________________
श्रीविद्यानंदिस्वामिविरचिता
"
ततो न परस्पराश्रयदोषो वीजांकुरसंततिवदिति । तदनुपपन्नं । एकाने - कप्राण्यदृष्टनिमित्तत्वविकल्पद्वयानतिक्रमात् । सा हीश्वरेच्छाभिव्यक्तियद्येकप्राण्यदृष्टनिमित्ता तदा तद्भोग्यकायादिकार्योत्पत्तावेव निमित्तं स्यात् न सकलप्राण्युपभोग्यकायादिकार्योत्पत्तौ तथा च सकृदने कप्राण्युपभोग्यकायादिकार्योपलब्धिर्न स्यात् । यदि पुनरनेकप्राण्यदृष्टनिमित्ता तदा तस्या नानास्वभावप्रसंगो नानाकायादिकार्यकरणात् । न ह्येकप्राण्युपभोग्यकायादिनिमित्तेनैकेन स्वभावेनेश्वरेच्छाभिव्यक्ता नानाप्राण्युपभोग्य कायादिका - र्यकरणसमर्था अतिप्रसंगात् । यदि पुनस्तादृश एवैकस्वभावो नानाप्राण्यदृष्टनिमित्तो येन नानाप्राण्युपभोग्य कायादिकार्याणां नानाप्रकाराणामीश्वरेच्छा निमित्तकारणं भवतीति मतं तदा न किंचिदनेकस्वभावं वस्तु सिद्धयेत् विचित्रकार्य करणैकस्वभावादेव भावाद्विचित्रकार्योत्पत्तिघटनात् । तथा च घटादिरपि रूपरसगंधस्पर्शाद्यनेकस्वभावाभावेऽपि रूपादिज्ञानमनेकंकार्यं कुर्वीत शक्यं हि वक्तुं तागेकस्वभावो घटादेर्येन चक्षुराद्यनेकसामग्रीसन्निधानादनेकरूपादिज्ञानजनननिमित्तं भवेदिति । कुतः पदार्थनानात्वव्यवस्था | प्रत्ययनानात्वस्यापि पदार्थैकत्वेऽपि भावाविरोधात् । न हि द्रव्यमेकः पदार्थः नानागुणादिप्रत्ययविशेषजननै कस्वभावो विरुध्यते ॥ यदि पुनः प्रत्ययविशेषादिकार्यभेदाद्द्रव्यगुणादिपदार्थनानात्वं व्यवस्थाप्यते तदा महेश्वरेच्छायाः सकृदने कप्राण्युपभोगयोग्यकायादिकार्यनानात्वान्नानास्वभावत्वं कथमिव न सिध्येत ॥ यदि पुनरीश्वरेच्छाया नानासहकारिण एव नानास्वभावास्तद्व्यतिरेकेण भावस्य स्वभावायोगादिति मतं तदा स्वभावतद्वतोर्भेदैकांताभ्युपगमः स्यात् तस्मिंश्च स्वभावतद्भावविरोधः सह्यविंध्यवदापनीपद्येत प्रत्यासत्तिविशेषान्नैवमिति चेत् कः पुनरसौ प्रत्यासत्तिविशेषः ? समवायिनां सहकारिणां समवायो
"
२८