________________
श्रीविद्यानंदिस्वामिविरचिता
__कस्यचिद्दुष्टस्य निग्रहं शिष्टस्य चानुग्रहं करोतीश्वरः प्रभुत्वात् लोकप्रसिद्धप्रभवत् । न चैवं नानेश्वरसिद्धिः नानाप्रभूणामेकमहाप्रभुतंत्रस्वदर्शनात् । तथा हि विवादाध्यासिता नानाप्रभव एकमहाप्रभुतंत्रा एव नानाप्रभुत्वात् ये ये नानाप्रभवस्ते ते अत्रैकमहाप्रभुतंत्रा दृष्टाः यथा सामंतमांडलिकादय एकचक्रवर्तितंत्राः प्रभवश्चैते नानाचक्रवर्तीद्रादयः तस्मादेकमहाप्रभुतंत्रा एव योऽसौ महाप्रभुः स महेश्वर इत्येकेश्वरसिद्धिः। स च स्वदेहनिर्माणकरोऽन्यदेहिनां निग्रहानुग्रहकरत्वात् यो योऽन्यदेहिनां निग्रहानुग्रहकरः स स्वदेहनिर्माणकरो दृष्टो यथा राजा । तथा चायमन्यदेहिनां निग्रहानुग्रहकरः तस्मात्स्वदेहनिर्माणकर इति सिद्धं । तथा सति स्वं देहं निर्मायान्यदेहिनां निग्रहानुग्रहौ करोतीश्वर इति केषांचित् वचः तच्च न परीक्षाक्षम महेश्वरस्याशरीरस्य स्वदेहनिर्माणानुपपत्तेः तथा हि
देहांतराद्विना तावत्स्वदेहं जनयद्यदि । तदा प्रकृतकार्येऽपि देहाधानमनर्थकं ॥ १८॥ देहांतरात्स्वदेहस्य विधाने चानवस्थितिः। तथा च प्रकृतं कार्यं कुर्यादीशो न जातुचित् ॥१९॥ यदि हीश्वरो देहांतराद्विनाऽपि स्वदेहर्मनुध्यानमात्रादुत्पादयेत्तदाऽन्यदेहिनां निग्रहानुग्रहलक्षणं कार्यमपि प्रकृतं तथैव जनयेदिति तज्जनने देहाधानमनर्थकं स्यात् । यदि पुनर्देहांतरादेव स्वदेहं विदधीत तदा तदपि देहांतरमन्यस्मादेहादित्यनवस्थितिः स्यात्, तथा चापरापरदेहनिर्माण एवोपक्षीणशक्तिकत्वात् न कदाचित्प्रकृतं कार्य कुर्यादीश्वरः यथैव हि प्रकृतकार्यजननायापूर्व शरीरमीश्वरो निष्पादयति तथैव तच्छरीरनिष्पाद
चितनमात्रात् ।