________________
श्रीविद्यानंदिस्वामिविरचिताप्रयत्नमपि तस्य तेन व्याप्तिसिद्धेः । कस्यचिदिच्छावतः प्रयत्नवतश्च परमैश्वर्ययोगिनोऽपींद्रादेनिःकर्मत्वविरोधसिद्धेः। ज्ञानशक्तिस्तु निःकर्मणोऽपि कस्यचिन्न विरुद्ध्यते चेतनात्मवादिभिः कैश्चिद्वैशेषिकासद्धांतमभ्युगच्छद्भिर्मुक्तात्मन्यपि चेतनायाः प्रतिज्ञानात् । चेतना च ज्ञानशक्तिरेव न पुनस्तद्वयतिरिक्तचिच्छक्तिरपरिणामिन्यप्रतिसंक्रमाऽदर्शितविषया शुद्धा चाऽनंता च यथा कापिलैरुपवर्ण्यते तस्याः प्रमाणविरोधात् तथा च महेश्वरस्य कर्मभिरस्पृष्टस्यापि ज्ञानशक्तिरशरीरस्यापि च मुक्तात्मन इव प्रसिद्धा तत्प्रसिद्धौ च ।
ज्ञानशक्त्यैव निःशेषकार्योत्पत्तौ प्रभुःकिल । सदेश्वर इति ख्यानेऽनुमानमनिदर्शनं ॥१२॥
न हि कश्चित्कस्यचित्कार्योत्पत्तौ ज्ञानशक्त्यैव प्रभुरुपलब्धो यतो विवादाध्यासितः पुरुषो ज्ञानशक्त्यैव सर्वकार्याण्युत्पादयति प्रभुत्वादित्यनुमानमनुदाहरणं न भवेत् । ननु साधोदाहरणाभावेऽपि वैधयॊदाहरणसंभवान्नाऽनुदाहरणमिदमनुमानं । तथा हि यस्तु ज्ञानशक्त्यैव न कार्यमुत्पादयति स न प्रभुः यथा संसारी कर्मपरतंत्र इति वैधम्र्येण निदर्शनं संभवत्येवेति न मंतव्यं । साधर्योदाहरणविरहेऽन्वयनिर्णयाभावाद्वयतिरेकनिर्णयस्य विरोधात् । तथा शक्रादेानेच्छाप्रयत्नविशेषैः स्वकार्य कुर्वतः प्रभुत्वेन व्यभिचाराच्च न हींद्रो ज्ञानशक्त्यैव स्वकार्यं कुरुते तस्येच्छाप्रयत्नयोरपि भावात् न चास्य प्रभुत्वमसिद्धं प्रभुत्वसामान्यस्य सकलामरविषयस्य स्वातंत्र्यलक्षणस्यापि सद्भावात् ॥ प्रतिवादिप्रसिद्धमपि निदर्शनमनूद्य निराकुर्वन्नाह
समीहामंतरेणापि यथा वक्ति जिनेश्वरः। तथेश्वरोऽपि कार्याणि कुर्यादित्यप्यपेशलं ॥ १३ ॥