________________
आप्तपरीक्षा ।
ऽसमवायिनां कार्यैकार्थसमवायः कारणैकार्थसमवायो वा निमित्तकारणानां तु कार्योत्पत्तावपेक्षा कर्तृसमवायिनी कर्मसमवायिनी वाऽपेक्षामाणा प्रत्यासत्तिरिति चेत् ईश्वरो दिक्कालाकाशादीनि च सर्वकार्याणामुत्पादककारण स्वभावत्वं प्रतिपद्येरन् तस्य तेषां च तदुत्पत्तौ निमित्तकारणत्वात् । तथा सकलप्राण्यदृष्टानां कायादिकार्यसमवाय्यसमवायिकारणानां च महेश्वरस्वभावत्वं दुर्निवारं कायादिकाय्र्योत्पत्तौ तत्सहकारित्वसिद्धेरिति सर्वमसमंजसमासज्येत नानास्वभावैकेश्वरतत्त्वसिद्धेः तथा च परमब्रम्हेश्वर इति नाममात्रं भिद्येत परमब्रह्मण एवैकस्य नानास्वभावस्य व्यवस्थितेः । स्यान्मतं कथमेकं ब्रह्म नानास्वभावयोगि भावांतराभावे भवेत्, भावांतरा - णामेव प्रत्यासत्तिविशिष्टानां स्वभावत्वादिति । तदप्यपेशलं । भावांत-राणां स्वभावत्वे कस्यचिदेकेन स्वभावेन प्रत्यासत्तिविशेषेण प्रतिज्ञाय-मानेन नानात्वविरोधात् । प्रत्यासत्तिविशेषैर्नानास्वभावैस्तेषां स्वभावत्वान्नानात्वे तेऽपि प्रत्यासत्तिविशेषाः स्वभावास्तद्वतोऽपरैः प्रत्यासत्तिवि-शेषाख्यैः स्वभावैर्भवेयुरित्यनवस्थाप्रसंगात् सुदूरमपि गत्वा स्वभाववतः स्वभावानां स्वभावांतरनिरपेक्षत्वे प्रथमेऽपि स्वभावाः स्वभावांतर निरपेक्षाः प्रसज्येरन् तथा च सर्वे सर्वस्य स्वभावा इति स्वभाव संकरप्रसंग: तं परिजिहीर्षता न स्वभावतद्वतोर्भेदैकां तोऽभ्युपगंतव्यः । तदभेदैकांते च स्वभावानां तद्वति सर्वात्मनानुप्रवेशात्तदेवैकं तत्त्वं परमब्रह्मेति निगद्यमानं न प्रमाणविरुद्धं स्यात् तदप्यनिच्छता स्वभावतद्वतोः कथंचित्तादात्म्यमेषितव्यं । तथा चेश्वरेच्छायाः नानास्वभावाः कथंचित्तादात्म्यमनुभवतोऽनेकां तात्मिकामीश्वरेच्छां साधयेयुः । तामप्यनिच्छतैकस्वभावेश्वरेच्छा प्रतिपत्तव्या, सा चैकेन प्राण्यदृष्टेनाभिव्यक्ता तदेकप्राण्युपभोगयोग्यमेव कायादिकार्यं कुर्यात् ततो न सकृदनेककायादिकार्योत्पत्तिरिति न प्राण्य
२९