________________
आप्तपरीक्षा ।
कार्योत्पादनादर्शनात् । कार्योत्पादनेच्छापाये च ज्ञातवतोऽपि तदनुपलब्धेः । तत्र प्रयत्नापाये च कार्योत्पादनज्ञानेच्छावतोऽपि तदसंभवात् । ज्ञानादि -- त्रयसद्भावे च कार्योत्पत्तिदर्शनात् तत्त्वज्ञानेच्छाप्रयत्ननिबंधनमेव कार्य-करणमनुमंतव्यं । तदस्ति च महेश्वरे ज्ञानेच्छाप्रयत्नत्रयं । ततोऽसौ मोक्ष1 मार्गप्रणयनं कायादिकार्यवत्करोत्येव विरोधाभावादिति कश्चित् सोऽपि न युक्तवादी विचारासहत्वात् । सदा कर्मभिरस्पृष्टस्य क्वचिदिच्छा प्रयत्न-योरयोगात्तदाह
२७
1
न चेच्छा शक्तिरीशस्य कर्माभावेऽपि युज्यते । तदिच्छा वाऽनभिव्यक्ता क्रियाहेतुः कुतोऽज्ञवत् ॥ ११ ॥ न हि कुंभकारस्येच्छाप्रयत्नौ कुंभाद्युत्पत्तौ निःकर्मणःप्रतीतौ सकर्मण एव तस्य तत्प्रसिद्धेः । यदि पुनः संसारिणः कुंभकारस्य कर्मनिमितेच्छा सिद्धा सदामुक्तस्य तु कर्माभावेऽपीच्छाशक्तिः संभवति सोपायमुकस्येच्छापायात् न च तद्वदीश्वरस्य तदसंभव इति मतं । तदा सा महेश्वरेच्छाशक्तिरभिव्यक्तानभिव्यक्ता वा । न तावदभिव्यक्ता तदभिन्यंजकाभावात् तज्ज्ञानमेव तदभिव्यंजकमिति चेत् न, तस्य शश्वत्सद्भावादीश्वरस्य सदेच्छाभिव्यक्तिप्रसंगात् । न चैवं तस्याः कादाचित्कत्वात् । अन्यथा वर्षशतांते वर्षशतांते महेश्वरेच्छोत्पद्यते इति सिद्धांतविरोधात् । यदि पुनस्तन्वायुपभोक्तृप्राणिगणादृष्टं तदभिव्यंजकमिति मतिः तदा तददृष्टमीश्वरेच्छानिमित्तकमन्यनिमित्तकं वा । प्रथमपक्षे परस्पराश्रयदोषः सत्यामीश्वरेच्छाभिव्यक्तौ प्राणिनामदृष्टं सति च तददृष्टे महेश्वरेच्छाभिव्यक्तिरिति । स्यान्मतं प्राणिनामदृष्टं पूर्वेश्वरेच्छानिमित्तकं तदभिव्यक्तिश्च तत्पूर्वप्राण्यदृष्टनिमित्तात् तदपि तददृष्टं पूर्वेश्वरेच्छानिमित्तकमित्यबादिरियं कार्यकारणभावेन प्राणिगणादृष्टेश्वरेच्छाभिव्यक्त्योः संततिः ।
3