवेच्छायाः क्वचिदभिव्यक्ताया निमित्तत्वदर्शनात्तदिच्छायाः कर्मनिमित्तत्वाभावादिति । तदप्यसंबद्धं । कस्याश्चिदिच्छायाः सर्वथाऽनभिव्यक्तायाः क्वचित्कार्ये क्रियाहेतुत्वासिद्धेरज्ञनंतुवत् । कर्मामावे चेच्छायाः सर्वथाऽनुपपत्तेः । तथा हि विवादाध्यासितः पुरुषविशेषो नेच्छावान् निःकर्मत्वात् यो यो निःकर्मा स स नेच्छावान् यथा मुक्तात्मा निःकर्मा चायं तस्मान्नेच्छावानिति नेश्वरस्येच्छासंभवः तदभावे च न प्रयत्नः स्यात् तस्येच्छापूर्वकत्वात् तदभावे भावविरोधात् इति बुद्धीच्छाप्रयत्नमात्रादीश्वरो निमित्तं कायादिकार्योत्पत्तौ कुंभाधुत्पत्तौ कुंभकारवदिति न व्यवतिष्ठते । स्यादाकूतं ते, विवादापन्नः पुरुषविशेषः प्रकृष्टज्ञानयोगी सदैवैश्वर्ययोगित्वात् यस्तु न प्रकृष्टज्ञानयोगी नासौ सदैवैश्वर्ययोगी यथा संसारीमुक्तश्च,सदैवैश्वर्ययोगी च भगवान तस्मात्प्रकृष्टज्ञानयोगी सिद्धः सच प्राणिनां भोगभूतये कायादिकार्योत्पत्तौ सिसृक्षावान् प्रकृष्टज्ञानयोगित्वात् यस्तु न तथा स न प्रकृष्टज्ञानयोगी यथा संसारी मुक्तश्च, प्रकृष्टज्ञानयोगी चायं तस्मात्तथेति तस्येच्छावत्त्वसिद्धिः।तथा च प्रयत्नवानसौ सिसृक्षावस्वात्। यो यत्र सिसृक्षावान् स तत्र प्रयत्नवान् दृष्टः यथा घटोत्पत्तौ कुलालः। सिसक्षावांश्च तनुकरणभुवनादौ भगवान् तस्मात्प्रयत्नवानिति ज्ञानेच्छाप्रयत्नवत्त्वसिद्धेः निःकर्मणोऽपि सदाशिवस्याशरीरस्यापि तन्वादिकार्योत्पत्तौ निमित्तकारणत्वसिद्धर्मोक्षमार्गप्रणीतावपि तत्कारणत्वसिद्धिः बाधकाभावादिति । तदेतदप्यसमंजसं । सर्वथा निःकर्मणः कस्यचिदैश्वर्यविरोधात् । तथा हि विवादाध्यासितः पुरुषो नैश्वर्ययोगी निःकर्मकत्वात् यो यो निःकर्मा स स नैश्वर्ययोगी यथा मुक्तात्मा । निःकर्मा चायं तस्मान्नै