________________
श्रीविद्यानंदिस्वामिविरचिता
सम्यग्दर्शनज्ञानचारित्रप्रकर्षपर्यंत प्राप्तौ निःश्रेयसमिति वदतोऽपि न मोक्षमार्गप्रणयनसिद्धिरिति प्रतिपादितं बोद्धव्यं केवलज्ञानोत्पत्तौ क्षायिकसम्यग्दर्शनस्य क्षायिकचारित्रस्य च परमप्रकर्षपरिप्राप्तस्य सद्भावात् सम्यदर्शनादित्रयप्रकर्षपर्यंत प्राप्तौ परममुक्तिप्रसंगादवस्थानायोगान्मोक्षमार्गोपदेशासंभवात् तदाप्यवस्थाने सर्वज्ञस्य न तावन्मात्रकारणत्वं मोक्षस्य स्यात् तद्भावभावित्वाभावादेव ज्ञानमात्रवदिति तन्मतमप्यनूद्य विचार
यन्नाह
२६
प्रणीतिर्मोक्षमार्गस्य न विनाऽनादिसिद्धतः । सर्वज्ञादिति तत्सिद्धिर्न परीक्षासहा स हि ॥ ९॥ प्रणेता मोक्षमार्गस्य नाशरीरोऽन्यमुक्तवत् । सशरीरस्तु नाडकर्मा संभवत्यज्ञजंतुवत् ॥ १० ॥
यस्मादनादिसिद्धात्सर्वज्ञान्मोक्षमार्गप्रणीतिः सादिसर्वज्ञान्मोक्षमार्गप्रणयनासंभवभयादभ्यनुज्ञायते । सोऽशरीरो वा स्यात्सशरीरो वा गत्यंतरा - भावात् । न ताक्दशरीरो मोक्षमार्गस्य प्रणेता संभवति तदन्यमुक्तवद्वाक्प्रवृत्तेरयोगात् । नापि सशरीरः सकर्मकत्वप्रसंगादज्ञप्राणिवत् । ततो न अनादिसिद्धस्य सर्वज्ञस्य मोक्षमार्गप्रणीतिः परीक्षां सहते यतोऽसौ व्यवस्थाप्यते । ननु चाशरीरत्वसशरीरत्वयोर्मोक्षमार्गप्रणीतिं प्रत्यनंगत्वात्तत्त्वज्ञानेच्छा प्रयत्ननिमित्तत्वात्तस्याः कायादिकार्योत्पादनवत् । तन्मात्रनिबंधनत्वोपलब्धेः कार्योत्पादनस्य । तथा हि कुंभकारः कुंभादिकार्यं कुर्वन्न सशरीरत्वेन कुर्वीत सर्वस्य सशरीरस्य कुर्विदादेरपि कुंभादिकरणप्रसंगात् । नाप्यशरीरत्वेन कश्चित्कुंभादिकार्यं कुरुते मुक्तस्य तत्करणप्रसंगात् । किं तर्हि ? कुंभादिकार्योत्पादनज्ञानेच्छाप्रयत्नैः कुंभकारः कुंभादिकार्यं कुर्वन्नुपलभ्यते तदन्यतमापायेऽपि तदनुपपत्तेः ज्ञानापाये कस्यचिदिच्छतोऽपि