________________
आप्तपरीक्षा ।
३१
श्वर्ययोगी । नन्वेनोमलैरेवास्पृष्टत्वादनादियोगजधर्मेण योगादीश्वरस्य निः कर्मत्वमसिद्धमिति चेत्, न तर्हि सदामुक्तोऽसौ धर्माधर्मक्षयादेव मुक्तिप्रसिद्धेः । शश्वत्क्लेशकर्मविपाकाशयैरपरामृष्टत्वादनादियोगजधर्मसंबंधेऽपि जीवन्मुक्तेरविरोध एव वैराग्यैश्वर्यज्ञानसंबंधेऽपि तदविरोधवदिति चेत् तर्हि परमार्थतो मुक्तामुक्तस्वभावता महेश्वरस्याभ्युपगता स्यात् तथा चानेकांतसिद्धिर्दुर्निवारा । एतेनानादिबुद्धिमन्निमित्तत्वयोगादीश्वरस्य धर्मज्ञानवैराग्यैश्वर्ययोगात् शश्वत्क्लेशकर्मविपाकाशयैर परमृष्टत्वाच्च सदैव मुक्तत्वं सदैवेश्वरत्वं ब्रुवाणो नैकांतमभ्यनुजानातीति निवेदितं प्रतिपत्तव्यं । कथंचिन्मुक्तत्वस्य कथंचिदमुक्तत्वस्य च प्रसिद्धेः । ततोऽनेकांतात्मकत्वप्रसंगपरिजिहीर्षुणा सर्वथा मुक्त एवेश्वरः प्रवक्तव्यः तथा च सर्वथा निःकर्मत्वं तस्योर कर्तव्यमिति नासिद्धं साधनं । नाप्यनैकांतिकं विपक्षे वृत्त्यसिद्धेः । क्वचिदैश्वर्ययोगिनि त्रिदशेश्वरेत्यादौ सर्वथा निःकर्मत्वस्य वृत्त्यासिद्धेः तत एव न विरुद्धं । नापि कालात्ययापदिष्टं पक्षस्य प्रमाणेनाबाधनात् । न हि प्रत्यक्षतोऽस्मदादिभिरैश्वर्ययोगी कश्चिन्निःकमोंपलम्यते यतः प्रत्यक्षवाधितः पक्षः स्यात् । नाप्यनुमानतस्तत्र सर्वस्यानुमानस्य व्यापकानुपलंभेन बाधितपक्षस्य कालात्ययापदिष्टत्वसाधनात् । नाप्यागमतस्तस्योपलंभस्तत्र तस्य युक्त्याननुगृहीतस्य प्रामाण्यविरोधात् । तदनुग्राहिकाया युक्तेरसंभवादेव युक्त्यनुगृहीतस्यापि न तत्रागमस्य संभावना यतः प्रामाण्येनाबाध्यमानः पक्षो न सिद्धयेत्
तोश्च कालात्ययापदिष्टत्वपरिहारो न भवेत् । एतेन सत्प्रतिपक्षत्वं साधनस्य निरस्तं । प्रतिपक्षानुमानस्य निरवद्यस्य संभवाभावसाधनात् । तदेवमस्मादनुमानादैश्वर्यविरहसाधने महेश्वरस्येच्छाप्रयत्नाविरहोपि साधितः स्यात् धर्मविरहवत् । यथैव हि निःकर्मत्वमैश्वर्यविरहं साधयति तथेच्छा