________________
आप्तपरीक्षा ।
२५
स्तकारकप्रयोक्तृत्वासिद्धिः। न पुनरीश्वरस्य तस्य सदा मुक्तत्वात् सदैवे - श्वरत्वात् संसारिमुक्तविलक्षणत्वाच्च । न हि संसारिवदज्ञो महेश्वरः प्रतिज्ञायते नापि मुक्तवत् समस्तज्ञानैश्वर्यरहित इति तस्यैव समस्तकारकप्रयोक्तृत्वलक्षणं निमित्तकारणत्वं कायादिकार्योत्पत्तौ संभाव्यत इति केचित् । तेऽपि न विचारचतुरचेतसः । कायादिकार्यस्य महेश्वराभावे क्वचिदभावासिद्धेर्व्यतिरेकासंभवस्य प्रतिपादितत्वात् । निश्चितान्वयस्याप्यभावात् । ननु च यत्र यदा यथा महेश्वरसिसृक्षा संभवति तत्र तदा तथा कायादिकार्यमुत्पद्यते । अन्यत्रान्यदाऽन्यथा तदभावान्नोत्पद्यत इत्यन्वयव्यतिरेकौ महेश्वरसिसृक्षायाः कायादिकार्यमनुविधत्ते कुंभादिकार्यवत् कुलालादिसिसृक्षायाः । ततो नान्वयव्यतिरेकयोर्व्यापकयोरनुपलंभोऽस्ति यतो व्यापकानुलंभः पक्षस्य बाधकः स्यादिति चेन्न । तस्या महेश्वरसिस्ट - क्षायाः कायादिकार्योत्पत्तौ नित्यानित्यत्वविकल्पद्वयेऽपि निमित्तकारणत्वनिराकरणात् । तदन्वयव्यतिरेकानुविधानस्यासिद्धेर्व्यापकानुपलभः प्रसिद्ध एव पक्षस्य बाधक इत्यनुमानबाधितपक्षत्वात् कालात्ययापदिष्टहेतुत्वाच्च न बुद्धिमन्निमित्तत्वसाधनं साधीयः सिद्धं यतोऽनुपायसिद्धः सर्वज्ञो ऽनादिः कर्मभिरस्पृष्टः सर्वदा सिध्दचेदिति सूक्तं " तस्यानुपायसिद्धस्य सर्वथाऽनुपपत्तित " इति । योप्याह मोक्षमार्गप्रणीतिरनादिसिद्धसर्वज्ञमंतरेण नोपपद्यते सोपायसिद्धस्य सर्वज्ञस्यानवस्थानात् मोक्षमार्गप्रणीतेरसंभवात् अवस्थाने वा तस्य समुत्पन्नतत्त्वज्ञानस्यापि साक्षान्न तत्त्वज्ञानं मोक्षस्य कारणं तद्भावभावित्वाभावात्तत्वज्ञानात्पूर्वं मोक्षमार्गस्य प्रणयने तदुपदेशस्य प्रामाण्यायोगादतत्त्वज्ञवचनाद्रथ्यापुरुषवचनवत् । नापि प्रादुभूतसाक्षात्तत्त्वज्ञानस्यापि परमवैराग्योत्पत्तेः पूर्वमवस्थान संभवान्मोक्षमार्गप्रणीतिर्युक्ता । साक्षात्सकलतत्वज्ञानस्यैव परमवैराग्यस्वभावत्वात् । एतेन