________________
आप्तपरीक्षा। सति धर्मविशेषे हि तीर्थकृत्त्वसमाह्वये ।.. बयाज्जिनेश्वरो मार्ग न ज्ञानादेव केवलात् ॥ १४ ॥ सिद्धस्यापास्तनिःशेषकर्मणो वागसंभवात् । विना तीर्थकरत्त्वेन नाना नार्थोपदेशना ॥१५॥
महेश्वरः समाहामंतरेणापि प्रयत्नं च ज्ञानशक्त्यैव मोक्षमार्गप्रणयनं तन्वादिकार्य च कुर्वीत महेश्वरत्वात् यथा प्रतिवादिप्रसिद्धो जिनेश्वरः प्रवचनोपदेशमिति प्रतिवादिप्रसिद्धमपि निदर्शनमनुमानस्य नोपपद्यते स्याद्वादिभिः प्रतिज्ञायमानस्य जिनेश्वरस्य ज्ञानशक्त्यैव प्रवचनलक्षणकार्यकरणासिद्धेः। सत्येव तीर्थकरत्वनामपुण्यातिशये दर्शनविशुद्धयादिभावनाविशेषनिबंधने समुत्पन्नकेवलज्ञानस्योदयप्राप्ते प्रवचनाख्यतीर्थकरणप्रसिद्धेः । प्रक्षीणाशेषकर्मणः सिद्धस्य वाक्प्रवृत्तरसंभवात्तीर्थकरत्वनामपुण्यातिशयापाये केवलिनोऽपि वाक्प्रसिद्धयसंभववत् । इति धर्मविशेषविशिष्ट एवोत्तमसंहननशरीरः केवली प्रवचनाख्यतीर्थस्य कर्ता प्रसिद्ध इति कथमसौ निदर्शनं महेश्वरस्यापि ।
तथा धर्मविशेषोऽस्य योगश्च यदि शाश्वतः। तदेश्वरस्य देहोऽस्तु योग्यंतरवदुत्तमः॥ १६ ॥
यस्य हि धर्मविशेषो योगविशेषश्च महर्षियोगिनः प्रसिद्धः तस्य देहोऽप्युत्तम एवायोगिजनदेहाद्विशिष्टः प्रसिद्धस्तथा महेश्वरस्यापि देहेनोत्तमेन भवितव्यं तमंतरेण धर्मविशेषस्य योगविशेषस्य वाऽनुपपत्तिरैश्वर्यायोगाद्वैराग्यायोगवत् । कुतो जगन्निमित्तकारणत्वं सिद्धचेदज्ञजंतुवन्मुक्तात्मवच्च । मतांतरमाशंक्य निराकुर्वन्नाहनिग्रहानुग्रहौ देहं स्वं निर्मायान्यदेहिनां। करोतीश्वर इत्येतन परीक्षाक्षम वचः ॥१७॥